भीकरतां विरुध्य राष्ट्रस्य प्रतिप्रहरः।
'ओपरेशन् सिन्दूर्' - पाकिस्थानस्य भीकरकेन्द्रेषु भारतस्य शस्त्रोपचारः।
+ २५ निमिषाः, ९ केन्द्राणि, ७० मरणानि।
+ विशीर्णेषु भीकरपरिशीलनकेन्द्रेषु एकं
बिन् लादनेन निर्मितम्।
नवदिल्ली> पहल्गामभीकराक्रमणस्य १५ तमे दिने पाकिस्थानं प्रति भारतसैन्यस्य मर्मभेदकं प्रत्युत्तरम्। अद्य प्रत्युषसि १. ०५ वादनतः १. ३० वादनपर्यन्तं दीर्घिते सैनिकप्रक्रमे पाकिस्थानस्य काश्मीरस्थानि भीकराणां ९ परिशीलनकेन्द्राणि विनाशितानि। जनवासक्षेत्राणि अपनीय, केवलं भीकरशिबिराणि लक्ष्यीकृत्य कृते 'ओपरेशन् सिन्दूर्' इति कृतनामधेये शस्त्रप्रहरे ७० भीकराः हताः इति सेनाधिकारिभिः निगदितम्।
सैनिकप्रक्रमानन्तरम् आकारिते वार्ताहरसम्मेलने उपग्रहचित्राणां साह्येन प्रमाणैः सहितमासीत् सैन्याधिकारिणः उपस्थापनम्।
.webp)





.jpeg)




.jpeg)



.webp)