हिमालयस्य संरक्षणे जननादः — सोनम् वाङ्चुकस्य मुक्तये कोटद्वारे जनजागरणम्
कुलदीपमैन्दोला । कोटद्वारम्।
हिमालयस्य रक्षकः, देशस्य सुप्रसिद्धः पर्यावरणविद् च सोनम् वाङ्चुकः इति महनीयः व्यक्तिः अद्य नवतिं (९०) दिनानि निरुद्धावस्थायां स्थितः। अस्मिन् विषये सम्पूर्णे देशे जनाक्रोशः निरन्तरं वर्धते।
अस्यैव प्रसङ्गे, कोटद्वारनगरे तीलू-रौतेली-चत्वरे समाजसेविनः एवं कार्यकर्तुः मुकेश-सेमवालस्य नेतृत्वे व्यापकं जनजागरण-अभियानम् आयोजितम्। ततोऽनन्तरं तहसील-कार्यालयं गत्वा प्रधानमन्त्रिणे नरेन्द्र-मोदी-महाभागाय नाम निर्दिष्टं ज्ञापनं प्रेषितम्।
अस्मिन् अभियाने न केवलं सोनम् वाङ्चुकस्य शीघ्र-मुक्तये आग्रहः कृतः, अपि तु उत्तराखण्डराज्ये तीव्रतया वर्धमानस्य पर्यावरणीय-ह्रासस्य विषये गम्भीरा चिन्ता अपि व्यक्ता। “सम्मानित-व्यक्तेः अनादरः कुतः?” इति प्रश्नं पुरस्कृत्य जनचेतना, जनजागरणं, जनप्रतिभागश्च इत्यादयः घोषवाक्यानि उद्घोषितानि।
अभियानस्य नेतृत्वं कुर्वन् मुकेश-सेमवालः अवदत्—
“सोनम् वाङ्चुकः स्वजीवनं सम्पूर्णतया देशस्य सेनासहायतायै पर्यावरण-संरक्षणाय च समर्पितवान्। रेमन-मैग्सेसे इत्यादिभिः पञ्चदशाधिकैः राष्ट्रिय-अन्ताराष्ट्रिय-पुरस्कारैः सम्मानितं महापुरुषं निराधारतया निरुद्धं कर्तुं न केवलम् अनुचितं, अपि तु लोकतान्त्रिक-मूल्य-विरुद्धं च।”
विकासः वा विनाशः — उत्तराखण्डस्य अस्तित्व-संकटम्-
अस्मिन् विषयावसरे समाजसेवी मुजीब-नैथानी उत्तराखण्डस्य वर्तमान-स्थितिं विवृण्वन् अवदत्—उत्तराखण्डस्य परिचयं तस्य नैसर्गिक-सौन्दर्ये निहितम् अस्ति, यत् द्रष्टुं प्रतिवर्षं कोटिशः पर्यटकाः आगच्छन्ति। किन्तु ‘विकास’नाम्ना पौडीतः गङ्गोत्रीपर्यन्तं यथा वृक्षच्छेदनं क्रियते, तत् भविष्ये राज्यस्य अस्तित्वाय महत् संकटं भविष्यति।
परिवर्त्यमानः ऋतुवृत्तः — आपदां पूर्वसूचना-
वरिष्ठ-पत्रकारः सुधांशु-थपलियालः जलवायुपरिवर्तनस्य वैज्ञानिक-पक्षं प्रतिपादयन् अवदत्— मार्ग-विस्तारण-नाम्ना सहस्रशः वृक्षाणां छेदनं क्रियते, येन हिमालयीय-पारिस्थितिकी-तन्त्रं (Ecosystem) विनश्यति। पर्यावरणे हस्तक्षेपस्य प्रत्यक्षं परिणामः प्राकृतिक-आपदासु दृश्यते। इदानीं डिसेम्बर-मासस्य अन्तः समीपेऽपि पर्वतप्रदेशेषु हिमपातस्य अभावः मानवीय-हस्तक्षेपेन ऋतुवृत्तस्य सम्पूर्ण-विकारस्य प्रमाणम् अस्ति।
कोटद्वारे अभवत् एषा प्रभावीस्थिति: केवलं सार्वजनिकं अभियानं न, अपि तु हिमालय-रक्षणाय सामूहिकम् आह्वानं। सोनम् वाङ्चुकस्य मुक्तये उत्थिता एषा ध्वनि: इदानीं जन-आन्दोलन-रूपं गृह्णाति, या सर्वकारं स्मारयति यत्— पर्यावरणस्य मूल्ये कृतः विकासः कदापि स्थायी न भवति।
अस्मिन् सार्वजनिक-अभियाने उपस्थितः अनिकेतः अवदत्—
“सोनम् वाङ्चुकः सम्पूर्णस्य हिमालय-प्रदेशस्य प्रतिनिधिः, संरक्षकः, दूतश्च। नवतिं दिनान्यधिकं रासुका-कानूनद्वारा निरुद्धः, आरोपाभावेन कारावासे स्थितः सः लोकतान्त्रिक-संवैधानिक-मूल्यानां हननस्य द्योतकः। वयं जनचेतनां जागरयित्वा भारतीय-समाजं तस्य शीघ्र-मुक्तये सकारात्मक-योगदानाय आह्वयामः।”
ग्रीन-आर्मी-संस्थायाः सक्रियः सहभागः
अस्मिन् जनजागरण-अभियाने ग्रीन-आर्मी-संस्थायाः सदस्याः अपि उत्साहेन सहभागी अभवन्। “यदि अद्य वयं न चेतामः, तर्हि आगामि-कालः उत्तराखण्डस्य भावी-सन्ततये आत्मघातकः भविष्यति” — इति संकल्पेन संस्थायाः अध्यक्षः शिवम्-नेगी, महासचिवः उत्कर्ष-नेगी, स्वयंसेवक: ज्योति-सजवानः, सतेंद्रः, विनयः, अनुजः, अनिकेत-नौटियालः इत्यादयः युवजनाः स्वोपस्थितिं प्रकटितवन्तः। इति कोटद्वारे सम्पन्नः एषः अभियानः हिमालयस्य संरक्षणाय, पर्यावरण-संरक्षणाय, च लोकतान्त्रिक-मूल्य-रक्षणाय एकं सशक्तं सन्देशं वर्तते सम्पूर्णे राष्ट्रे ।


