OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 26, 2025

 लाटिन् अमेरिका युद्धभीषायाम्। 

यू एस् युद्धमहानौकाः करीबियसमुद्रं प्रति;  उन्मादकवस्तुनां कपटसन्तरणं निरोद्धुमिति यू एस्।

प्रत्याघातः भविष्यतीति वेनस्वेलयाः राष्ट्रपतिः।

वाषिङ्टणः> लाटिन् अमेरिकीयराष्ट्रैः सह संघर्षस्य वीर्यं विधाय करीबियसमुद्रे युद्धमहानौकाव्यूहं विन्यस्तुं 'पेन्टगणस्य' [यू एस् सैनिकास्थानं] आदेशः। लाटिनमेरिकाराष्ट्रेषु विद्यमानान् उन्मादकवस्तूनां कपटसन्तरणसंघान् निरोद्धुमिति अस्य नीतीकरणम्।

   किन्तु यू एस् राष्ट्रेण युद्धं निर्मीयते इति वेनस्वेलाराष्ट्रपतिः निकोलास् मडुरो आरोपितवान्। मडुरो इत्येनं राष्ट्रपतिपदात् निष्कासयितुमेव अमेरिकायाः आत्यन्तिकलक्ष्यमिति  वेनस्वेलेन भीयते। 

  लाटिनमेरिकायाः अधोलोकसंघाः नौकासु उन्मादकवस्तूनि आनयन्ति इत्यारोप्य सेप्टम्बरमासादारभ्य यू एस् प्रशासनं करीबियने आक्रमणं करोति। १० नौकाः विनाशिताः। ४३ जनाः हताश्च। बुधवासरे रात्रावपि नौकाक्रमणेन ६ जनाः मृताः। वेनस्वेलस्य निगूढसंघेन उन्मादकसन्तरणमासीत् इति अमेरिकायाः आरोपः। कोलम्बिया, ब्रसीलः इत्यादीनि राष्ट्रण्यपि यू एस् विरुद्धपक्षे वर्तन्ते।