भारत-विन्डीसयोः द्वितीयम् एकदिनमद्य।
परम्पराप्राप्तिः भारतलक्ष्यम्।
गुवाहट्टी> वेस्ट् इन्डीसं विरुध्य भारतस्य द्वितीया एकदिनस्पर्धा बुधवासरे असमराज्ये गुवाहट्टीक्रीडाङ्कणे सम्पत्स्यते। अनन्तपुर्यां सम्पन्नायां प्रथमस्पर्धायां भारतं विजितमासीत्। अतः स्पर्धात्रयात्मिका परम्परा प्राप्तव्या इत्यस्ति भारतस्य लक्ष्यम्।
अपराह्णे द्विवादनतः अहोरात्रप्रतियोगिता भविष्यति। विराट कोली, रोहित शर्मा, शुभमान गिलः इत्यादयः क्रीडन्तीत्यतः भारतस्य विजयप्रतीक्षा अस्ति।