OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, June 30, 2023

गूण् ३० - पद्मश्री के वि सम्पत्कुमारवर्यस्य स्मृतिदिनम्

 अद्य विश्वस्मिन् प्रसिद्धायाः सुधर्मा नाम संस्कृतपत्रिकायाः सम्पादकस्य पद्मश्री के वि सम्पत्कुमारवर्यस्य स्मृतिदिनम् भवति। 

चित्रम् - सान्स्ग्रीट् द्वारा


Thursday, June 29, 2023

 अवद् वनमण्डलेषु १३१ बकवंशीयाः सारसाः। उत्तरप्रदेशे सारसानाम् अन्तिमगणना प्रकाशिता।

   लख्नौ> उत्तरप्रदेशस्य वनविभागेन समायोजिते सारसानां अङ्गसंख्यानिर्णये अवद् वनमण्डले १३१ बकवंशीयाः सारसाः संदृष्टाः। तेषु पञ्च सारसशाबकाः भवन्ति। नगरे मलीहाबादे अपि सारसानां सान्निध्यं रेखाङ्कितम्। बहुसंवत्सरानन्तरमेव तेषां सान्निध्यं मलीहाबादे रेखाङ्कितम्।

आषाढारम्भे प्रावृटारम्भे मेखैः सार्धं सारसाः अपि

उत्तरदेशं प्रति सहयात्रां करोति इति

कालिदासेन मेखसन्देशे प्रस्तुतत्वात् ते 

भूखण्डान्तरयायिनः पर्यटनपक्षिणः इति प्रतीयते ।

 चन्द्रयानं -३ विक्षेपणाय सुसज्जम्। जूलाय् १२_१९ दिनाङ्कयोर्मध्ये विक्षेपणं भविष्यति इति ऐ एस् आर् ओ।

नवदिल्ली> भारतस्य चान्द्रपर्यवेक्षण दौत्यरूपेण चान्द्रयानं - ३ जूलाय् १२-१९ दिनाङ्कयोर्मध्ये विक्षेपयिष्यति इति ऐ एस् आर् ओ अध्यक्षेण एस् सोमनाथेन आवेदितम्। तदर्थं चन्द्रयानं- ३ नामिका बाह्याकाशपेटिका पूर्णतया संयोजिता। अन्तिमावलोकनं पूर्तीकृत्य विक्षेपणदिनाङ्कः ख्यापयिष्यति इति सोमनाथेन व्यजिज्ञपत्।

 भग्नस्य टैट्टन् जलान्तर्वाहिन्याः अवशिष्टानि तीरं आनीतानि।

    बोस्टण्> टैटानिक् महानौकायाः अवशिष्टानि सन्द्रष्टुं गतानां यात्रिकाणां यात्रामध्ये भग्नस्य टैट्टन् नामिकायाः जलान्तर्वाहिन्याः अवशिष्ठानि समुद्रात् तीरं प्रति आनीतानि। अपघातस्य पश्चात् कृते चयने दृष्टानि अवशिष्टानि एव  आनीतानि। टैट्टानिक् महानौकायाः अवशिष्टानि यत्रअस्ति  ततः १६०० पादमिते दूरे एव टैटनस्य अवशिष्टानि आसन् इति प्रतिवेदनानि सूचयन्ति । अन्तर्वाहिन्यां गताः पञ्चयात्रिकाः दुर्घटनायाम् अस्यां मृताः इति गणयति इति यु एस् तीरसेनया आवेदितमासीत्।

 वि वेणुः केरलस्य मुख्यसचिव; षेय्क् दर्वेश् साहिबः आरक्षकसेनायाः मुख्यनिदेशकः च। 

षेय्क् दर्वेश् साहिबः                     डो वि वेणुः 

अनन्तपुरी> राज्यस्य ४८ तमः मुख्यसचिवरूपेण डो वि वेणुः [ऐ ए एस्] नियुक्तः। आलप्पुष़जनपदे लब्धजन्मा अयं वैद्यकपदप्राप्त्यनन्तरमेव [MBBS] ऐ ए एस् पदं प्राप्तवान्। इदानींतनमुख्यसचिवस्य वि पि जोय् वर्यस्य विरामानन्तरं - जूण् ३०- वेणुवर्यः पदं स्वीकरिष्यति। 

   अग्निरक्षाविभागस्य अधिकारी डि जि पी पदस्थः च षेय्क् दर्वेश् साहिबः [ऐ पि एस्]  केरलस्य आरक्षकसेनाधिकारी भविष्यति। आन्ध्रप्रदेशीयः सः १९९० तमे वर्षे ऐ पि एस् पदं प्राप्तवान्।

 मुम्बैनगरे अतिवृष्टिः। गमनागमनं स्थगितम्। उन्मूलितवृक्षेण पेषयित्वा एकः मृतः।

     मुम्बै नगरे ह्यः दुरापन्नया अतिवृष्ट्या जनजीवनं प्राबाधत। नगरे विविधयानमार्गेषु जलसञ्चयरूपीकरणेन गमनागमनं निरुद्धम्। उन्मूलितवृक्षपतनेन जाते अपघाते एकः मृतिमुपगतः इति मुम्बैदेशस्य नगरसभाकार्यालयेन आवेदितम्। मुम्बैनगरे कुजवासरे१०४ मि .लि. वृष्टिः अलभत।


Wednesday, June 28, 2023

 विरतवेतनपरिष्करणाय केन्द्रसर्वकारः।

नवदिल्ली> २००४ तमे वर्षे विधत्तां राष्ट्रिय विरतवेतनाभियोजनां [National Pension Scheme]  परिष्कर्तुं केन्द्रप्रशासनेन उद्यमते। औद्योगिककालस्य अन्तिमचरणे यत् वेतनं स्वीकृतं तस्य ४०% विरतवेतनरूपेण लभ्यमानरीत्या अभियोजनां परिष्कर्तुमेव प्रशासनस्य प्रक्रमः। सार्वजनिक निर्वाचनात् पूर्वमेव एतस्मिन् विषये निर्णयः भविष्यति। 

   विपक्षदलीयप्रशासकराज्येषु पूर्वतनविरतवेतनाभियोजना विधत्ता अस्ति। आगामिनिर्वाचने एन् पि एस् नामिकाभियोजनया  प्रत्याघातः न भूयादिति केन्दसर्वकारः इच्छति।

 बीहारे निर्मीयमाणः एकः सेतुः भग्नः। एकमासाभ्यन्तरे त्रयः सेतवः भग्नाः।

पट्ना> बीहारे एकस्य सेतोः निर्माणे प्रचाल्यमाने सति तस्यैव निर्मितांशः भग्नः अभवत्। मेखापुरात् वैशालीदेशं संबन्धयितुं उद्दिश्य निर्माणं आरब्धस्य सेतोः निर्मितः एकः भागः भग्नीभूय जले मग्नः। एकमासाभ्यन्तरे जाता तृतीया दुर्घटनेयम् । गङ्गानद्याः उपरि निर्मीयमाणः तत्कालिकसेतुरेव अतिशक्तियुक्तेन वातेन हेतुना भञ्जितः। तत्कालोपयोगाय त्वरिततया निर्मीयमाणस्य अस्य पतनं तथा भारमुद्वहतां स्थाणूनां स्खलनं प्रचण्डवातवशात् अभूत् इति उच्यते।

 बेतवोलु रामब्रह्मणे केन्द्रसाहित्य अक्कादम्याः भाषासम्मानपुरस्कारः। 

नवदिल्ली> केन्द्रसाहित्य अक्कादम्याः २०२१ वर्षस्य भाषासम्मानपुरस्काराय तेलुगु साहित्यकारः तथा च संस्कृतपण्डितः बेतवोलु रामब्रह्म वर्यः अर्हः अभवत्। 

  श्रेष्ठ - मध्यकाल साहित्याय दत्तं योगदानं पुरस्कृत्यैव पुरस्कारः विहितः। १९४८ तमे वर्षे आन्ध्रप्रदेशस्य पश्चिमगोदावरिजनपदे लब्धजन्मा प्रोफ. बेतवोलु रामब्रह्म वर्यः संस्कृते तेलुगुभाषायां च त्रिंशदधिकान् ग्रन्थान् व्यरचयत्। पूर्वं साहित्य अक्कादम्याः विवर्तनपुरस्कारेणापि समादृतः अस्ति।

Tuesday, June 27, 2023

 अरफासंगमः अद्य। 


मक्का> हज्ज् कर्मणः मुख्यकार्यक्रमः अरफासंगमनामकः कुजवासरे सम्पद्यते। विविधराष्ट्रभ्यः हज्ज् कर्मणे मक्कानगरं सम्प्राप्ताः लक्षशः जनाः अद्य मध्याह्ने अरफाक्रीडाङ्कणे सङ्गमिष्यन्ति। लुहुर् , असर्, मग्रिब्, ईशा प्रार्थनाः मिनाशिबिरेषु निरुह्य एव हाजिनः अरफां प्राप्नुवन्ति। 

  अरफाप्रार्थनाः विधिवत् निरुह्य भक्ताः बुधवासरतः दिनत्रयं जंरास्थं पिशाचप्रतीकं प्रति शिलाखण्डक्षेपणं निर्वक्ष्यन्ति।

Monday, June 26, 2023

 हिमाचले भूस्खलनेन गमनागमनं स्थगितम्। राजमार्गे २०० तः अधिके सञ्चारिणः प्रत्यूहे पतिताः।

    सिंल> हिमाचलप्रदेशे माण्ड्यां भूस्खलनम् तथा अकस्मात् दुरापन्नं प्रलयं च अनुवर्त्य विनोदसञ्चारिणः आहत्य २०० तः अधिके जनाः प्रत्यूहे पतिताः इति प्रतिवेदनम्। चण्डीगढ् - मणाली राजमार्गे दुरापन्नः गमनागमनान्तरायः सञ्चारिणां विघातमसृजत् । माण्ड्यां दुरापन्ना अतिवृष्टिरेव भूस्खलनस्य हेतुः। राजमार्गम् आवृत्य बृहच्छिलाः पतित्वा गमनागमनविघातः अभवत्। सप्तयोजनापर्यन्तं यानानां पङ्क्तिः दीर्घायिता इति प्रतिवेदनमस्ति ।

 पुटिनाय समाश्वासं दत्वा वाग्नर् सेना प्रतिन्यवर्तत। 

मोस्को> रष्यासेनां विरुध्य अभिगमनं कृतवान् वाग्नर् संघनामकः रष्यायाः भृत्यकबलः तस्य नेता येव्गनि च प्रतिन्यवर्तत। रोस्तोवनगरं स्वायत्तीकृत्य मोस्को नगरं लक्ष्यीकृत्य अग्रे गच्छन्तं वाग्नर् संघं प्रति बलारूसदेशस्य राष्ट्रपतिना अलक्सान्टर् लूकाषे इत्यनेन कृतायाः चर्चायाः अनन्तरमेव इदं प्रतिनिवर्तनमभवत्।

Sunday, June 25, 2023

 भारतदेशात् चोरयित्वा सम्पादितानि शताधिकानि पुरातनवस्तूनि अमेरिक्कः प्रतिदास्यति। 

    वाषिङ्टण्> भारतदेशात् दीर्घकालपर्यन्तं चोरयित्वा अन्ताराष्ट्रविपण्याम् आनीतानि तथा लब्धानि पुरातनवस्तूनि अमेरिक्कः प्रतिदास्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना अमेरिक्कस्य कृते कृतज्ञतां व्याजहार। यु एस् सर्वकारेण पुरातनवस्तूनां प्रत्यर्पणाय निश्चितम् इति नरेन्द्रमोदिना एव निवेदितम्। अमेरिक्कदेश-सन्दर्शनस्य अन्तिमे दिने रोनाल्ड् रीगन् केन्द्रे भारतीयान् अभिसंबुद्ध्यमानः आसीत् अयम्।

 ईजिप्तस्य परमोन्नतादरः 'ओडर् ओफ् द नैल् ' नरेन्द्रमोदिना स्वीकृतः।

      नवदिल्ली> ईजिप्तस्य परमोन्नतादरः "ओडर् ओफ् द नैल्" पुरस्कारः ईजिप्तस्य अध्यक्षेण अब्दुल् फत्ताह् एल् सि सि वर्येण नरेन्द्रमोदिने समर्पितः। मोदिनः ईजिप्त् सन्दर्शनवेलायामेव राष्ट्राध्यक्षेण विशिष्टातिथये आदरः समर्पितः। अब्दुल् फत्ताह् एल् सि सि वर्यस्य विशेष-निमन्त्रणानुसारमासीत् भारतस्य प्रधानमन्त्रिणः ईजिप्त् सन्दर्शनम्। Link to video 

https://twitter.com/AmitShah/status/1672905724425568258?t=b7fMm6MAGqVcog6glRyhnw&s=19

Saturday, June 24, 2023

 योगप्रतिभाया: आयोजनम् ई-टेक्नोमाइण्डसंस्थया कृतम्।

-कुलदीपमैन्दोला। कोटद्वार।

     योगदिवसोपलक्ष्ये E-techno mind इत्यनेन च सार्थकयोगशाला-कण्वनगरीकोटद्वार -द्वारा योगदिवस: समाचरित:। सद्भावनाकालोनीशिब्बूनगरकोटद्वारे  योगाभ्यासाय यद्यपि प्रतिदिनं संस्कारशालायां लघुबाला: योगाभ्यासं कुर्वन्ति। बुधवासरे अत्र विशेषायोजनं सञ्जातं। राष्ट्री ट्रीययोगासनेषु क्रीडां प्रति जागरयितुं योगासनप्रतियोगिताया:  आयोजनं संस्थाद्वारा अभवत् । यत्र अनेकबालकै: प्रतिभाग: कृत:। आयोजनं श्री राकेशकंडवालस्य शारीरिकशिक्षकस्य च राजकीय-इंटर-कॉलेजकांडाखालत: एवं श्री अजयजोशीवर्यस्य  E techno mind इत्यनयो: संचालनेन समारभत्। 

     अवसरेस्मिन् अभिभावकै: उक्तं यत् एतेन अभ्यासेन बालकेषु नूतनसंस्कार: समागत: शारीरिकस्वास्थ्येन सह विचारेषु कार्येषु परिवर्तनं दृश्यते । विशेषरूपेण बाला: टीवी मोबाइल इत्यनयो: दूरे एव सन्ति। वयं सन्तुष्टा: स्म: यत् अस्माकं सन्ततिषु एतादृश: संस्कार: समायाति । श्री अवनीशपन्तवर्येण अत्र सर्वै: सह बालकसन्दर्भे योगविषये चर्चा परिचर्चा कृता तै: कथितं यत् आधुनिकसमाजे संस्काराणाम् आकांक्षा अस्माभि: यथा चिन्त्यते तथैव अत्र प्राप्तुं शक्नुम:।  श्रीराकेशकण्डवालद्वारा च सोनमपन्तद्वारा अत्र योगद्वारा बालकेषु संस्काराणां भाव: समुत्पन्न: क्रियते अस्य कृते द्वयोरेव महद्योगदानं विद्यते।

    अवसरेस्मिन् अभिभावकै: सह विभिन्नगणमान्येषु ।श्री कुलदीपमैंदोला  राजकीय-इंटर-कॉलेज-कोटद्वारत: श्री संजीवकुमार: श्री पूरणनेगी  सुधाजोशी  हिमानीघिल्डियाल:  ममताकण्डवाल: सोनमरावत: पूजामधवाल: श्री अवनीशपंत: पत्रकारवर्य: आदय:  उपस्थिता: आसन्। सर्वै: योगदिवसोपक्ष्ये योगाभ्यास: कृत: तथा च जोशीपरिवारेण योगबालानां कृते पारितोषिकवितरणम् अपि  कृतम् ।

 विश्वनक्रदिने भारते गण्डकीनद्यां १२५ कुम्भीराः अण्डात् जाताः।

    चम्पारन्> बीहारस्थे चम्पारन् जनपदे गण्डकीनद्यां १२५ कुम्भीराः (मत्स्याशननक्रविशेषः) अण्डात् जाताः। प्रदेशवासिनः वनविभागस्य च साहाय्येन भारतीय वन्यजीविसंस्थायाः निरीक्षणे आसीत् कुम्भीराणां नीडम्।२०१३ संवत्सरादारभ्य परिस्थिति - वन - वातावरणविभागानां सहयोगेन भारतीयवन्यजीविसंस्था गण्डकी नद्यां वंशनाशभीषां अभिमुखीक्रियमाणान् कुम्भारान् संरक्षयन्ती अस्ति।

 भारते पोषकाहारन्यूनता आशङ्कां जनयति। तण्डुल-गोधूमयोः अधिकतया खादनं न पर्याप्तम्।

   नवदिल्ली> भारते पोषकाहारन्यूनता आशङ्काजनकमिति भक्ष्यवैज्ञानिकाः वदन्ति। सूक्ष्मपोषकाणां न्यूनत्वमेव विशेषेण सूचयन्ति। तत्परिहाराय तत्कालीकप्रक्रमाः आवश्यकाः इति अन्तराष्ट्रिय - खाद्य - नीति - अनुसन्धानसंस्थया प्रकाशिते २०२३ तमे संवत्सरीये विश्व - खाद्य - नीति - विवरणपत्रे सूचयति। आविश्वमपि पोषकाहारन्यूनताबाधितानां संख्या वर्धमाना अस्ति। २०१५ तमे संवत्सरे ५७.२ कोटि जनाः पोषकाहारन्यूनता अभिमुखीकृतवन्तः। २०२१ तमे संवत्सरे तत् ७६.८ कोटि जनाः अभवन्।

Thursday, June 22, 2023

 भारतप्रधानमन्त्रिणः नेतृत्वे संयुक्तराष्ट्रसंघटनस्य आस्थाने राष्ट्रान्तरयोगदिनाचरणम्। 

न्यूयोर्क्> योगशास्त्रस्य दर्शनस्य च महत्वं श्रेष्ठत्वं च विशदीकृत्य भारतस्य  प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे संयुक्तराष्ट्रसंघटनस्य राष्ट्रान्तरयोगदिनाचरणं सम्पन्नम्। आस्थानपरिसरे अङ्कणे सम्पन्ने योगाभ्यासप्रदर्शने नरेन्द्रमोदी नेतृत्वमावहत्। तत्रत्यायां महात्मागान्धिप्रतिमायां पुष्पार्चनां कृत्वा कृते भाषणे आविश्वं एकं कुटुम्बरूपेण परिदृश्यमानं भारतीयतत्वं - वसुधैव कुटुम्बकम् -  मोदिवर्यः विशदीकृतवान्।

 टैटन् जलान्तर्वाहिनी यत्र तिरोभूता तत्रतः शब्दवीचयः। अन्वेषणम् अनुवर्तते।

    वाषिङ्टण्> टैट्टानिक् महानौकायाः अवशिष्टानि द्रष्टुम् अट्लान्टिक्समुद्रस्य अन्तर्भागे सञ्चारिभिः सह प्रस्थास्य अनन्तरम् तिरोभूतस्य टैटन् नाम जलान्तर्वाहिन्याः अन्वेषणम् अनुवर्तते। सन्दर्भेऽस्मिन् जलान्तर्भागे अवलोकनस्य भागतया उपयुक्तेन सोनार् उपकरणेन काचन शब्दवीचयः संगृहीताः इति प्रतिवेदनं बहिरागतम्। टैटन् यत्र अप्रत्यक्षीभूतः तस्मात् मण्डलात् एव शब्दवीचयः संगृहीताः इति बि बि सि वार्तामाध्यमेन आवेदितम्। रक्षाप्रवर्तनस्य भागतया कानडस्य पि३ विमानेन विन्यस्तेन सोनार् द्वारा एव शब्दवीचयः संगृहीताः इति अमेरिक्कस्य तीरसेनया आवेदितम्। एते अमेरिक्कस्य नाविकवैज्ञानिकाः सूक्ष्मविशकलनं कुर्वन्तः सन्ति। अष्टहोरापर्यन्तम् उपयोक्तुमेव प्राणवायुः तस्याम् अवशिष्यते इति सर्वेभ्यः भीतिजनकं भवति।

Wednesday, June 21, 2023

 अद्य अन्ताराष्ट्रयोगदिनम् - वसुधैवकुटुम्बकमिति सन्देशः। 


कोच्ची> भारतस्य आस्तिकदर्शनेषु अन्यतमं योगदर्शनं कदापि धर्माधिष्ठितं [Religious] न भवति, तत्तु आन्तरिकपरिणामाय उपयुज्यमाना तन्त्रविज्ञानीयविद्या भवतीति योगाचार्यवर्येण सद्गुरुमहाशयेन उक्तम्। धर्मचिन्तायाः पूर्वमेव भारते योगः शास्त्ररूपेण विकासमार्जित इति सः प्रोक्तवान्। 

  'वसुधैवकुटुम्बकम्' इति महत्त्वपूर्णं तत्वमेव अस्मिन् वर्षे योगदिनाचरणस्य सन्देशरूपेण दीयते। आविश्वं १५० अधिकेषु राष्ट्रेषु योगाचरणकार्यक्रमाः विधास्यन्ति। 

Tuesday, June 20, 2023

 धनं विना स्थातुं न शक्यते। पाकिस्थानः कराच्ची नौकाश्रयं यु ए इ राष्ट्राय प्रदातुं सज्जते।

 इस्लामाबाद्> आर्थिकसमस्या अतितीव्रतया अनुवर्तिते सन्दर्भे अस्मिन् नौकाश्रयस्य प्रवर्तनदायित्वं यु ए इ राष्ट्राय प्रदातुं पाकिस्थानः सज्जते। अन्ताराष्ट्रियनाणयनिधेः (I M F) ऋणलब्धये अनिश्चितत्वे दुरापन्ने सन्दर्भे अस्मिन् तात्कालिकरूपेण धनसमाहरणार्थमेव एषः प्रक्रमः।

 महाकवि कालिदासदिवसस्योपलक्ष्ये उज्जयिन्यां  विशिष्टव्याख्यानमायोजितम् ॥

-वार्तासंयोजक: डॉ.दिनेश चौबे 

   उज्जयिनीस्थे महर्षिपाणिनि-संस्कृतवैदिकविश्वविद्यालयस्य संस्कृतसाहित्य-विशिष्टसंस्कृत-विभागस्य तत्त्वावधाने वैक्रमाब्द: २०८० आषाढशुक्ल द्वितीया तदनु विंशतितमेदिनाङ्के मङ्गलवासरे महाकवि-कालिदासदिवस महोत्सवस्योपलक्ष्ये आषाढस्य प्रथमदिवसे महाकवि कालिदासस्य वागर्चनम् इति विषये विशिष्टव्याख्यानम् एवञ्च स्वरचितसंस्कृतकाव्यपाठस्य आयोजनं विश्वविद्यालयस्य  योगेश्वरश्रीकृष्णयोगभवनस्य सभागारे अभूत् ।महाकवि कालिदासस्य जयन्त्यावसरे आयोजिते कार्यक्रमे।  महाकविकालिदासस्य  प्रमुखकृतीनां पाठः विश्वविद्यालयस्य छात्रै: प्रस्तुतम्।

अन्ताराष्ट्रिय योगदिनम् : आर्ट्टिक्-अन्टार्टिक् भारतीयगवेषणकेन्द्रेषु योगासनप्रदर्शनाय सज्जिताः इति आयुष् मन्त्रालयम् ।

- रेष्मा.एस्.राज्

   अन्ताराष्ट्रिययोगदिने आर्ट्टिक्-अन्टार्टिक् स्थानॆषु विद्यमानेषु भारतीयगवेषणकेन्द्रेषु योगप्रशिक्षणं भविष्यति। आर्ट्टिक् प्रदेशस्थ हिमाद्रि तथा अन्टार्टिक् प्रदेशस्थ भारतिगवेष्ण केन्द्राभ्यां साकं माध्यन्दिनीय रेखायाः (PRIME MERIDIAN) पार्श्वे विद्यमानानि राष्ट्राण्यपि योगप्रदर्शने भागं करिष्यन्तीति आयुष् मन्त्रालयेन ख्यापितम्। एवं च OCEAN RING OF YOGA इति संस्थायाः नेतृत्वे अमेरिक्का, रूस्, पोर्चुगल्, मोरोक्को आदि चतुर्त्रिंशत् राष्ट्रेषु विद्यमानेषु भारतीय महानौकानिलयेषु च योगदिनाचरणं भविष्यतीति अधिकारिणः संसूचितवन्तः। जूण् एकविंशत्यां न्यूयोर्क्कस्थ संयुक्तराष्ट्रसमितेः (UNITED NATIONS) केन्द्रकार्यालये प्रधानमन्त्रिणः नरेन्द्रमेदिनः साध्यक्षत्वे राष्ट्रान्तरीय योददिनस्य समारम्भः भविष्यति। उपराष्ट्रपतिः जगदीप् धनकरमहोदयस्य उत्तरदियित्वे राष्ट्रतलाचरणानि मध्यप्रदेशस्थ जबल्पूरे च प्रारब्स्यति। पृतन्या-नाविक-व्योम सेनया सह ऎ.टि.बि.पि, बि.एस्.एफ्, बि.आर्.ओ सेनासंघाः च संयुक्तरीत्या योगप्रदर्शनं करिष्यति।

Monday, June 19, 2023

 द्विदिवसीयराष्ट्रियसंस्कृतसम्मेलनं मध्यप्रदेशे सञ्जायते।

-वार्ताहर:-कुलदीपमैन्दोला।

संस्कृतशिक्षायां राष्ट्रियशिक्षानीतिः २०२० इत्यस्य कार्यान्वयनाय द्विदिवसीयसम्मेलनं सञ्जायते। केन्द्रीयसंस्कृतविश्वविद्यालयदिल्ली तथा शिक्षासंस्कृति- उत्थानन्यासः संस्कृतशिक्षकसङ्घदिल्ली च संयुक्ताश्रयेन २४-२५ जून २०२३ दिनाङ्के राष्ट्रियसंस्कृतसम्मेलनं समायोजयन्ति। मध्यप्रदेशस्य बागसेवनियाभोपाले केन्द्रीयसंस्कृतविश्वविद्यालयपरिसरे द्विदिनात्मकस्य राष्ट्रियसंस्कृतसम्मेलनस्य आयोजनं भविष्यति। द्विदिवसीयसम्मेलने राष्ट्रियशिक्षानीतिः २०२० कार्यान्वनाय संस्कृतशिक्षायां विचारविमर्शार्थं विचारप्रस्तावा: आमन्त्रिताः सन्ति। प्राप्ताः विचारप्रस्तावा: केन्द्रसर्वकाराय प्रेषिताः भविष्यन्ति। सम्मेलने दूरगामिनां, परिणामकारिणां, विशेषविचाराणाम् महाकुम्भे भागं ग्रहीतुं राष्ट्रयज्ञे भवतः वैचारिकसहकार्यं प्रदातुं आह्वानं कृतम् अस्ति।

 नूतनजाति भीमसरटः संदृष्टः। इङ्लण्ट् राष्ट्रस्य तीरप्रदेशे वासः।

    वैज्ञानिकैः नूतनजाति भीमसरटः संदृष्टः। पूर्वकाले इड्लण्ट् राष्ट्रस्य तीरप्रदेशे कृतवासः जीविविभागः भवति अयम्। ऐल् ओफ् वैट्टू नाम द्वीपे आसीत् अस्य वासस्थानम्। ऐल् ओफ् वैट्ट् द्वीपे १४२ संवत्सराभ्यन्तरे आर्मेर्ट् विभागे अन्तर्भूतानां भीमसरटाणां मध्ये प्रथमतया प्रत्यभिज्ञातः भवति अयम्।

Saturday, June 17, 2023

 चक्रवातः - एकस्यापि जीवापायः न अभवत्। सम्यक् पूर्वसज्जीकरणं कृतम् इति अमित शाह।

  गान्धिनगर्> राज्यसर्वकाराणां केन्द्रसंस्थायाः च युगपत् प्रवर्तनेन बिपोर्जोय् नाम चक्रवातमनुवर्त्य गुजरात्तेषु कस्यापि जीवापायः न अभवत् इति गृहमन्त्रिणा अमित शाहेण प्रोक्तम्। ३४०० ग्रामेषु वैद्युतिबन्धः छेदितः। तेषु१६०० ग्रामेषु वैद्युतिः पुनस्स्थापिता। सर्वेषु ग्रामेषु विंशतिदिनाङ्काभ्यन्तरे वैद्युतिं पुनस्स्थापयिष्यति।१.८ लक्षं जनाः  ८३,००० जन्तवः च सुरक्षितस्थानेषु नीताः आसन्।

 बाह्याकाशे संवर्धितस्य पुष्पस्य चित्रं नासया प्रसारितम्।

   -जगदीश्वरी एम् आर्

    बाह्याकाशे रोपितस्य सस्यस्य प्रफुल्लकुसुमस्य च चित्रं नासया प्रकाशितम्। इन्स्टाग्राम् इति सामाजिक-माध्यमद्वारा आसीत् नासा-संस्थायाः चित्रप्रकाशनम्। अन्तराष्टिये बह्याकाशनिलये 'वेज्जि' नाम सुविधायाः भागतया संवर्धितस्य पुष्पितस्य  स़िन्निय (Zinnia) सस्यस्य मनोहरं चित्रमेव प्रकाशितम्। पुष्पस्य वर्णयुक्तदलानि सस्यस्य हरितवर्णपत्राणि च दृश्यन्ते। अपि च पृष्ठतः आकाशस्य श्यामवर्णः भूमेः विदूरदृश्यं च द्रष्टुं शक्यते। अतिन्यून-गुरुत्वाकर्षणावस्थायां सस्यानां वृद्धिः कथं भविष्यति ? तादृश्यानां भूसस्यानाम् उत्पादनं कथं करणीयम्  इत्यादयः ज्ञातुम्  साहाय्यं करिष्यति इदम् अनुसन्धानम्।  चन्द्र-मङ्गलग्रहयोः दीर्घकालीन-योजनायाः कृते भक्ष्यादीनां बहुमूल्यं स्रोतः प्रदातुं शक्यते अनेन अनुसन्धानेन इति नासया उक्तम्।

Friday, June 16, 2023

 प्राकृतभाषाविभागद्वारा आयोजिता व्याख्यानशृङ्खला

     नवदेहलीस्थ-श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य प्राकृतभाषाविभागेन जूनमासस्य द्वयोः दिवसयोः विशिष्टव्याख्यानानामायोजनं कृतम्। यत्र जूनमासस्य 09-तमे दिनाङ्के शुक्रवासरे विश्वविद्यालयस्य सारस्वतसाधनासदनस्य वाचस्पतिसभागारे प्राकृतभाषायाः द्वयोः विदुषोः ऑनलाइन-ऑफलाइन-माध्यमेन व्याख्यानमभूत्। तत्र 'प्राकृतभाषाओं का विकासक्रम' इतिविषयमधिकृत्य प्रथमं व्याख्यानं प्रो.जगतरामभट्टाचार्यद्वारा प्रदत्तम्। यस्मिन् प्राकृतभाषाणामितिहासः विकासश्च बहुप्रमाणैः सह तथ्यतः व्याख्यातम्। तथा च द्वितीयं व्याख्यानं डॉ.सुमतकुमारजैनमहोदयेन 'प्राकृतभाषा और साहित्य का महत्त्व एवं उनकी उपयोगिता' इतिविषयमाधृत्य व्याख्यानं दत्तम्।

 'बिपोर् जोय्' भूतलमस्पृशत् - महान् विनाशः। 

+ एकलक्षं जनाः अपनीताः। 

+ भूतलस्पर्शः सार्धदशदिनैः। 

अहम्मदाबादः> गुज्रालराज्यस्य तटप्रदेशान् प्रकम्पयन् बिपोर् जोय् अतितीव्रचक्रवातः ह्यः सायं सार्धषड्वादने कच् जनपदे भूतलं प्राविशत्। प्रतिहोरां शताधिक कि मी वेगेन वीतस्य चक्रवातस्य दुष्प्रभावेन असंख्याः वृक्षाः सप्तशताधिकाः विद्युतस्तम्भाश्च उन्मूलिताः। बहूनि गृहाणि विनाशितानि।

 विद्यालये शुल्कत्वेन अपशिष्टम् -  नैजीरियाभियोजना नूतनादर्शः। 

लेगोस् [नैजीरिया]> नैजीरियाराष्ट्रस्य लेगोस् नगरे प्रवृत्तिपथमानीतायाः नूतनाभियोजनायाः प्रयोजनद्वयमस्ति। नगरं  मालिन्यमुक्तं भविष्यति, तथा च शुल्कार्पणाशक्यानां स्थगिताध्ययनछात्राणां विद्यालयं प्रति पुनरागमनम्। 

  आफ्रिक्कन् क्लीन् अप् इनिष्यियेटीव्   [African Clean up Initiative] नामिकया आफ्रिक्कायाः शुद्धीकरणसंरम्भसंस्थया   अभियोजनेयम् आविष्कृता। लेगोसनगरस्थेषु  विद्यालयेषु भग्नानि  पलास्तिकभाजनानि, जीर्णाः कूप्यः इत्यादीनि पुनरुपयोगयोग्यानि अपशिष्टानि एव छात्रेभ्यः विद्यालयशुल्करूपेण विद्यालयाधिकारिणः स्वीकुर्वन्ति। अपशिष्टवस्तूनां मूल्यं शुल्कतया मान्यते। विद्यालयैः सञ्चितानि मालिन्यानि उपर्युक्तसंघटनेन संस्कुर्वन्ति। इदानीं ४० विद्यालयाः अस्यामभियोजनायां भागं स्वीकुर्वन्तः सन्ति। 

  छात्रैः आनीतानां उच्छिष्टखण्डसञ्चयानां विक्रयेण लब्धं धनं छात्राणां सरूपवेष पुस्तकादीनां क्रयणाय उपयुज्यते। येषां गृहे उच्छिष्टखण्डसञ्चयः नास्ति ते वीथ्यादिभ्यः संगृह्य विद्यालयमानयन्ति। अतः वीथीपार्श्वाश्च स्वच्छाः भवेयुः  इति अस्याः अभियोजनायाः परिणतिः।

 श्वासननालिकायामपि सूक्ष्मपलास्तिकः इति पूर्वसूचनां दत्वा नूतनाध्ययन फलम्।

   सिड्नि> सूक्ष्मपलास्तिकसदृशाः पलास्थिककणिकाः श्वसननालिकायां स्वास्थ्यसमस्याः जनयितुम् प्रभवति  इति अध्ययनफलानि सूचयन्ति। मानवः प्रतिहोरायां १६.२ पलास्तिकशकलानि श्वसिति इति २०२२ तमे संवत्सरे प्रचलिते अध्ययने सूचितमस्ति। पलास्तिकात् विघटिताः लघुपलास्तिकपदार्थाः भवन्ति सूक्ष्मपलास्तिकाः (micro plastic)। 'फिसिक्स् ओफ् फ्लूयिड् ' नाम शोधपत्रिकायां प्रकाशिते अध्ययनप्रतिवेदने सूक्ष्मपलास्तिकाः नासाद्वारे गलस्य (throat) पृष्ठतः च विक्षिप्यन्ते इति सन्दृष्टाः। एवं बृहत् परिमाणेषु सूक्ष्मपलास्तिककणानि अधिकतया श्वसननालिकायामेव सञ्चिताः इति स्वास्थस्य हानिः उद्पाद्यते।

Thursday, June 15, 2023

 आराष्ट्रं विद्यालयेषु परं योगपरिशीलनम्।

परिशीलकनियुक्तिकार्यक्षेपाः आरब्धाः। 

नवदिल्ली> भारते सर्वत्र विद्यालयेषु योगानुष्ठानपरिशीलनार्थं परिशीलकान् नियोक्तुं केन्द्रप्रशासनस्य आयुष्-शैक्षिकमन्त्रालयाभ्यां प्रक्रमाः आरब्धाः। योगानुबन्धकर्मावसराणां सृष्टिरपि अनेन पदक्षेपेणोद्दिश्यते। 

  एन् सि ई आर् टि पाठ्याभियोजनायां पूर्वमेव योगः पाठ्यरूपेण वर्तमानः अस्ति। केषुचित् राज्यस्तरीयपाठपुस्तकेष्वपि योगदर्शनमधिकृत्य पाठाः सन्ति। किन्तु केवलं सिद्धान्ताध्ययनं न तु प्रयोगिकपरिशीलनमित्यत एव परिशीलकानां नियुक्त्यर्थं प्रक्रमाः आरब्धाः इति आयुष् मन्त्रिणा सर्बानन्द सोनोवाल् वर्येण निगदितम्।

   यथा विद्यालयेषु इदानीं कायिकपरिशीलनं प्रचलति तथा योगाभ्यासे परिशीलनं दातुं 'योगपरिशीलकः' इति पदसृष्टिः भविष्यति। दिल्ली गोवा उत्तरप्रदेशः इत्येषु राज्येषु तत्तत्प्रशासनानां अधीनतया योगपरिशीलनं प्रचलन्त्येव। एतादृशरीत्या योगपरिशीलनं आराष्ट्रं व्यापयिष्यते इति मन्त्रिणा स्पष्टीकृतम्।