गुजराते मन्त्रिमण्डलं परिष्कृतम्।
अहम्मदाबादः> गुजरातराज्ये भा ज पा मन्त्रिमण्डलं पुनःसंघटितम्। १० मन्त्रिणः निष्कास्य तत्स्थाने नूतनान् मुख्यमन्त्री भूपेन्द्र पटेलः न्ययुङ्क्त। षट् मन्त्रिणः संरक्षिताः।
नूतनमन्त्रिमण्डले त्रिस्रः महिलाः सन्ति। आहत्य २६ मन्त्रिणः वर्तन्ते। क्रिकट् क्रीडकः रवीन्द्र जडेजा इत्यस्य पत्नी रिवाबा जडेजा नूतना सहमन्त्रिणी अस्ति। गतवर्षे कोण्ग्रसदलं त्यक्त्वा भा ज पा दलेन संयुक्तवान् विपक्षनेता कोण्ग्रसदलस्य भूतपूर्वराज्याध्यक्षश्च अर्जुन मोदवादी पूर्णमन्त्रिस्थानमलभत।