अप्पाच्चे ए एच् - ६४ इ उदग्रयानस्य प्रथम श्रेणी अद्य प्राप्स्यते।
OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Saturday, July 27, 2019
आट्टूर् रविवर्मा दिवंगतः।
तृश्शिवपेरूर् > प्रमुखः केरलीयकविः अनुवादकश्च आट्टूर् रविवर्मा [८९] तृश्शिवपेरूर् मध्ये निजीयातुरालये निर्यातः। 'न्युमोणिया' रोगबाधया तत्र चिकित्साविधेयः आसीत्।
द्राविडसंस्कृतेः पारम्पर्यं परिपालयन् कैरलीकविताशाखायै अन्तश्शक्तिप्रदाने नूतनं पन्थानं समुद्घाटयति स्म रविवर्मा वर्यः। केन्द्र - केरलसाहित्य अक्काडमीपुरस्कारौ, एष़ुत्तच्छन् पुरस्कारः, इत्यादिभिः प्रमुखैः पुरस्कारैः समादृतः। मेलसङ्गीतादिकलासु अगाधपण्डित आसीत्।
Friday, July 26, 2019
लिबिया सागरतीरे नौकायानभग्नेन १५० अभयार्थिनः आहताः।
ट्रिप्पोली> गतदिने लिबिया सागरतीरे नौकायानभग्नेन १५० संख्याकाः अभयार्थिनः निहताः। मेडिट्टरेनिया सागरे अस्मिन् वर्षे आपन्ने विपत्सु बृहत्तमा स्यात् इयम् इति यू एन् प्रतिनिधी अवदत्I नौकायाने २५० तः परं जनाः यात्रां कुर्वन्तः आसन्| उपशतं जनान् लिबियस्य तीरसेना धीवराः च संयुक्ततया अरक्षन् इति लिबियस्य नाविकसेना अवदत्।
आफ्रिक्क भूखण्डस्थेभ्यः विविधेभ्यः राष्ट्रेभ्यः लिबियं प्राप्य ततः यूरोपस्थान् राष्ट्राभिमुखाः गच्छन्ति समान्येन अभयार्थिनः। २०१९ तमे संवत्सरे मेडिट्रेनिया सागरे एवं ६०० अभयार्थिनः मारिताः सन्ति इति यु न् प्रतिनिधिः चार्ली याक्स्ली अवदत्। Thursday, July 25, 2019
- "पाकिस्थानधिष्ठिताः भीकराः काश्मीरेषु प्रवर्तन्ते" - इम्रान् खानः।
३० सहस्रेभ्यः ४० सहस्रपर्यन्ताः सायुधाः भीकराः पाकिस्थानमधिवसन्ति। ते सर्वे अफ्गानिस्थानात् काश्मीराद्वा सिद्धपरिशीलाः भवन्ति। उपचत्वारिंशत् आतङ्कवादसंघटनानि राष्ट्रे प्रवर्तमानानि सन्ति। सैन्यस्य साहाय्येन भीकरान् उन्मूलयितुं यतते इति पाक् प्रधानमन्त्रिणा संकलितम्।
Wednesday, July 24, 2019
बोरिस् जोण्सणः ब्रिट्टणस्य प्रधानमन्त्री भविष्यति।
लन्टन्> ब्रिट्टणस्य नूतनप्रधानमन्त्रीपदे बोरिस् जोण्सणः भविष्यति। तेरेसा मेय् इत्याख्यायाः स्थानत्यागानन्तरम् आयोजिते सम्मतिदाने आसीत् अस्य चयनम्। विपक्षस्थं विदेशकार्य सचिवं जरमि हण्डं पराजित्य आसीत् अस्य विजयः। बोरिस् महोदयः ६६% सम्मतिः प्राप्तवान्I ब्रेक्सिट्ट् सन्ध्यां विधानसभायाम् अभिमतसमन्वयं न स्यात् इन्यनेन असीत् तेरेसायाः स्थानत्यागस्य कारणम्।
कुमारस्वामिसर्वकारः पतितः।
बेङ्गलुरु > कर्णाटकराज्ये एस् डि कुमारस्वामिनः नेतृत्वे विद्यमानः जे डि एस् - कोण्ग्रस् सख्यसर्वकारः पतितः। सप्ताहद्वयपर्यन्तं दीर्घितस्य राजनैतिकनाटकस्य अन्ते विश्वासमतगणनावेलायां सख्यसर्वकारस्य भूरिमतं विनष्टमभवत्। २०५ अङ्गयुक्तविधानसभायां केवलं ९९ सामाजिकानां सहयोग एव प्राप्तः। १०५ सामाजिकाः सर्वकारं विरुध्य स्वमतं प्रकटयामासुः।
अनन्तरं मुख्यमन्त्री कुमारस्वामी राजभवनं प्राप्य राज्यपालाय त्यागपत्रं समर्पितवान्।
षार्ज देशे भारतीयाः अनशनतया पीडिताः।
षार्ज> मासत्रयं यावत् अनशनतया क्लेशिताः केचन भारतीयाः। दुबाय् केन्द्रीकृत्य वास्तुविद्या मण्डले प्रवर्तमानः पालस्तीन् स्वदेशीयानां कर्मसंस्थायां भवति एषा दुर्दशा। केषाञ्चन पारपत्रस्य अनुज्ञाकालस्य पर्यवसितः च। निष्कृतिरपि सम्पूर्णतया न लभते। कर्मसंस्थायाः अधिकारिणां पुरतः निष्कृतिं पृच्छति चेत् कर्म नास्ति अतः षण्मासान् यावत् प्रकोष्टे यापनं कुरु इति तैः उच्यते इति दाक्षिणात्यः महेशः वदति। एवं चेत् पारपत्रं निरस्य स्वदेशं प्रेषयतुम् अर्थयते चेत् तत् ते न अङ्गीकुर्वन्ति इत्यपि तेनोक्तम्। अस्मिन् उत्तरभारतीयाः अधिकतया कर्म कुर्वन्ति। येन केनापि मार्गेण स्वदेशः प्रापणीयः इत्यस्ति सर्वेषां मनसि इदानीन्तनीया चिन्ता। कर्मकरेषु केचित् दुबाय् सर्वकारस्य कर्ममण्डलविभागं प्रति विषयमिदं न्यवेदितम्। तेषां प्रत्युत्तरं प्रतीक्ष्य तिष्ठन्तः सन्ति।
Tuesday, July 23, 2019
बहिराकाशे नवचरितं विरच्य भारतं ; चन्द्रयानं भ्रमणपथं प्राप्तम्।
श्रीहरिक्कोट्टा > २०१९ जूलाई २२ अपराह्ने २.४३ भारतस्य अभिमाननिमेषः! भारतस्य द्वितीयं चन्द्रपर्यवेषणपेटकं वहन् 'बाहुबलिः' [जि एस् एल् वि मार्क् ३ गोलान्तरप्रक्षेपिणी] सतीष् धवान् बहिराकाशकेन्द्रात् बहिराकाशं प्रति उदगच्छत्। षोडशनिमेषाभ्यन्तरे चन्द्रयानं विक्षेपणीतः विच्छेदितं भ्रमणपथं प्राप्तं च। अचिरादेव चन्द्रयानस्य नियन्त्रणं बङ्गुलुरुस्थया ऐ एस् आर् ओ संस्थया स्वीकृतम्।
चन्द्रयानविक्षेपणं विजयपथं प्राप्तमिति ऐ एस् आर् ओ अध्यक्षः डो. के शिवः अवादीत्। राष्ट्रपतिः रामनाथकोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः राष्ट्रनेतारः चन्द्रयानदौत्यस्य भूमिकायां प्रयतितवतः शास्त्रज्ञान् अभिनन्दितवन्तः।
Monday, July 22, 2019
अलीकविहीन राज्यं भवितुम् उतरघण्डं सज्जायते।
डेराडूणं> उत्तरघण्डम् अलीकविहीन राज्यं कर्तुं सर्वकारः प्रयतते। एतस्य भागतया विनामी (Benami) भूविक्रयप्रक्रियां विरुद्ध्य नियमनिर्माणं कर्तुं निश्चितं सर्वकारेण। विनामिकानां भूमिः विना विलम्बं बलात् स्वीकरिष्ये इति मुख्यमन्त्रिणा त्रिवेन्द्रसिंह रावत्तेण उक्तम्। अलीककृतान् विरुद्ध्य मुखदर्शनं विना प्रक्रमाः स्वीकरिष्यन्ते। राज्यस्य प्रगतये वर्तमानः अलीकरहितः सर्वकारः भवति एषः। अलीकान् विरुद्ध्य प्रक्रमा समारब्धाः इत्यपि त्रिवेन्द्रसिंह रावत्तेण उक्तम्।
'श्रीहरिक्कोट्टा' सर्वसज्जा ; चन्द्रयानं - २स्य विक्षेपः अद्य।
श्रीहरिक्कोट्टा > इन्धनागारदोषात् स्थगितक्षिप्तस्य चन्द्रयानं द्वितीयस्य विक्षेपाय अत्रत्यः बहिराकाशनिलयः सर्वसिद्धतां प्राप। अद्य अपराह्ने २.४३ वादने विक्षेपः भविष्यति। साङ्केतिकदोषाः सर्वे परिहृत्य एव विक्षेपः इति ऐ एस् आर् ओ अध्यक्षः के . शिवः उक्तवान्।
सेप्टम्बर् षष्ठदिनाङ्के एव चन्द्रोपरितले मृदूत्तरणं [soft landing] भवेत् इति पूर्वनिर्णयमनुसृत्य 'सोफ्ट् वेर्' मध्ये आवश्यकं परिवर्तनं कृतम्। चन्द्रगोलं प्रक्षिणं क्रियमाणं 'ओर्बिटर्', चन्द्रोपरितलं अवतीर्यमाणं विक्रम् नामकम् अवतारकं [लान्डर्], पर्यवेषणं क्रियमाणं प्रग्यान् - प्रज्ञानं- नामकं 'रोवर्' इत्येतैः युक्तं भवति चन्द्रयानं - २। 'बाहुबलि' संज्ञकं जि एस् एल् वि मार्क् ३ अग्निबाण एव विक्षेपणवाहनम्।
इरानेन ब्रिट्टनेन च परस्परं निगृहीतयोः महानौकयोः षट् केरलीयाः।
कोच्ची > गतदिने होर्मुस् समुद्रान्तर्भागे इरानेन निगृहीतायां ब्रिट्टनस्य तैलेन्धनयुक्तायां महानौकायाम् अन्तर्भूतेषु १८ भारतीयेषु त्रयः केरलीयाः इति दृढीकृतम्। एरणाकुलं, तृप्पूणित्तुरा, पल्लुरुत्ती, कासरगोड् प्रदेशीयाः एव ते इति प्रत्यभिज्ञातम्। तथा च जूलै ४ दिनाङ्के ब्रिट्टनेन जिब्राल्टर् समुद्रे इरानस्य 'ग्रेय्स् १' नामिका महानौका निगृहीता आसीत्। तत्र च त्रयः केरलीयाः वर्तन्त इति वार्ता लब्धा। सर्वानपि भारतीयान्मोचयितुं प्रक्रमाः समारब्धा इति विदेशमन्त्रालयेन निगदितम्।
Sunday, July 21, 2019
इरानेन गृहीते ब्रिट्टीषीयमहानौकायां १८ भारतीयाः।
भारतीयान् मोचयितुं यत्नः आरब्धः।
लण्टन् > होर्मुस् समुद्रान्तर्भागे इरानेन निगृहीतायां ब्रिट्टनस्य तैलेन्धनयुक्तायां महानौकायां १८ भारतीयाः अन्तर्भवन्तीति स्थिरीकृतम्। २३ सेवाकर्तृषु अन्ये रूस् , फिलिप्पीन्स्, लात्विया देशीयाः इति सूच्यते। भारतीयान् मोचयितुं अन्ताराष्ट्रतले उद्यमः आरब्धः इति भारतस्य विदेशकार्यमन्त्रालयेन उक्तम्।
ब्रिट्टनस्य 'स्टेना इम्पेरा' नामिका तैलेन्धनपूर्णा महानौका इरानस्य 'इस्लामिक् रवलूषणरि गार्ड्' इत्यनेन निगृहीता। अनया घटनया पश्चिमेष्यन् मण्डले संघर्षावस्था शक्ता जाता।
केरले वर्षा शक्ता; चत्वारः मृताः।
कोच्ची > दिनद्वयेन केरले वर्षाकालः शक्तः अभवत्। अतिवृष्ट्याः दुष्प्रभावात् चत्वारः जनाः मृताः। कतिपयेषु जनपदेषु दुरिताश्वासशिबिराणि आरब्धानि।
आगामिदिनेषु वृष्टिः शक्ता भविष्यतीति पूर्वसूचना अस्ति। केषुचित् जनपदेषु अतितीव्रवर्षस्य प्रवचनेन अतितीव्रजाग्रता प्रख्यापिता।
षीला दीक्षितः दिवंगता।
नवदिल्ली > वरिष्ठा कोण्ग्रस् नेत्री तथा दिल्लीप्रदेशस्य भूतपूर्वमुख्यमन्त्रिणी षीलादीक्षितः [८१] दिवंगता। पञ्चमासानि यावत् केरलस्य राज्यपालपदं च अलंकृतवती आसीत्। शनिवासरे सायं ३.५५वादने दिल्ल्याम् आतुरालये हृदयाघातेन मरणमभवत्।
अद्य मध्याह्ने ए ऐ सि सि आस्थाने सामान्यजनानां कृते दर्शनाय सन्दर्भः लभ्यते। ततः यमुनातीरस्थे निगम बोध घट्टश्मशाने अन्त्यक्रियाः सम्पत्स्यन्ते। प्रधानमन्त्री नरेन्द्रमोदी, राष्ट्रपतिः रामनाथकोविन्दः, राहुल् गान्धी, सोणियागान्धी , ए के आन्टणी इत्येते वरिष्ठाः कोण्ग्रस् दलनेतारः इत्यादयः षीलादीक्षितस्य वियोगे अनुशोचितवन्तः।
Saturday, July 20, 2019
प्रलयः - असं बीहारादिराज्येषु मरणानि १५० अतीतानि।
नवदिल्ली > भारतस्य उत्तरपूर्वीयराज्येषु प्रलयदुष्प्रभावे मृतानां संख्या १५० अतीता। १.१५ कोटिजनाः दुष्प्रभावम् अनुभवन्तः सन्तीति अधिकारिभिः निगदितम्। पुनरधिवासप्रवर्तनानि ऊर्जितेनानुवर्तन्ते।
बीहारे अद्यावधि ९२ जनाः मृत्युवशं प्राप्ताः। मृतानां परिवारेभ्यः क्रमशः चतुर्लक्षं रूप्यकाणि देयानीति मुख्यमन्त्रिणा नितीष्कुमारेण उक्तम्। असमराज्ये तु एषा संख्या ४७ अभवत्।
मनुष्यं चन्दोपरितले अवतारणं कृत्वा ५० संवत्सराः अतीताः- चलनघण्टेन सह गूगिल् डूडिल्।
Friday, July 19, 2019
पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री षाहिद् खान् अब्बासि उद्कोचव्यवहारे ग्रहीतः।
इस्लामाबाद्> पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री षाहिद् खान् अब्बासि उद्कोचव्यवहारे नाषणल् अकौण्डबिलिट्टि ब्यूरो (NAB) द्वारा ग्रहीतः। पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री नवास् षेरीफ् भूतपूर्व राष्ट्रपतिः आसिफ् अलि सर्दारि इत्याख्यानन्तरं ग्रहीतः प्रमुखः राष्ट्रियनेता भवति एषः अब्बासि। लाहोरस्थ पत्रकारसमाजं प्रति गमनसमये आसीत् तस्य ग्रहणम् इति पि टि ऐ वार्ताहर संस्थया आवेदितम्।
द्रवीकृत-प्रकृतिवातक संबन्धतया कृते लकुचप्रवर्तने भवति ग्रहणम्।
भारतस्य रक्षामन्त्रालयेन निगदितं यत् - राफेलागमनेन वायुसेनायाः युद्धनीतिः इतोऽपि दृढतरा भविष्यतीति।
-सन्दीपकोठारि
नवदेहली> रक्षामंत्रालयस्य वार्षिकप्रतिवेदनं गुरुवासरे समुपन्यस्तम्। प्रत्यावेदनानुसारं राफेल् एयरक्राफ्ट् इत्यस्यागमनेन भारतीयवायुसेनायाः युद्धक्षमता वर्धिष्यते सहैव युद्धनीतिस्तरेऽपि नैकतत्त्वानि इतोऽप्यधिकतया दृढतराणि भविष्यन्ति।
फ्रान्स् (एयरफोर्स) वायुसेनामार्गदर्शने अधिकारीणां टेक् निक् जनानां च प्रथमोत्पत्तिचक्रस्य प्रशिक्षणं समारब्धम्। प्रतिवेदने प्रोक्तं यत् राफेल् इत्यस्य वायुसेनायाम् आगमनेन शस्त्रपक्षः अधिको भविष्यति। मिसाइल् यानं च सुदीर्घकार्यकुशलं लक्ष्यानुगुणं सक्षमं च भविष्यति। भारतम् आत्मविरोधिभिस्समं इतोऽपि अधिकं बलवत् भवितुं शक्ष्यति।
मुम्बई भीकराक्रमणस्य सूत्रधारः हाफिस् सयीदः पाकिस्थाने गृहीतः।
लाहोर् > २००८ तमे संवत्सरे मुम्बय्यां संवृत्तस्य भीकराक्रमणस्य सूत्रधारः , 'जमाअत्तुद्दव' नामकसंघटनस्य नायकश्च हाफिस् मुहम्मद् सयीद् नामकः पाकिस्थाने निगृहीतः।लाहोरतः गुज्रन्वालांप्रति गच्छति सति पाकिस्थानीयस्य पञ्चाब् आरक्षकैः एषः गृहीतः।
मस्तिष्के निवेष्टुं नाडीबन्धिधित-सङ्गणकशलाका निर्मिता।
मस्तिष्कं यन्त्रान् च मिथः बन्धनीयः इति लक्ष्यीकृत्य इलोण् मस्कस्य नेतृत्वे आरब्धः अनुसन्धानयोजनाः सफलतां प्राप्स्यन्ते। केशादपि लघुतमा 'इलक्ट्रोड्' सूत्राणि उपयुज्य मनुष्यस्य मस्तिष्के सङ्गणक-शालाकायाः बन्धनं कुर्वन्ति। काल-कालान्तरं यावत् विना साहायं प्रवर्तते इयम्। अन्येषां साहाय्येन जीवनं यापयतां शारीरिकक्लेशेन पीडितानां कृते स्वस्य उपकरणानि यथेच्छं प्रवर्तयितुं शक्यते अनया योजनया।
'न्यूरा लिङ्क्' इति संस्थया निर्मितानि एतानि विशेषसूत्राणि विवरण-वितरणे अतिक्षमतायुक्तानि भवन्ति। एतस्य प्रथमाग्राणि 'एन् वण्' इति सङ्गणकशलाकायां ( chip) सुबद्धानि भविष्यन्ति। द्वितीयाग्राणि मस्तिष्कस्य विशेषभागेषु च संबद्धानि भविष्यन्ति। अनन्तरं मस्तिष्कस्य बहिः लघु उपकरणमपि संबन्ध्य विवरणानि वितरिष्यन्ति। विद्युत्-तरङ्गानुपयुज्य भवति अस्य उपकरणस्य टङ्कितांश-वितरणम्। Thursday, July 18, 2019
कुलभूषणजाधवस्य मृत्युदण्डे अन्ताराष्ट्रनीतिपीठस्य आश्वासविधिः।
हेग् > मृत्युदण्डं धृत्वा पाकिस्थानस्य कारागृहे वसतः भूतपूर्वनाविकस्य कुलभूषणजाधव् नामकस्य मृत्युदण्डः अन्ताराष्ट्रीयनीतिपीठेन निरस्तः। १६ अङ्गयुक्तनीतिपीठस्य १५ अङ्गास्तु कुलभूषणाय ऐकमत्यं प्राकटयन्। मृत्युदण्डः पुनर्विचारणीयः इति तैरुक्तम्। किन्तु मृत्युदण्डं निरोद्धुं कुलभूषणं मोचयितुं वा नीतिपीठेन नोद्युक्तः।
कुलभूषणस्य प्रकरणे भारतस्य अधिकारः पाकिस्थानेन निषिद्ध इति अन्ताराष्ट्रनीतिपीठेन पर्यवेक्षितम्। किञ्च कुलभूषणाय अवश्यं नैतिकसाहाय्यमपि न लब्धमिति निरीक्षितम्।
Wednesday, July 17, 2019
विश्वे बुभुक्षया पीडिताः ८२ कोटि जनाः - यु. एन्
U.N > गतसंवत्सरे विश्वे खाद्यविभवाय क्लेशितानां जनानां सङ्ख्या ८२.१ कोटि इति अन्ताराष्ट्र-संयुक्त-समित्याः आवेदनम्। पोषकयुक्त भक्ष्योत्पन्नानाम् अभावेन २०१५ तमसंवत्सरादारभ्य इयं दुर्दशा वर्धितक्रमेण वृद्धिं याति इति आवेदने सूच्यते। दश संवत्सरेभ्यः पूर्वम् ईदृश्याम् अवस्थायाम् आश्वासप्रदः पुरोगतिः आसीत्। अभ्यन्तर-युद्धानि, पर्यावरणव्यत्ययानि च भक्ष्य दौर्लभ्यस्य प्रधान-कारणत्वेन उच्यते।
२०१७-तमे ८१ कोटि जनाः दिने एकवारस्य अन्नमपि विहाय उषिताः आसन्। २०३० तमे - बुभुक्षारहितो विश्वः इति लक्ष्यं साक्षात्कर्तुं बहुक्लेशः भविष्यति इति यू एन् समित्याः भक्ष्य-विभागाध्यक्षः डेविड् ब्लीसि अवदत्। भक्ष्यसुरक्षां विना शान्तिः सुस्थितिः च न भविष्यतः। दुर्भिक्षया विश्वे शिशवः अपि मृताः सन्ति। तथापि वार्तामाध्यमानि सदा डोणाल्ड् ट्रम्पं ब्रेक्सिट्टिनं च परितः भ्रमणं कृतवन्तः सन्ति इति डेविड् ब्लीसिना तस्य विप्रतिपत्तिः प्रकाशिता।
पाकिस्थानीयः व्योममार्गः उद्घाटितः।
भारतविमानानाम् डयनं सुकरं भविष्यति।
नवदिल्ली > पूर्वं बालाक्कोट् प्रदेशे भारतेन कृतेन आक्रमणेन पिहितः व्योममार्गः पाकिस्थानेन उद्घाटितः। गतदिने मध्याह्ने स्वकीयव्योममार्गेण डयितुं सर्वासां विमानसंस्थानां कृते डयनानुमति प्रदत्ता। पाकिस्थानस्य अयं निर्णयः भारतेन स्वागतीकृतः।
मुम्बैनारे अट्टः भग्नः, ७-जनाः मारिताः २० जनानाम् अवस्था गुरुतरा।
मुम्बै> दक्षिणमुम्बै नगरे अट्टः पतित्वा सप्तजनाः मृताः। अट्टस्य अन्तर्भागे उपचत्वारिंशत् जनाः स्तगिताः। व्रणिताः विंशति जनाः आतुरालयं प्रविष्ठाः। मृतेषु पञ्चजनाः प्रत्यभिज्ञाताः। डोङ्ग्रिस्थ तण्डल् वीथ्याम् आसीत् अट्टः। शतं संवत्सराणां पुरातनत्वमासीत् अस्य चतुरट्टगृहस्य। मङ्गलवासरे प्रभाते ११ वादने आसीत् इयं दुर्घटना। अष्टकुटुम्बाः अत्र निवसन्तः आसन्। राष्ट्रिय दुरन्तनिवारण सेनायाः त्रयः सङ्घाः अत्र रक्षा प्रवर्तनेषु व्यापृताः सन्ति।
Monday, July 15, 2019
सोलनस्थले त्रितलात्मक-अतिथ्यागारः भूमौ पपात, पञ्चविंशतिजनाः त्रापिताः,त्रयो मृताः चतुर्दशजनाश्च भूमौ विलीनाः।
-सन्दीपकोठारिः
सोलनम् ,जे एन् एन् > हिमाचलप्रान्त-सोलनस्थलस्य कुमारहट्टी इत्यस्मिन् स्थाने गतरविवासरे मध्याह्ने त्रितलात्मकः अतिथ्यागारः भग्नीभूय भूमौ पपात। भवनेऽस्मिन् द्विचत्वारिंशज्जनाः आसन् अथ च भोजनार्थमागताः त्रिंशत्सैन्यजनाः अपि भूमौ आपतितवन्तः। अनुमीयते यत् अस्मिन्नतिथिगारे सैनिकसहिताः पञ्चदश जनाः कालेन कबलीकृताः इति। त्रयः मृताश्च निर्गमिताः। मृतशरीरेषु च एकः राजकिशोरः अपि आसीत्। अवधेयास्पदं यत् सेनायाः त्रिंशज्जनेषु सप्तदशजनाः पुञ्जीभूतात् मृदवशिष्टात् अन्यैरुद्धृताः। येषु द्वौ च व्याघातेन अतीव ग्रस्तौ।
भूमौ विलीनाः द्वाद्वशजनाः इदानीमपि अनवगताः। अष्टजनानां च रक्षाकार्यमपि निरवहत्। अतिथ्यागाराधिपतेः साहिलकुमारस्य समग्रपरिवारजनाः अत्रैव निवसन्तः आसन्। दैवानुकूलतया इदमभवत् यत् तदीयात्मजाः तस्मिन्नापत्काले बहिर्गताः परं साहिलस्य धर्मांगिनी अपि भूमिक्षतिग्रस्ते निपतिता सा च अत्यपायस्थितौ प्रत्युद्धृता च। घटनाक्रमेऽस्मिन् पञ्चकूलातः एन् डी आर् एफ् इत्यस्य सुरक्षाकर्तारः समुपस्थिताः च। दुर्घटनानिवारणप्रयत्नः अचिरात् समारब्धम्।।
Sunday, July 14, 2019
केरलराज्यस्तरीय वनिताशिक्षिकासङ्गगमः सम्पन्नः।
पालक्काट् > केरल-संस्कृताध्यापक फेडरेषन् संस्थायाः 'मातृकं-2019' इति राज्यस्तरीय 'वनितासङ्गम'-कार्यक्रमः पालक्काट् कर्णकियम्मन् हयर्सैक्कण्डरि विद्यालये 2019 जूलै 13 दिनाङ्के प्राचलत्। पालक्काट् जिल्लापञ्चायत्त् सदस्या संस्कृतशिक्षिका श्रीमती श्रीजा महाभागा अध्यक्षपदम् अलञ्चकार। पालक्काट् जिल्लापञ्चायत्त् अध्यक्षा न्यायवदी (Adv) के शान्तकुमारि उद्घाटनमकरोत्। विद्याभारत्याः भूतपूर्व-राष्ट्रियाद्ध्यक्षः पण्डितरत्नं डो पि के माधवन् महोदयः अनुग्रह-भाषणमकरोत्। 'यूत्ओलिंपिक्स्' प्रतिभां कुमारि जे विष्णुप्रियां कार्यक्रमे अनुमोदितवन्तः। "स्त्रीशक्तीकरणं संस्कृतं च" इति विषये पालक्काट् भारतीय-विद्यानिकेतन् शिक्षाशास्त्री कलालयस्य प्राचार्या डो. पि सि वि रेणुका महाभागा प्रबन्धं अवतारितवती। मध्याह्ने सांस्कृतिक-सदसि संस्कृतशिक्षिका श्रीमती नीना वारियर् अष्टपदिं (सोपानसङ्गीतम्) प्रस्तुतीकृता।
समापनसत्रे सि पि सनल् चन्द्रस्य अध्यक्षतायां श्री रमेश् नम्पीशन् महोदयः संघटनासन्देशं दत्तवान्। पि. जि अजित् प्रसाद् , डो सिपि षैलजा, यु कैलास् मणि, विके राजेष्, के के राजेष्, सुजाता, राधामणि, प्रसन्ना, प्रभृतयः स्वीयाभिमतान् प्रकटितवन्तः। प्राथमिकस्तरे संस्कृतशिक्षण-कार्यक्षमं कर्तुं , छात्राणां गणनानुसारं शिक्षकनियुक्तिं प्रस्तुतीकृत्य "पठेत् संस्कृतं शिक्षकं दद्यात्" इति मुद्रागीतम् उन्नीय्य प्रवृत्ते मेलने 300 अधिकाः संस्कृत-शिक्षिका-शिक्षकाः भागभाजः अभवन् ।
समापनसत्रे सि पि सनल् चन्द्रस्य अध्यक्षतायां श्री रमेश् नम्पीशन् महोदयः संघटनासन्देशं दत्तवान्। पि. जि अजित् प्रसाद् , डो सिपि षैलजा, यु कैलास् मणि, विके राजेष्, के के राजेष्, सुजाता, राधामणि, प्रसन्ना, प्रभृतयः स्वीयाभिमतान् प्रकटितवन्तः। प्राथमिकस्तरे संस्कृतशिक्षण-कार्यक्षमं कर्तुं , छात्राणां गणनानुसारं शिक्षकनियुक्तिं प्रस्तुतीकृत्य "पठेत् संस्कृतं शिक्षकं दद्यात्" इति मुद्रागीतम् उन्नीय्य प्रवृत्ते मेलने 300 अधिकाः संस्कृत-शिक्षिका-शिक्षकाः भागभाजः अभवन् ।
न्यूसिलान्ट् - इङ्ग्लण्ट् प्रतियोगिता त्रिवादने।
लण्टन् > क्रिक्कट्क्रीडायाः विश्ववीरः क इति अद्य ज्ञायते। लोर्ड्स् क्रीडाङ्कणे अद्य भारतीयसमये सायं त्रिवादने सम्पद्यमाने प्रतिद्वन्द्वे न्यूसिलान्ट्-इङ्ग्लण्ड् दलौ स्पर्धिष्येते। आतिथेयः इङ्ग्लण्ड्दलः चतुर्थवारमेव अन्तिस्तरं प्रविशति। न्यूसिलान्ट्दलश्च द्वितीयवारम्। किन्तु द्वावपि प्रथमकिरीटाभिलाषिणौ।
उपान्त्यस्पर्धायां न्यूसिलान्टः भारतं १८ धावनाङ्कैः पराजयत। इङ्ग्लण्डस्तु विद्यमानवीरं आस्ट्रेलियादलं ८ द्वारकैः अभिभूतवान्।
Saturday, July 13, 2019
सैन्यः सर्वसज्जः - अल् ख्वैद अध्यक्षस्य भीषा तृणवत् मन्यते- भारतम्।
नवदिल्ली- अल् ख्वैद अध्यक्षस्य अय्मन् अल् सवाहिरि इत्यस्य भीषा सन्देशः गौरवेण न वीक्ष्यते इति भारतम्। राष्ट्रस्य सीमानम् आधिपत्यं च परिपालयितुं मन्त्रालयस्य वक्तापरिपालयितुं भारतसेना पर्याप्ता इति विदेशकार्य-मन्त्रालय वक्ता रविषकुमारः वार्ताहरान् प्रति अवदत्। ईदृशी भीषा मध्येमध्ये जाते। किन्तु प्रतिरोद्धुं शैर्यं युद्धोपकरणानि च भारताय सिद्धम् इत्यनेन तादृशी भीषा तृणवत्गण्यते साधारणतया इत्यपि तेनोक्तम्। ऐक्य राष्ट्रसभया निरोधितम् आतङ्कवादिदलं भवति इदम्। अस्य नेतारः बहुवारं UN प्रक्रमाः स्वीकृताः सन्ति इति वार्तामेलने तेनाेक्तम्। भारतसेनां सर्वकारं च विरुद्ध्य आक्रमणान् कर्तुं सवाहिरि इत्यस्य सन्देशः बहिरागतः आसीत् ।
Wednesday, July 10, 2019
लोकश्रद्धा 'श्रीहरिक्कोट्टां' प्रति।
श्रीहरिक्कोट्टा > चन्द्रस्य दक्षिणध्रुवं प्रति भारतस्य सञ्चाराय सिद्धतामनुवर्तमानं श्रीहरिक्कोट्टाभिधेयं विक्षेपणकेन्द्रं लोकश्रद्धामाकर्षति। 'चन्द्रयानं -२' पेटकस्य विक्षेपाय केवलं पञ्च दिनानि अवशिष्यन्ते। सतीष् धवान् बहिराकाशकेन्द्रे एे एस् आर् ओ शास्त्रज्ञाः साङ्केतिकविदग्धाश्च सिद्धताव्यवस्थायाः अन्तिमसोपाने व्यापरन्ति।
जि एस् एल् वि मार्क् ३ इत्यस्मात् शक्तादग्निबाणात् जूलाई १५तमे दिनाङ्के उषसि २.५१ वादने चन्द्रयानस्य अटनमारभते। ५३ दिनानां सञ्चारानन्तरं चान्द्रपथं प्राप्स्यति। ततः १४दिनानां निरीक्षणं परिकल्प्यते।
Monday, July 8, 2019
छात्रैः ३.५० डण् मितानि पलास्टिक मालिन्यानि सञ्चितानि।
![]() |
| छात्राः परिस्थिति-विभाग-निर्देशकः मह्दि अल् हाषेमिना सह |
दुबाय् > दुबायस्थ-विद्यालयीय छात्रैः विगते दिने ३.५० डण् (३५२४ किलो) मितानि पलास्टिक मालिन्यानि सम्भृतानिI उपयोगानन्तरं दूरं प्रेषिताः कूप्यः भ्राष्ट्राणि च भवन्ति सम्भृतेषु अधिकतया। विश्वभौमदिनानुबन्धतया दुबाय् नगरपालिकया छात्रेभ्यः स्पर्धा आयोजिता। पलास्तिक मालिन्यानां सञ्चयनमासीत् स्पर्धा। १८६४२ छात्राः स्पर्धायां भागं ग्रहीतवन्तः। ५७५ किलोमितं पलास्तिकमालिन्यानि सञ्चय्य अल् अह्-मदिय आदर्शविद्यालयेन प्रथम स्थानम् प्राप्तम्। ३१३ किलोमितं पलास्तिक मालिन्यानि सञ्चयित्वा जुमैरा विद्यालयः द्वितीय स्थानं २३३ किलो मितानि पलास्तिक मालिन्यानि सञ्चय्य अहम्मद् बिन् सुलीं प्राथमिकविद्यालयस्य तृतीयं स्थानं च प्राप्तम्।
परिस्थितिप्रतिकूलावस्थां न्यूनीकर्तुं, तथा छात्रेषु परिस्थिति संरक्षणभावनाम् उद्पादयितुं च अनेन कार्यक्रमेण उद्दिश्यते इति दुबाय् शैक्षिकमण्डलस्य प्रतिनीधी परिस्थिति-विभाग-निर्देशकः मह्दि अल् हाषेमी अब्रवीत्।
[
[
Sunday, July 7, 2019
रोहित् शर्मणः चरित्रशतकम्।
आस्ट्रेलिया दक्षिणाफ्रिक्कया पराजिता।
आस्ट्रेलिया दक्षिणाफ्रिक्कया पराजिता।
लीड्स् > एकदिनक्रिक्कट्क्रीडायाः विश्वचषकस्पर्धायां श्रीलङ्कां विरुध्य भारतस्य उज्वलविजयः। प्रवेशकक्रीडकयोः रोहित् शर्मा - लोकेष् राहुलयोः शतकाभ्यां ताडकसप्तकस्य विजयः। प्राप्तधावनाङ्कसंख्या - निश्चिते ५० क्षेपणचक्रे श्रीलङ्का २६४, ७ ताडकैः ; भारतं - ४३.३ क्षेपणचक्रे २६५, ३ ताडकानां विनष्टेन ।
पञ्चमं शतकं प्राप्य भारतस्य प्रवेशकताडकः रोहित् शर्मा [१०३] नूतनं चरितं व्यरचयत्। एकस्यां विश्वचषकक्रीडापरम्परायां प्रप्रथममेव कश्चन ताडकः पञ्च शतकानि अवाप्नोति। तथा च विश्वचषकचरिते रोहितस्य षष्ठं शतकं भवत्येतत्। अनेन रोहितः विश्वचषके अत्यधिकः शतकवानिति सच्चिन् टेन्टुल्कर् वर्यस्य विशिष्टपदेन सह प्राप्तवान् च। रोहितादृते इतरः प्रवेशताडकः लोकेष् राहुलः अपि शतकं [१११] प्राप्तवान्।
उपान्त्यचक्रे भारतं न्यूसिलान्टेन सह स्पर्धिष्यते। अन्यस्यां प्रतियोगितायां आस्ट्रेलिया दक्षिणाफ्रिक्कया अभिभूता। अनेन फलेन आस्ट्रेलिया- इङ्गलण्ट् उपान्त्यस्पर्धा सम्पत्स्यते।
Subscribe to:
Posts (Atom)





















