OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 27, 2026

 'ओपरेशन् सिन्दूरम्' - वीरमृत्युमुपगताः ६ सैनिकाः। 

एकसंवत्सरस्यानन्तरं नामानि बहिरागतानि। 

नवदिल्ली> पहल्गामे भीकराक्रमणस्य प्रतिप्रक्रमरूपेण पाकिस्थानस्य भीकरकेन्द्रेषु भारतेन विधत्ते ओपरेशन् सिन्दूरं नामके सैनिकप्रक्रमे वीरमृत्युमुपगतानां  ६ सैनिकानां नामानि केन्द्रप्रशासनेन प्रथमतया बहिः प्रकाशितानि। दिल्लीस्थे राष्ट्रिय युद्धस्मारके   त्यागचक्रम् इति संज्ञया व्यवह्रियमाणे बलिचक्रे एतेषां नामानि आलेखितानि। पञ्च स्थलसेनाधिकारिणाम् एकस्य व्योमसेनाधिकारिणश्च नामान्येव प्रकाशितानि। 

  सुबेदार् मेजर् पवन कुमारः, भुषुण्डिकः [rifle man] सुनिल् कुमारः, लान्स् नायिक् दिनेश् कुमारः, मूद् मुरलीनायिक् हविल् दार् सुनिल् कुमार सिंहः, वायुसेनायां सुरेन्द्रकुमारः इत्येते वीरमृत्युं प्रापुः। एषु मुरली नायिक् अग्निवीरः आसीत्। 

  २०२५ एप्रिल् २२ तमे दिनाङ्के पहलगामे बैसरण् अधित्यकायां दुरापन्ने भीकराक्रमणे २६ विनोदयात्रिकाः हताः आसन्। मेय् सप्तमे दिनाङ्के पाकिस्थानस्थानि भीकरकेन्द्राणि भारतेन प्रत्याक्रान्तानि।