राष्ट्रपतिनिर्वाचनं - द्रौपदी मुर्मू , यश्वन्त सिंहश्च स्थानाशिनौ।
नवदिल्ली> जूलाय् १८ तमे दिनाङ्के सम्पत्स्यमानाय भारतराष्ट्रपतिनिर्वाचनाय शासनपक्ष-विपक्षस्थानाशिनौ प्रख्यापितौ। प्रशासनपक्षस्य एन् डि ए संघस्य स्थानाशिरूपेण द्रौपदी मुर्मू वर्या निर्णीता। ६४ वयस्का एषा ओडीषायां भा ज पा दलस्य वनवासिविभागस्य नेत्री झार्खण्डराज्यस्य भूतपूर्वा राज्यपालिका च अस्ति।
विपक्षसंघस्य स्थानाशिरूपेण भूतपूर्वः केन्द्रमन्त्री यश्वन्त सिंहः प्रख्यापितः। गतदिने एन् सि पि दलाध्यक्षस्य शरत् पवारस्य नेतृत्वे संवृत्ते १३ विपक्षदलानां समुपवेशने आसीत् ८४ वयस्कः यश्वन्त सिंहः स्वेषां स्थानाशिरूपेण निश्चितः।
अनेन भारते राष्ट्रपतिनिर्वाचनसंबन्धचित्रं सुव्यक्तं जातम्।


.jpeg)

.webp)



.webp)
.webp)