OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, June 28, 2026

 पश्चिमेष्या पुनरपि संघर्षभरिता। 

पुनः यू एस्-इरानयोः प्रतिद्वन्द्वः। 

वाषिङ्टणः> शान्त्युपस्थापनचर्चाम् अन्तिमं कर्तुं प्रक्रमेषु पुरोगम्यमानेषु यू एस्-इरानयोः मध्ये पुनरपि आक्रमणप्रत्याक्रमणानि जातानि। ओमानस्य तीरस्था पण्यमहानौका इरानेन आक्रमिता इत्यारोप्य यू एसेन इरानस्य सेनाकेन्द्राणि विरुध्य शुक्रवासरे आक्रमणं विधत्तम्। 

 प्रत्युत्तररूपेण शनिवासरे यू एसस्य गल्फराष्ट्रस्थानि सेनाशिबिराणि इरानेन आक्रान्तानि।