जापाने इदंप्रथमतया महिला प्रधानमन्त्री।
टोकियो> जापानराष्ट्रस्य प्रथम प्रधानमन्त्रिणीरूपेण प्रशासनपक्षस्य 'लिबरल् डमोक्राटिक् पार्टी' इत्यस्य नेत्री सनाये तकायीची चिता। ६४ वयस्का सा जापानस्य 'आयसमहिला' [Iron Woman] इति प्रख्याता अस्ति। चीनं विरुध्य शक्तं पदक्रमं स्वीक्रियमाणा सा जापानस्य आर्थिक व्यवस्थां दृढीकरिष्यतीति प्रस्तुतवती।