OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 19, 2025

 दिल्ल्यां राज्यसभासदस्यानाम् आवाससमुच्चये अग्निप्रकाण्डः। 


नवदिल्ली> राजधान्यां अतिशक्ते सुरक्षामण्डले वर्तमाने राज्यसभासदस्यानाम् अधिवाससमुच्चये 'ब्रह्मपुत्र अपार्टमेंट्' नामके शनिवासरे बृहदग्निप्रकाण्डः दुरापन्नः। दीपावल्युत्सवस्य विरामदिनमासीदित्यतः राज्यसभासदस्याः नासन्। जनापायः न वृत्तान्तीकृतः। 

  नगरहृदये अतिसुरक्षामण्डले वर्तमाने बिषम्बर् दास मार्गे भवनसमुच्चये  शनिवासरे मध्याह्ने १२. ३० वादने आसीत् अग्निबाधा। अग्निबाधायाः कारणमधिकृत्य औद्योगिकं दृढीकरणं नागतम्। किन्तु दीपावलिमनुबन्ध्य बालकैः विस्फोटितेभ्यः ध्वनकेभ्यः  अग्निस्फुलिंगाः अलक्ष्येण सञ्चितेषु वस्तुषु पतित्वा एव दुर्घटना जाता इति सूच्यते।

  संसद्सभायाः २०० मीटर् मिते दूरे वर्तमानः अस्ति अग्निबाधितः आवाससमुच्चयः। गृहोपकरणानि, कार्-द्विचक्र यानानि इत्यादीनि अग्निसात्कृतानि। अधःस्तरस्थानि अष्ट वासस्थानानि पूर्णतया भस्मीकतानि।