आन्ध्रप्रदेशे बस् याने अग्निबाधा - २० मरणानि।
कुर्णूल्> हैदराबादतः बङ्गलुरुं गतवत् निजीयबस् याने अग्निप्रकाण्डेन २० यात्रिकाः दग्ध्वा मृताः। अमितवेगेन विपरीतदिशया प्राप्तं बैक् यानं बस् यानस्य अधः पतित्वा इन्धनसंभरण्यां अग्निबाधा आपन्ना आसीत्।
कुणूर् जनपदे उलिन्दाकोण्टा इत्यत्र शुक्रवासरे प्रत्युषसि त्रिवादने आसीदियं दुर्घटना। बैक् यान यात्रिकः बस्यानयात्रिकेषु १९ जनाश्च मृत्युमुपगताः। मृत्युसंख्या इतोSप्यधिकं भविष्यतीति सूच्यते।
'कावेरी ट्रावल्स्' इति संस्थायाः शयनसुविधोपेतं बस् यानमेव (Sleeper bus) दुर्घटनाविधेयमभवत्। ४२ यात्रिकाः याने आसन्। दग्धानां बहूनामवस्था कठिनतरा वर्तते।