OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 21, 2025

 राष्ट्रपतिः अद्य केरले।

श्वः शबरिगिरिमन्दिरदर्शनम्। 


अनन्तपुरी>  चतुर्दिनात्मकपर्यटनाय भारतराष्ट्रपतिः द्रौपदी मुर्मू वर्या कुजवासरे सायं ६. २० वादने अनन्तपुरी विमाननिलयं प्राप्नोति। राजभवने वासं कुर्वन्ती सा बुधवासरे आकाशमार्गेण शबरिगिरिमन्दिरदर्शनार्थं निलक्कल् प्राप्स्यति। अनन्तरं  वीथीद्वारा पम्पां सम्प्राप्य सविशेषयानेन शबरिगिर्यां शास्तृमन्दिरं प्राप्स्यति। 

  रात्रौ अनन्तपुरीं प्रतिनिवृत्तमाना राष्ट्रपतिः राज्यपालस्य राजेन्द्र विश्वनाथ आर्लेकरस्य आतिथ्यं स्वीकरिष्यति। २३ तमे दिनाङ्के राजभवने स्थापितां भूतपूर्वराष्ट्रपते‌ः के आर् नारायणस्य प्रतिमाम् अनाच्छादयिष्यति।

  ततः मध्याह्ने शिवगिर्यां श्रीनारायणगुरोः महासमाधिसम्मेलनस्य उद्घाटनं करिष्यति। ततःपरं पाला इत्यत्र कार्यक्रमे भागं कृत्वा कुमरकं मध्ये उष्यति। २४ तमे दिनाङ्के एरणाकुलं नगरस्थस्य कलालयस्य कार्यक्रमे भागं गृहीत्वा दिल्लीं प्रतिगमिष्यति।