OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 21, 2025

 अयोध्यायां सिक्थप्रतिमासु रामायणकथाप्रदर्शनम्। 

सरयूतीरे सिक्थकौतुकागारः [Wax museum] सज्जः। 

सरयूतीरे सज्जीकृतः सिक्थसंग्रहालयः। 

नवदिल्ली> रामजन्मभूमिसन्दर्शनार्थम् अयोध्यां ये प्राप्नुवन्ति तेभ्यः रामायणदर्शनसुविधा अप्यस्ति। प्राणस्पन्दनवद्भिः सिक्थशिल्पैः राम-सीता-लक्ष्मण-हनुमदादयः सन्दर्शकान् त्रेतायुगं नेष्यन्ति। विश्वस्मिन् प्रथमः रामायण सिक्थसंग्रहालयः [Wax museum] एव सरयूनदीतीरे सज्जः अभवत्। 

  केरले आलप्पुष़ा जनपदीयः सिक्थशिल्पनिर्माणकुशलः सुनिल् कण्टल्लूर् अस्ति अस्य सिक्थकौतुकागारस्य शिल्पी। केरलपारम्पर्याधिष्ठितं भवति  अस्य संग्रहालयभवनस्य निर्माणम्। बाह्यदर्शने स्तरद्वयोपेतं केरली।भवनमिति प्रतिभासते। कथाकेलिवेषे विद्यमानाः रामः, सीता, लक्ष्मणः, रावणश्च केरलीयस्वत्वाय परिपूर्णतां ददति।

  अयोध्याविकसनयोजनायाः अंशतया अस्ति षट् कोटि रूप्यकाणां व्ययेन अस्य सिक्थकौतुकागारस्य निर्माणम्। उपदशसहस्रं चतुरस्रपादमितं विस्तारयुक्ते अस्मिन् सीतास्वयंवरः, वनवासः,लङ्कादाहः, रामरावणयुद्धम् इत्यादीनि कथासन्दर्भाणि सज्जीकृतानि सन्ति। त्रिमानप्रभावोपेतदीपाः [Three D Effect lights]  , अत्याधुनिकसुविधाश्च अत्र सज्जीकृताः।  वर्षद्वयेनैव  अस्य निर्माणं पूर्तीकृतम्। अचिरेणैव तस्य उद्घाटनं भविष्यति।