OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 25, 2025

 आन्ध्रप्रदेशे बस् याने अग्निबाधा - २० मरणानि। 

कुर्णूल्> हैदराबादतः बङ्गलुरुं गतवत् निजीयबस् याने अग्निप्रकाण्डेन २० यात्रिकाः दग्ध्वा मृताः। अमितवेगेन विपरीतदिशया प्राप्तं बैक् यानं बस् यानस्य अधः पतित्वा इन्धनसंभरण्यां अग्निबाधा आपन्ना आसीत्। 

 कुणूर् जनपदे उलिन्दाकोण्टा इत्यत्र शुक्रवासरे प्रत्युषसि त्रिवादने आसीदियं दुर्घटना। बैक् यान यात्रिकः बस्यानयात्रिकेषु १९ जनाश्च मृत्युमुपगता‌ः। मृत्युसंख्या इतोSप्यधिकं भविष्यतीति सूच्यते। 

  'कावेरी ट्रावल्स्' इति संस्थायाः शयनसुविधोपेतं बस् यानमेव (Sleeper bus) दुर्घटनाविधेयमभवत्। ४२ यात्रिकाः याने आसन्। दग्धानां बहूनामवस्था कठिनतरा वर्तते।