OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, June 29, 2026

 वेनस्वेलायै भारतस्य साहाय्यहस्तः - 'ओपरेषन् अमिस्टाड्'।

नवदिल्ली> युगलभूकम्पेन स्तब्धायै वेनस्वेलायै ७२ होराभ्यन्तरे भारतस्य साहाय्यहस्तः। 'ओपरेषन् अमिस्टाड्' [Operation Amistad] इति कृतनामधेयस्य  दौत्यस्य अंशतया द्वे सी - ७ विमाने १४,००० कि मी दूरं डयित्वा कारकासनगरं प्रापतुः। विमानेSस्मिन् ३५ टण् मितं दुरन्ताश्वासवस्तूनि, ९ वैद्यकसहितः ४१ अंगोपेतः चिकित्सासंघः, सैनिकक्षेत्रीयातुरालयः इत्यादीनि अन्तर्भवन्ति। 

  आधुनिकसौविध्योपेते सुवाह्ये [portable] आतुरालये ICU, X Ray यन्त्राणि इत्यादीनि सन्ति। एकस्मिन् समये २०० जनानां परिचर्या विधातुं शक्यते।