'ब्लू बेर्ड्' विक्षेपणं विजयप्रदम्।
चेन्नै> इस्रो संस्थायाः पुनरपि अभिमाननिमेषः। यू एस् राष्ट्रम् आस्थानत्वेन वर्तमानस्य 'ए एस् टि स्पेस् मोबाइल्' इत्यस्य आशयविनिमयोपग्रहः ब्लू बेर्ड् - ६ इत्यमुं भ्रमणपथं प्रापयित्वा ऐ एस् आर् ओ नूतनचरितं रचयामास। श्रीहरिक्कोट्टा सतीश् धवान् केन्द्रात् बुधवासरे प्रभाते ८. ५५ वादने ६५०० किलोमितं भारयुक्तम् उपग्रहं वहती एल् वी एम् ३ नामिका विक्षेपिणी आकाशं प्रति उदगच्छत्। १६ निमेषैः उपग्रहः भूमेः ५२० कि मी दूरस्थं भ्रमणपथं प्राप च।
भारतीयबहिराकाशमण्डलस्य सुप्रधानं पदक्षेपः भवत्ययं विक्षेप इति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रस्तुतम्।

.webp)





.jpg)




.jpg)
.webp)

.jpg)
















.webp)

.jpeg)

.webp)

