OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, October 19, 2025

 भारत-आस्त्रेलिया एकदिनक्रिकट् परम्परा अद्य आरभ्यते। 

मेल्बणः> भारत-आस्त्रेलिययोः मिथः एकदिनक्रिकट् परम्परायाः रविवासरे आस्त्रेलियस्थे पेर्त् नगरे शुभारम्भः भवति। २३ तमे दिनाङ्के अडलेय्ड् मध्ये, २५ तमे दिनाङ्के सिड्नी नगरे च इतरौ प्रतिद्वंद्वौ सम्पत्स्येते। 

  शुभ मान गिलस्य नायकत्वे भारतगणः आस्त्रेलियां सम्प्राप्तः। वरिष्ठक्रीडकौ विराट कोली, रोहित शर्मा च गणे वर्तेते इत्येतत् आराधकानाम् उत्साहं वर्धयति।