मम दिग्दर्शकः, गुरुः, सर्वस्वम्... श्री. प्रोफ. आर्. वासुदेवन् पोट्टी।
-डा. मनोजः बी. (भावना)
मम दिग्दर्शकः, गुरुः, सर्वस्वम्... श्री. प्रोफ. आर्. वासुदेवन् पोट्टी।
"शासनं नीतियुक्तं चेत् न्यायालयेभ्यः प्रतिरोधः न स्यात्।
प्रशासनानि नियमनिर्माणं च विमर्शयन् मुख्यन्यायाधिपः एन् वि रमणः।
नियमनिर्माणे सम्भूयमानाः अव्यक्तताः न्यायालयानां भारं वर्धयन्ति। जनक्षेममालक्ष्य सुव्यक्ततया दीर्घवीक्षणेन च नियमनिर्माणसभासु नियमाः अनुमोद्यन्ते चेत् नीतिलब्धये सामान्यजनानां नीतिपीठाश्रयणं न्यूनीकर्तुं शक्यते इति तेनोक्तम्।
उत्तरभारते उष्णतरङ्गः अतिरूक्षः जातः। आगामिदिनेषु तापमानः वर्धिष्यते।
नवदिल्ली> उत्तरभारते अतितापः रूक्षः जातः। आगामिदिनेषु तापमानः २°c अधिकः भविष्यति इति पूर्वसूचना अस्ति। राजस्थानं, दिल्ली, हरियाना, उत्तरप्रदेशः, ओडिषा राज्येषु orange वर्णजाग्रता ख्यापिता। उष्णतरङ्गः नवदिल्ल्यां अनुवर्तिष्यते। मध्यप्रदेशः, विदर्भा, जम्मूः, पञ्जाबः, हरियाना, चण्डीगढ:, उत्तरप्रदेशः, चत्तीस्गढः, राजस्थानं, बीहारः, झार्खंण्डः, तेलङ्गाना, ओडिषा राज्येषु प्रत्येकं प्रदेशेषु अपि तापवर्धनसाध्यता अस्ति
भारतविदेशकार्यमन्त्री भूट्टानं सन्दर्शयति।
तिम्फू> भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः भूट्टानस्य प्रधानमन्त्रिणा ल्योन् चेन् लोटाई इत्यनेन सह मेलनमकरोत्। आगोल-प्रादेशिकविषयाः चर्चिताः इति जयशङ्करेण ट्विटर मध्ये लिखितम्। भारतभूट्टानयोः बन्धुतां प्रबलीकर्तुम् एतन्मेलनमुपकरिष्यतीति ल्योन् चेन् लोटाई महोदयेन निगदितम्।
खनिजाङ्गारदौर्लभ्यं - उत्तरभारतराज्येषु विद्युत्प्रतिसन्धिः अतितीव्रः।
नवदिल्ली> खनिजाङ्गारदौर्लभ्येन उत्तरप्रदेशः, बिहारः, पञ्चाब्, दिल्ली, राजस्थानं, झार्खण्डः इत्यादीनि राज्यान् वैद्युतिलाभे अतिक्लेशः अनुभवन्ति। अतः एतेषु राज्येषु ३ - ८ होरापर्यन्तं यावत् वैद्युतिविच्छेदः विधत्तः।
वैद्युतिः आवश्यानुसारं न लभते चेत् मेट्रो आतुरालयाः इत्यादीनां प्रवर्तनानि स्थगयिष्यतीति दिल्लीसर्वकारेण आशङ्का प्रकाशिता। ओडीषाराज्ये विद्युत्प्रतिसन्धिमूलतः विद्यालयाः मेय् ३० दिनाङ्कपर्यन्तं पिहताः। राजस्थाने उद्योगशालासु ४ होरापर्यन्तं वैद्युतिविच्छेदः विधत्तः। ग्रामेषु ३ होराः, जनपदकेन्द्रेषु होराद्वयं, नगरप्रदेशेषु एका होरा इति प्रकारेण विद्युद्विच्छेदः विधत्तः।
उत्तरप्रदेशे अवश्यम्भूतखनिजाङ्गारस्य चतुर्थांश एव सञ्चितरूपेण वर्तते इति ऊर्जमन्त्रालयेण निगदितम्। पञ्चाबे च कृषि उद्योगादिक्षेत्राणि विद्युत्प्रतिसन्धिना अतिक्लेशमनुभवन्तीति सर्वकाराधिकारिभिः उक्तम्।
मुख्यमन्त्रिणां तथा उच्चन्यायालयस्य मुख्य-न्यायाधीशानां च संयुक्तोपवेशनं प्रधानमन्त्रिणा संबुध्यते।
नवदिल्ली> राष्ट्रस्य नीतिन्याय-व्यवस्थायाम् इदानीम् अभिमुखीक्रियमाणां समस्याम् अधिकृत्य परिचिन्तनाय आयोक्ष्यमाणं मेलनम् प्रधानमन्त्रिणा नरेन्द्रमोदिना संबुध्यते । उद्घाटनसमारोहे भविष्यति तस्य भाषणम्। नीतिः ललितया रीत्या सर्वेभ्यः लब्धुं किं किं कर्तव्यम् इति परिचिन्तनस्य मुख्यविषयः। न्यायालयप्रक्रमेषु प्रौद्योगिकविद्यायाः अपि योजनं कृतम् अस्ति। त्वरितवेगेन नीतिवितरणम् अनिवार्यमेव। विषयोऽयमपि उपवेशनस्य कार्यक्रमे चर्चासूचकत्वेन अस्ति।
उत्तरभारते अतितापः - तापतरङ्गजाग्रतासूचना।
नवदिल्ली> उत्तरभारतस्य राजस्थानं, दिल्ली, हरियानं, उत्तरप्रदेशः, ओडीशा राज्येषु तापमानं ४५ डिग्रीपरिमितं प्राप्तमित्यतः तापतरङ्गस्य पूर्वसूचना दत्ता।
आगामिनि द्वित्रिषु दिनेषु तापः डिग्रिद्वयं वर्धिष्यते इति ऋतुविज्ञानीयविभागेन निगदितम्। मेय् प्रथमसप्ताहानन्तरं वर्षाभ्यः साध्यता अस्ति।
खनिजाङ्गारदौर्लभ्यं - राष्ट्रे विद्युत्प्रतिसन्धिः तीव्रः।
नवदिल्ली> खनिजाङ्गारदौर्लभ्येन आराष्ट्रं विद्युदुत्पादने गणनीया न्यूनता अभवत्। अतः विविधेषु राज्येषु वैद्युतिविच्छेदः [Load shedding], क्षमताविच्छेदः [Power cut] इत्यादीनि नियन्त्रणानि विधत्तानि।
केरले सायं ६. ३० तः ११ पर्यन्ते काले १५ निमेषपर्यन्तं विद्युद्विच्छेदः विहितः। नगरप्रदेशान् आतुरालयादि अवश्यसेवनानि च वर्जयित्वा एव नियन्त्रणं विधत्तम्।
कोविड् वर्धनं - केरलेऽपि मुखावरकम् अवश्यं कृतम्।
अनन्तपुरी> केरलराज्ये अपि कोविड्प्रकरणानि वर्धन्ते इत्यतः सामान्यस्थानेषु सङ्घेषु च मुखावरकम् अवश्यं कारितम्। ये मुखावरकं न धरन्ति तेभ्यः ५०० रूप्यकाणाम् आर्थिकदण्डम् विहितम्
आराष्ट्रं कोविड्बाधितानां संख्या उद्गच्छति इत्यस्मात् केन्द्रसर्वकारेण कोविडनुशासने विधत्तानि लाघवानि निरस्तुं निर्देशः दत्तः आसीत्। तदनुसारमेव केरलस्य प्रक्रमः।
केरले गतदिने ३५० जनाः कोविड्बाधिताः अभवन्। आराष्ट्रं नूतनाः कोविड्बाधिताः ३३०३ अभवन्। ३९ मरणानि च।
समीपकालेषु दुरन्ताः वर्धिष्यन्ते - संयुक्तराष्ट्रसभा।
फ्रान्से राष्ट्रपतिनिर्वाचनम् - मक्रोणस्य उज्वलविजयः।
पारीस्> फ्रान्सराष्ट्रस्य राष्ट्रपतिनिर्वाचने एम्मानुवल् मक्रोणः उज्वलविजयं प्राप्तवान्। प्रतियोगिनं मारिन् ले पेन् नामकं विरुध्य ५८.५४% मतदानानि समाहृत्य एव ४४ वयस्कः मक्रोणः द्वितीयवारमपि राष्ट्रपतिपदं प्राप्तवान्। विंशतिसंवत्सरस्यानन्तरं प्रथमतया एव वर्तमानः राष्ट्रपतिः पुनरपि चिन्वते।
जि - २० शिखरसम्मेलनाय कोच्ची ।
कोच्ची> भारतेन आतिथेयत्वम् ऊढ्यमानाय आगामिनि संवत्सरस्य जि - २० शिखरसम्मेलनस्य मन्त्रितलोपवेशनाय वेदिकारूपेण कोच्ची परिगण्यते। वेदिकामनुबन्धसुविधां चान्वेष्टुं केन्द्राधिकारिसंघः कोच्चीं प्राप्त आसीत्। राज्यसर्वकारस्य प्रतिनिधिभिः सह कृतायां चर्चायां अधिकारिवृन्दः संतृप्तिं प्रकाश्य एव प्रतिनिवृत्त इति सूच्यते। कोच्या सह गुजरातः एपि परिगण्यते अपि अन्तिमनिर्णयः केन्द्रसर्वकारेण विधास्यते।
आगामिनि वर्षे शिखरमनुबन्ध्य उपद्विशतं मेलनानि उपवेशनानि च भारतेन आतिथेयत्वमूढ्यमानानि प्रतीक्षन्ते। तेषु मुख्यमस्ति मन्त्रिस्तरीयोपवेशनम्। वाससुविधा , यात्रासुविधा, सुरक्षा,पर्यावरणमित्यादिकमेव चर्चितम्।
ट्विट्टर् संस्था इलोण् मस्कस्य हस्ते भवेत् ।
कालिफोर्णिय>विश्वप्रिया सन्देशसुविधा इति सुज्ञाता "ट्विट्टर्" धनाढ्येन इलोण् मस्केन स्वीक्रियेत। संस्थायाः सहकारिणां सम्मर्देन विक्रेतुं सन्दर्भः अजायत इत्यस्ति भाषितम्। ४३०० कोटिडोलर् धनम् इलेण् मस्केन वाग्दत्तमासीत्। अतः एव टिट्वर् इत्यस्य सहकारिणः विक्रयणाय सम्मर्दम् आरब्धवन्तः। इलोणस्य वाग्दानं ट्विट्टर् स्वामिनः स्वीकुर्युः।
ग्रामसभानां बले एव नवभारतस्य समृद्धिः - नरेन्द्रमोदी।
नवदिल्ली> राष्ट्रस्य 'पञ्चायती'सभानां शक्तावेव नवभारतस्य सर्वतोमुखविकासः समृद्धिश्च सन्तिष्ठतीति प्रधानमन्त्री नरेन्द्रमोदी अभिप्रैतवान्। राष्ट्रिय पञ्चायतीराजदिनोत्सवमनुबन्ध्य ट्विटर माध्यमेनैव प्रधानमन्त्रिणः प्रतिकरणम्।
स्वाश्रयभारतं संरचयितुं राष्ट्रेषु ग्रामसभानां प्रबलीकरणाय शपथं कर्तुं सः उद्बोधितवान्।
भारते कोविड् वर्धते - मुख्यमन्त्रिणां मेलनमायोज्यते।
नवदिल्ली> राष्ट्रे साप्ताहिकं यावत् कोविड्प्रकरणानि वर्धमानानि दृश्यन्ते इत्यतः साहचर्यावलोकनार्थं प्रधानमन्त्रिणा नरेन्द्रमोदिना मुख्यमन्त्रिणां मेलनमायोक्ष्यते। दृश्यश्रव्यमाध्यमद्वारा बुधवासरे मेलनं भविष्यति।
केन्द्रस्वास्थ्यसचिवः राजेशभूषणः महामार्याः अधुनातनस्थितिमधिकृत्य आवेदनपत्रम् अवतारयिष्यति। कोविड्नियन्त्रणानां विषये मेलने निर्णयो भविष्यति।
प्रधानमन्त्री अद्य जम्मूकाश्मीरं सन्द्रक्ष्यति।
जम्मू> प्रधानमन्त्री नरेन्द्रमोदी रविवासरे जम्मूकाश्मीरं प्राप्नोति। जम्मूकाश्मीरस्य सविशेषपदं दत्तमानं राजनीतेः ३७० तमानुच्छेदस्य निरासानन्तरं मोदिनः प्रथमं सन्दर्शनं भवत्येतत्। अत एव शक्तः सुरक्षासन्नाहः विधत्तः।
राष्ट्रिय पञ्चायत्तीराजदिनमनुबन्ध्य रविवासरे सान्तजनपदस्थे पालिग्रामे आयोज्यमाने सम्मेलने नूतनतया चितान् उपत्रिंशत्सहस्रं ग्रमसभासदस्यान् प्रधानमन्त्री अभिसम्बोधयिष्यति। तथा च पालिग्रामे आयोज्यमानानां २०,०००कोटिरूप्यकाणां परियोजनानामुद्घाटनमपि प्रधानमन्त्री करिष्यति।
केरले नवम्यां कक्ष्यायां 'SAY' परीक्षा।
अनन्तपुरी> केरलराज्ये अस्मिन् संवत्सरे ये छात्राः वार्षिकपरीक्षां न लिखितवन्तः इत्यतः नवमकक्ष्यातः स्थानोत्तीर्णतां न लब्धवन्तः तेषां कृते 'Save A Year' नामिकां पाठ्यवर्षसंरक्षणपरीक्षाम् आयोजयितुं राज्यस्थेन सामान्यशैक्षिकविभागेन निश्चितम्। मेय् दशमदिनाभ्यन्तरे विद्यालयस्तरे प्रश्नपत्रं सज्जीकृत्य मूल्यनिर्णयं कर्तुं निर्देशः कृतः।
कोविड् महामार्याः दुष्प्रभावेण पाद-अर्ध वार्षिक परीक्षाः न सम्पन्नाः। वार्षिक परीक्षामाश्रित्य आसीत् स्थानोत्तीर्णता निश्चिता। कोविड्बाधया ये परीक्षायां न भागं कृतवन्तः तेषामपि सुविधेयं प्रयोजकी भविष्यति। अष्टमकक्ष्यापर्यन्तं सर्वे छात्राः शैक्षिकाधिकारनियमस्य आधारे स्थानोत्तीर्णतामर्हन्ति।
भारतेऽपि कोविड् घटना वर्धते। पुनरपि मुखावरणधारणं निर्बन्धितम्।
ओमिक्रोणस्य नूतनविभेदाः स्युः - स्वास्थ्यविशारदाः।
नवदिल्ली> भारते इदानीं वर्धमानस्य कोविड् रोगाणु व्यापनस्य कारणम् , ओमिक्रोणस्य नूतनविभेदाः स्युः इति स्वास्थ्यविशारदाः अभिप्रयन्ति। इतःपर्यन्तम् ओमिक्रोणस्य अष्ट (८) विभेदाः उद्भूताः सन्ति। तेषु अन्यतमः भवति प्रैम् (Prime) । ऐ एल् बि एस् मध्ये ओमिक्रोणस्य विविध-प्रतिरूपाणि अवलोक्यन्ते इति आवेदितम् अस्ति ।
BA.2.12.1 इति विभेदः भवति नवदिल्ल्यां हेतुः। किन्तु चतुर्थेन रोगाणुव्यापनतरङ्गत्वेन घटनेयं न परिणमिष्यति इति एम् सि एम् आर् संस्थायाः पूर्ववैज्ञानिकेन डॉ आर् गङ्गा खेद्खरेण उक्तम्। ओमिक्रोणस्य विभेदाः भारते सन्त्यपि नूतनविभेदाः इतः पर्यन्तं न प्रतिवेदिताः इत्यपि तेनोक्तम्।
नवदिल्ली> रूस् - युक्रैनयोः युद्धे अनुवर्तमाने भारत-ब्रिट्टनीय नयतन्त्रचर्चा ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः अद्य भारतं प्राप्नोति। प्रभाते अहम्मदाबादं प्राप्नुवन् सः सबर्मती आश्रमं सन्द्रक्ष्यति। ततः हालोल् प्रदेशे वर्तमानायाः ब्रिट्टनीयसंस्था जे सि बि इत्यस्याः नूतनसंस्थायाः उद्घाटनं करिष्यति। सायं सः दिल्लीं प्राप्स्यति।
श्वः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह सम्पत्स्यमानायां नयतन्त्रचर्चायां रूस् - युक्रैनयुद्धं, रूसतः भारतस्य तैलेन्धनस्य क्रयः, भारत-यू के स्वतन्त्रव्यापारसन्धिः इत्यादीनि प्रकरणानि अन्तर्भवन्ति। प्रधानमन्त्रिरूपेण बोरिस जोण्सणस्य प्रथमं भारतसन्दर्शनं भवत्येतत्।
पाकिस्थाने ३४ अङ्गयुक्तं मन्त्रिमण्डलं शपथमकरोत्।
इस्लामबादः> पाकिस्थाने आकाङ्क्षायाः विरामं कृत्वा प्रधानमन्त्रिणः षहबास् षरीफस्य नेतृत्वे ३४ अङ्गयुक्ता मन्त्रिसभा कुजवासरे शपथवाचनमकरोत्। ३१ पूर्णाधिकारमन्त्रिणः त्रयः सहमन्त्रिणश्च सन्ति। किन्तु सर्वेभ्यः मन्त्रिभ्यः विभागाः न निर्णीताः।
नूतने मन्त्रिमण्डले ५ महिलाः सन्ति। राष्ट्रपतेः अभावे सभानाथः सादिख् सञ्जरानी नूतनमन्त्रिणः शपथवाचनमकारयत्।
नेप्पाले अपि आर्थिकसमस्या ।
काठ्मण्डुः> श्रीलङ्कां पाकिस्थानं चानुगम्य भारतस्य इतरं प्रातिवेशिकराष्ट्रं नेप्पालमपि आर्थिकसमस्याम् अभिमुखीकरोति। राष्ट्रस्य विदेशद्रव्यस्य संरक्षितसञ्चयः सप्तभिर्मासैः १६ प्रतिशतं न्यूनीभूतः। १. १७ लक्षं कोटि नेप्पालरूप्यकाणि अवशिष्टानीति आर्थिकविचक्षणैः परिकल्प्यते।
इन्धनमभिव्याप्य प्रायेण सर्वाण्यवश्यवस्तूनि भारतादेव आनयनं कुरुते नेप्पालाय माससप्तकस्य व्ययमेव साध्यते। कोविड्महामारिकारणतः एव नेप्पालस्य आर्थिकक्लेशः आरब्धः। विनोदसञ्चारेण लभ्यमानं धनं प्रवासिभिः प्रेषितद्रव्याणि च राष्ट्रस्य मुख्यः आयमार्गः।
पाक्किस्थानेन कृते व्योमाक्रमणे३६ जनाः हताः। प्रत्याक्रमणं भविष्यति इति अफ्गानिस्थानः।
काबूल्> अफ्गानिस्थानं प्रति पाकिस्थानेन कृते व्योमाक्रमणे शिशुभिः सह ३६ अफ्गानिस्थानीयाः जनाः मृताः इति प्रतिवेदनम्। अफ्गानिस्थाने खोस्त्, कुमार् मण्डलेषु एव पाकिस्थानेन आक्रमणं कृतमिति अन्ताराष्ट्रिय-वार्ताहरैः आवेदितम्। आक्रमणस्य पश्चात् काबूलस्थं पाकिस्थानस्य नयतन्त्रप्रतिनिधिं मन्सूर् अहम्मद् खानम् आहूय तालिबानस्य नेतृभिः प्रतिषेधः प्रकटितः।
संस्कृतसंस्कृतिवैभवाख्यान्ताराष्ट्रियं सम्मेनलं समनुष्ठितम्
विश्वप्रसिद्धाया: अक्षरधामसंस्थया: प्रवर्तकस्य प्रमुखस्वामिमहाराजस्य शताब्दिमहोत्सवावसरे स्वस्तिवाचनसंस्थाया: च एकादशवर्षपूर्त्यवसरे दिल्ल्याम् अक्षरधाममन्दिरस्थे प्रमुखस्वामिसभागरे एकं भव्यं संस्कृतसंस्कृतिवैभवाख्यम् अन्ताराष्ट्रियं सारस्वतसम्मेलनं समनुष्ठितम्। यत्र देशविदेशेभ्य: समागतै: संस्कृतमनीषिभिः विद्वद्भिः शोधार्थिभि: साहित्यकारै: संस्कृतानुरागिभि: च संस्कृतसंस्कृत्यो: संवर्धनार्थं परिचर्चापूर्वकं संस्कृतसंरक्षणसंवर्धनं प्रति नैज-नैज-सद्भावना: प्रकटिता:। सारस्वतसम्मेलनं बी. ए. पी. एस्. स्वामिनारायणानुसन्धा
स्वदेशीयोत्पन्नानाम् उपयोगं करोतु इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी।
भारतसर्वकारपरियोजनाः अधिकृत्य महती प्रश्नोत्तरी।
नवदिल्ली> भारतसर्वकारपरियोजनाः अधिकृत्य जनान् प्रबोधयितुम् आयोजिता 'सब् का विकास्' नामिका महती प्रश्नोत्तरी समारब्धा। अम्बेद्कर् जयन्ती दिने एव प्रधानमन्त्रिणा कार्यक्रमोऽयम् उद्घोषितः। कार्यक्रमेण अनेन जनान् अपि संयोज्य प्रशासननिर्वहणम् आविष्कर्तुं सर्वकारः सङ्कल्पयति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम् ।
प्रधानमन्त्रिसंग्रहालयः राष्ट्राय समर्पितः।
नवदिल्ली> भारतस्य १४ भूतपूर्वप्रधानमन्त्रिणां जीवनचरितं प्रवर्तनानि च अवतार्यमाणः प्रधानमन्त्रिसंग्रहालयनामकः प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितः। दिल्ल्यां तीन्मूर्तिभवने नेह्रूस्मारककौतुकागारस्य ग्रन्थशालायाः च समीपे १०,००० चतुरश्रपादपरिमिते विस्तारे एव नूतनः भवनसमुच्चयः निर्मितः।
राष्ट्रप्रगतये स्वतन्त्रतानन्तरं प्रवर्तिताः सर्वे सर्वकाराः सविशेषाणि योगदानानि अकुर्वन्निति उद्घाटनभाषणे प्रधानमन्त्री उक्तवान्।
किवौ आक्रमणं प्रबलीकरिष्यति इति रष्यः।
मोस्को/कीव्> युक्रैनं विरुध्य आक्रमणं तीव्रं करिष्यति इति रष्येण पूर्वसूचना प्रदत्ता। कृष्णसमुद्रे स्थिता रष्यस्य युद्धनौका जले निमज्जिता इति युक्रैनेन अभिप्रैतमासीत्। तत्पश्चादेव घटनेयम्। युक्रैनस्थे महानौकावेधाग्निबाणानां तथा अग्निबाणप्रतिरोधविधानानां च निर्माणयन्त्रागारोपरि क्रूस् अग्निबाणाक्रमणं कृतमिति रष्येण प्रोक्तम्। युक्रैनस्य राजधानीं कीवं लक्ष्यीकृत्य क्रियमाणानां अग्निबाणाक्रमणानां संख्या तीव्रता च वर्धयिष्यति इति पूर्वसूचना एव रष्येण प्रदत्ता।
काश्मीरेषु भीकराक्रमणम्। बारमुल्ला प्रदेशे ग्राममुख्यः हतः।
श्रीनगरम्> काश्मीरेषु भीकराक्रमणम्। बारमुल्ला प्रदेशे ग्राममुख्यः भीकराणां गोलिकाप्रहरेण हतः। पतानस्य गोषबुग प्रदेशस्य ग्राममुख्यः मनसूर अहम्मदः एव हतः। प्रदेशः सेनया बन्धितः। भीकराः सेनया अन्विष्टाः सन्तः। विगते दिने काश्मीरस्य षोपियाने आपन्ने सङ्घर्षे चत्वारः लष्कर् तोइब भीकरा: सेनया हताः। समीपकाले पुल्वामा प्रदेशे षोपियाने च कृतेषु भीकरप्रवर्तनेषु व्यापृताः एव इदानीं सेनया हताः।