महिला विश्वचषक क्रिकट्।
भारतस्य इङ्गलाण्टं प्रति पराजयः।
पूर्वान्त्यसाध्यता अस्पष्टा।
इन्दोरं> पेर्त् मध्ये पूरुषक्रिकट्गणस्य पादपतनस्यानन्तरं भारतस्य महिलागणस्यापि पराजयः। महिलानाम् एकदिनक्रिकट् विश्वचषक क्रिकट् स्पर्धासु भारतेङ्लण्टयोः प्रतियोगितायां भारतगणस्य पराजयः अभवत्। उत्साहभरितस्य प्रतिद्वन्द्वस्य अन्तिमक्षेपणचक्रे भारतस्य विजयाय १४ धावनाङ्केषु अपेक्षितेषु ९ धावनाङ्कान् सम्पाद्य भारतगणं पराभवमाप। प्राप्ताङ्कसूचिका - इङ्गलाण्टः ५० क्षेपणचक्रेषु २८८/८, भारतं २८४/६।
अनुस्यूततया तृतीयः पराजयः भवति भारतस्य। अनेन पराजयेन भारतस्य पूर्वान्त्यप्रवेशः मन्दभाग्यं विधत्तः।