OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 18, 2025

 मोसांबिक् समीपसमुद्रे नौकादुर्घटना। 

षट् भारतीयाः अदर्शनं गताः। 

कोच्ची> दक्षिणाफ्रिकायां मोसांबिक् प्रदेशसमीपस्थे समुद्रे दुरापन्नेन नौकादुर्घटनेन षट् भारतीयाः अदर्शनं गताः। महानौकायाः यन्त्रविद्याकुशलान् अन्तर्भूय आहत्य २१ अङ्गोपेतसंघेन सह सञ्चरन्ती नौका पर्यावरणदुष्प्रभावात् समुद्रे निमग्ना आसीत् इति गण्यते।  

तिरोभूतेषु एकः केरलीयः अस्ति। सः महानौकायाः साङ्केतिकदोषपरिहारकुशलः अस्ति। १५ जनाः रक्षां प्राप्ताः इति सूच्यते। तिरोभूतेषु द्वयोः मृतदेहौ अनन्तरम् अधिगतौ  इति स्थिरीकरणरहितवार्ता अप्यस्ति।