बीजिङे ठक्कुरवर्यस्य अर्धकायप्रतिमा।
बीजिङ्> चीनराष्ट्रस्य राजधान्यां चीनीयशिल्पिना युवान् षिकुन् इत्यनेन विनिर्मिता रवीन्द्र नाथ ठक्कुरस्य अर्धकायप्रतिमा भारतस्य स्थानपतिकार्यालये अनाच्छादिता। भारतीय तत्त्वचिन्तापारम्पर्यस्य प्रचारणं लक्ष्यीकृत्य स्थानपतिकार्यालयेन समाकारितस्य कार्यक्रमस्य अंशतया अस्ति प्रतिमास्थापनम्।
शतवर्षेभ्यः पूर्वं ठक्कुरमहाशयेन कृतं चीनसन्दर्शनं चीन-भारतसम्बन्धस्य सुवर्णकाल आसीदिति चीने भारतस्थानपतिः प्रदीप रावतः प्रावोचत्। २००९ तमे वर्षे चीनस्य ६० तमवार्षिकोत्सवस्य अंशतया विधत्ते मताभीक्षणे आधुनिकचीनराष्ट्रस्य विकासाय योगदानं कृतवत्सु ५० विदेशव्यक्तित्वेषु भारतात् जवहर्लाल नेहरु , रवीन्द्रनाथ ठक्कुरः च अन्तर्भूतौ आस्ताम्।
