OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 19, 2025

 तन्वि शर्मा पिच्छकन्दुकवीरतायाः अन्तिमचरणे।

तन्वी शर्मा।

गुवाहाटी> विश्व जूनियर् बाड्मिन्टण् चाम्प्यन्षिप् [पिच्छकन्दुकवीरतास्पर्धा ] इत्यस्य अन्तिमप्रतिद्वन्द्वे भारतस्य क्रीडिका तन्वी शर्मा क्रीडिष्यति। तायलान्ट् राष्ट्रस्य अन्यापत् पिच्चित् प्रीचसाक् नामिका अस्ति प्रतिद्वन्द्विनी। 

  चीनस्य लियू सियां पूर्वान्त्यस्पर्धायां पराजित्य एव तन्वी शर्मणः अन्तिमचरणप्रवेशः। २००८ तमे वर्षे सैना नेवाल् इत्यस्याः वीरतापदप्राप्त्यनन्तरं प्रथमतया एव काचन भारतीयक्रीडिका अन्तिमस्पर्धां प्रविशति।