केरलतः ६ बङ्गलादेशीयनागरिकाः ग्रहीताः।
एरणाकुलं> कतिपयवर्षाणि यावत् कोच्चीनगरस्य समीपे तृप्पूणित्तुराम् अनधिकृतत्वेन अधिवसन्तः षट् बङ्गलादेशीयनागरिकाः आरक्षकविभागस्य सविशेषदलेन निगृहीताः। एषु ५ युवकाः इतरः १७ वयस्कः कुमारश्च।
त्याज्यवस्तूनि [scrap] संगृह्य उपजीवनं कुर्वन्तः एते तृप्पूणित्तुरासमीपे एरूर् प्रदेशे गृहद्वये भाटकरूपेण वसन्तः आसन्। एतान् अनन्तरदिने न्यायालयं उपस्थाप्य शेषप्रक्रमाः विधास्यन्ते इति आरक्षकाधिकारिणा निगदितम्।