अयोध्या धनापहरणम्
अष्ट जनाः निगृहीताः।
मन्दिरपालनन्यासस्य कार्यदर्शिप्रमुखः चम्पत् रायी, इतरः न्याससदस्यः च स्थानं त्यक्तवन्तौ।
अयोध्या> उत्तरप्रदेशे अयोध्यायां राममन्दिरात् भक्तैः समर्पितः धनराशिः अमूल्यवस्तूनि च अपहृतानीति विषये मन्दिरसेवकान् नव जनान् अपराधिनः कृत्वा अयोध्या आरक्षकदलेन प्रकरणं पञ्जीकृतम्। तेषु अष्ट जनाः निगृहीताः। इतरः एकः निलीनः वर्तते।
न्याससदस्यस्य कृष्णमोहनस्य परिदेवनस्य तथा क्रमभङ्गारोपणम् अन्वेष्टुं यू पि सर्वकारेण नियुक्तस्य 'एस् ऐ टि' संङ्घस्य च आवेदनस्य आधारे एव अपराधप्रकरणं पञ्जीकृतम्। अपराधिभ्यः ७९. ८ लक्षं रूप्यकाणि अधिगतानीति आरक्षकदलेन निगदितम्।
प्रत्युत, धनापहरणस्य धार्मिकोत्तरदायित्वं स्वीकृत्य मन्दिरपालनन्यासस्य कार्यदर्शिप्रमुखः चम्पत् रायी, १५ न्याससदस्येषु अन्यतमः अनिल मिश्रः च स्थानं त्यक्तवन्तौ। चम्पत रायी विश्व हिन्दुपरिषत् संघटनस्य उपाध्यक्षः च अस्ति।
