OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 30, 2026

 केरलम्।

कोच्चीनगरे पैतृकभवने अग्निबाधा।

२१८ वयःप्रमाणोपेतं भवनमिदानीं पथिकावासः। 

अग्निबाधितं कोडरहौस् भवनम्। 

कोच्ची> फोर्ट् कोच्चीनगरस्थे 'कोडर् हौस्' नामके पथिकावासे [Hotel] गतदिने सायं सप्तवादने अग्निबाधा अभवत्। जीवहानिः न वृत्तान्तीकृतः। १८०८ तमे वर्षे भारत-पोर्चुगीसवास्तुविद्याम् आधारीकृत्य निर्मितं स्तरत्रयोपेतं भवनमेतत्। 

  कोच्चीराज्ये २१८ वर्षेभ्यः पूर्वं जूतधर्मीयेषु अग्रिमः, विद्युतोपकरणानां विक्रेता सामुवल् एस् कोडर् इत्यनेन निर्मितं वासमन्दिरम् अद्यत्वे पैतृकस्मारकरूपेण संरक्ष्यमाणं कोडर हौस् इत्यभिधेयः पथिकावासः अस्ति। 

  अग्निबाधायाः कारणं न निर्णीतम्। होरात्रयेणैव अग्निः नियन्त्रणविधेयो जातः। नाविकसेना, तीरसंरक्षणसेना, अग्निशमनसेना इत्येतयोः युगपत्प्रयत्नेन अग्नि  निर्व्यापितः अभवत्।