OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, May 10, 2025

 पाकिस्थानस्य प्रकोपनमनुवर्तते। 

जनवासक्षेत्राणि लक्ष्यीकृत्य अग्निशस्त्राक्रमणं - द्वौ बालकौ मृतौ, त्रयः क्षताः। 

भुषुण्डिप्रयोगेण एकः सैनिकः वीरमृत्युं प्राप। 

श्रीनगरं> काश्मीरस्य जनाधिवासकेन्द्राणि लक्ष्यीकृत्य अपि पाकिस्थानस्य आक्रमणम्। काश्मीरे पूञ्च् क्षेत्रे कस्यचन विद्यालयस्य पृष्ठतः विद्यमानं गृहं प्रति पाकिस्थानस्य 'षेल्' पतित्वा द्वौ बालकौ हताविति विदेशकार्य सचिवेन विक्रम मिस्रिना स्थिरीकृतम्। विद्यालयः पिहितः इत्यतः महान् दुरन्तः अपनीतः। अन्यत्र चलतः कार् यानस्य उपरि पाकिस्थानस्य 'षेल्' पतित्वा एकपरिवारीयाः त्रयः आहताः। 

  काश्मीरस्थे उरि मण्डले पाकिस्थानेन कृते भुषुण्डिप्रयोगे एकः सैनिकः वीरमृत्युं प्राप। आन्ध्रप्रदेशीयः एम् मुरली नायिक् [२७] एव मृतः। 

 उरी, पूञ्च्, राजौरी इत्यादिभ्यः सीमास्थानेभ्यः सेनायाः निर्देशमनुसृत्य  जनाः सुरक्षितस्थानानि प्रति पलायन्ते।

२०२५ संवत्सरस्य भारत-मुद्रा नाम पुरस्कारेण  दामोदरन् नम्बिटिः सम्मानितः।

   तृश्शिवपेरूर्> संस्कृतस्य प्रचाराय भारतमखिलं भ्रमन् अनवरतं प्रयत्नं कृत्वा स्वं मार्गं स्फुटीकृतवान् आसीत् अशोकन् पुरनाट्टुकर। प्रभाषकः, पत्रकारः, अध्यापकश्च आसीत् अयं महोदयः। अस्य स्मृत्यर्थं संस्थापितः भारत-मुद्रा नाम पुरस्कारं संवत्सरेऽस्मिन् दामोदरन् नम्बिटिः प्राप्तवान्। अयं महोदयः सुज्ञातः चित्रकारः, ग्रन्थकारश्च भवति।


 11,111 रूप्यकाणां धनराशिः, प्रशस्तिपत्रम्, फलकं च पुरस्कारेऽस्मिन् अन्तर्भवति। गुरुवायूर्-देवस्वं-प्राधिकरणस्य अध्यक्षेण डा. वी.के. विजयेन पुरस्कारोऽयं समर्पितः। पी.के. राजेन अध्यक्षतां वहति स्म।


डॉ॰ सी.टी. फ्रान्सीसेन अशोकन् पुरनाट्टुकर महाभागस्य सुस्मरणं कृतम्। के.वी. गणेशेन पुरस्कारेण मानितस्य दामोदरन् नम्बिटिमहोदयस्य विशिष्टपरिचायकं कृतवान्। एन्. मोहनस्य 'इन्नलत्ते मष़' (मलयाळ भाषा) इति ग्रन्थम् अशेकन् महोदयेन 'ह्यस्तनी वृष्टिः' इत्याख्यया अनूदितम् आसीत्। ग्रन्थोऽयं  डॉ॰ टी. श्रीकुमारः, के रामदासाय समर्प्य प्रकाशितवान्। श्रीकुमारः केरळस्य कविकोकिलस्य प्रथितयशस्कस्य वैलोप्पिल्लि श्रीधरमेनोनस्य पुत्रः भवति। रामदासः अशोकन् पुरनाट्टुकर महोदयस्य पुत्रः च।

 एन्. राजगोपालः, डॉ॰ एस्.एन्. महेष् बाबुः, षाजुः पुतूर, श्रीलेखा, प्रभा वैक्कत्त्, विनायकः च कार्यक्रमे भाषणानि अकुर्वन्।

Friday, May 9, 2025

 विश्वसंस्कृतप्रतिष्ठानस्य ४५तमं राज्यस्तरीयसम्मेलनं श्व आरभ्य कोष़िक्कोट् जनपदे। 

कोष़िक्कोट्> संस्कृतभारत्याः केरलविभागस्य विश्वसंस्कृतप्रतिष्ठानस्य ४५तमं राज्यस्तरीयसम्मेलनं शनिवासरे रविवासरे च कोष़िक्कोट् जनपदे विधास्यति। सम्मेलनस्य उद्घाटनं शनिवासरे अपराह्ने केरलस्य राज्यपालः राजेन्द्र विश्वनाथ आर्लेकरः तोण्डयाटस्थे चिन्मयाञ्जली सभागारे करिष्यति। 

  प्रतिनिधिसम्मेलनं ११तमे दिनाङ्के शिक्षकसदने सम्पत्स्यति। संस्कृतसम्भाषण शिबिरं, वीथीनाटकं, विलम्बरपथसञ्चलनं, संस्कृतग्रन्थानां प्रदर्शनं, संघात्मकं भगवद्गीतापठनं, मनोरञ्जनकार्यक्रमाश्च  सम्मेलनस्य अंशतया भविष्यन्ति।



 सण्णि जोसफः केरल प्रदेश् कोण्ग्रस् अध्यक्षः। 

सण्णि जोसफः।

नवदिल्ली> के पि सि सि इति केरलराज्यस्य कोण्ग्रस् दलस्य अध्यक्षरूपेण विधानसभासदस्यः सण्णि जोसफः एव इति दलस्य  उन्नताधिकारसमित्या [हैकमान्ट्] विज्ञापितम्। विवादानाम् अनिश्चित्वानामन्ते आसीत् वर्तमानीनाध्यक्षं के सुधाकरमपनीय सण्णि जोसफस्य नियुक्तिः। 

  यू डि एफ् संविधानस्य अध्यक्षरूपेण अडूर् प्रकाशः नियुक्तः। पि सि विष्णुनाथः , ए पि अनिल्कुमारः, षाफि परम्पिल् इत्येते के पि सि सि इत्यस्य प्रवर्तकाध्यक्षरूपेण च नियुक्ताः।

 एस् एस् एल् सि परीक्षाफलम् अद्य। 

कोच्ची> केरले दशमकक्ष्याछात्राणां अन्तिमसामान्यपरीक्षा एस् एस् एल् सि इत्यस्य परिणामः अद्य ज्ञातुं शक्यते।  सायं त्रिवादने शिक्षामन्त्रिणा वि शिवन्कुट्टिना फलं विज्ञापयिष्यते। 

  सार्धचतुर्लक्षं छात्राः तेषां फलं जिज्ञास्यमानाः सन्ति। टि एछ् एस् एल्  सी, ए एछ् एस् एल्  सी इत्यनयोःपरिणामव्ज्ञप्तिरपि अनेन सह भविष्यति।

 कर्दिनाल् रोबर्ट् प्रोवो नूतनः मार्पापावर्यः। 

नूतनपापावर्यः विश्वासिजनान् अभिसम्बोधयति 

अमेरिकातः प्रथमः पापा; 'लियो १४तमः' इति नाम स्वीकृतम्। 

वत्तिक्कान सिटी>  आगोल कत्तोलिक्कासभायाः परमोन्नत आत्मीयाचार्यः - मार्पापा - चितः। कर्दिनाल् रोबर्ट फ्रान्सिस् प्रोवो कोण्क्लेव् इति गुप्तपरिषदः द्वितीयदिने २६७ तमः मार्पापारूपेण चितः। लियो चतुर्दशतमः इति सः परं आख्यायते। 

  गुरुवासरस्य रात्रौ ९. ४० वादने सिस्टैन् चाप्पल् देवालयस्य धूमनालिकया श्वेतधूमः बहिरागच्छत्। निमेषाणामनन्तरं कर्दिनाल् प्रोटोडीकन् पदीयः डोमनिक् माम्बोर्टी सेन्पीटेर्स् देवालयस्य वेदिकां सम्पाप्य विज्ञापितवान् - "अस्मभ्यं पापा लब्धः" । तदैव लियो १४ तमः वेदिकां सम्प्राप्तवान्। "संवादेन मेलनेन सेतुः निर्मातव्यः। सदापि शान्तिं पालयाम" इति नूतनपापावर्येण प्रथमः सन्देशः समर्पितः।

Thursday, May 8, 2025

 भारतबंगलादेशयोः सीमनि चीनस्य उदग्रछायाग्राही।

  गुवाहती>भारत-बंगलादेशयोः सीमनि चीनस्य उदग्रछायाग्राही परित्यक्तवत् दृश्यते। श्रीभूमि नगरस्य समीपे चारबसार प्रदे शतः उदग्रछायाग्राही लब्धा। चीनेन निर्मिता भवति इयम्। आरक्षकैः अन्वेषण- प्रक्रमाः समारब्धाः।

 रोहित शर्मा निकषक्रिकट् इत्यस्मात् निवृत्तः। 


मुम्बई> भारतस्य क्रिकट्क्रीडादलस्य नायकः रोहित शर्मा निकषस्पर्धायाः निवृत्तवान्। टि - २० प्रकरणात् पूर्वमेव निवृत्तः सः एकदिनप्रकरणे अनुवर्तिष्यते। 

  निकषस्पर्धापरम्परासु रोहितशर्मणः निन्द्यमानानुष्ठानेभ्यः नायकपदम् अङ्गत्वमपि विनष्टं भवेदिति अभ्यूहे  जाते अस्ति तस्य निवृत्तिविज्ञप्तिः।

 'सिन्दूरं' भारतस्य सन्देशः। 

वार्ताहरसम्मेलनं कृतवत्यौ विङ् कमान्टर् व्योमिका सिंहः केणल् सोफिया खुरेषी च। 

नवदिल्ली> सिन्दूरम् इति कृतनामधेयः भारतस्य सैनिकप्रक्रमः भीकरतां विरुध्य राष्ट्रस्य सूक्ष्मतया विधत्तः सन्देशः भवति। पहल्गामभीकराक्रमणस्य प्रतिप्रहरस्य ओपरेशन् सिन्दूर् इति नाम्नि आक्रमणे हतपुरुषाणां विधवाभ्यः समर्पिता इयम् आदराञ्जलिः। भीकरैः निर्माजितानां २६ सिन्दूरतिलकानां प्रत्युत्तरम्! 

  वार्ताहरसम्मेलने विदेशकार्यसचिवेन सह सेनाप्रक्रमान् अधिकृत्य विवरणं दत्तवत्यौ  द्वे महिले - केणल् सोफिया खुरेषी तथा  विङ् कमान्डर् व्योमिका सिंहश्च विनष्टप्राणानां पत्नीनां कृते समर्पितादररूपेण श्लाख्येते।

 सिन्दूर शस्त्रप्रक्रमेण पाकिस्थानं  प्रकम्पितम्।

प्रत्याक्रमणेन पाकिस्थानस्य प्रकोपः, वीरवादः। 

एकः भटः वीरमृत्युं प्राप। 

नवदिल्ली> ओपरेषन् सिन्दूर् इति भारतस्य प्रतिप्रहरात् भयचकितं पाकिस्थानं प्रत्युषसि भारतं विरुद्ध्य षेल् नामकास्त्रस्य वर्षम् अकरोत्। पूञ्च् , रजौरि मण्डलेषु आसीत् षेल् शस्त्राक्रमणम्।

  भारतसेनायाः लान्स् नायिक् पदीयः दिनेष् कुमारः  वीरमृत्युं प्राप। अन्यः कश्चन सैनिकः तीव्रक्षतेन आतुरालयं प्राविशत्। पाकिस्थानस्य आक्रमणे १५ प्रदेशवासिनः जनाः हताः। 

 एतदन्तरे भारतं प्रति प्रतिप्रहरं करिष्यतीति  पाकिस्थानस्य प्रधानमन्त्री वीरवादं घोषितवान्।

Wednesday, May 7, 2025

 भीकरतां विरुध्य राष्ट्रस्य  प्रतिप्रहरः। 

'ओपरेशन् सिन्दूर्' - पाकिस्थानस्य भीकरकेन्द्रेषु भारतस्य शस्त्रोपचारः। 

+ २५ निमिषाः, ९  केन्द्राणि, ७० मरणानि। 

+ विशीर्णेषु भीकरपरिशीलनकेन्द्रेषु एकं 

बिन् लादनेन निर्मितम्। 

नवदिल्ली> पहल्गामभीकराक्रमणस्य १५ तमे दिने पाकिस्थानं प्रति भारतसैन्यस्य मर्मभेदकं प्रत्युत्तरम्। अद्य प्रत्युषसि १. ०५ वादनतः १. ३० वादनपर्यन्तं दीर्घिते सैनिकप्रक्रमे पाकिस्थानस्य काश्मीरस्थानि भीकराणां ९ परिशीलनकेन्द्राणि विनाशितानि। जनवासक्षेत्राणि अपनीय, केवलं भीकरशिबिराणि लक्ष्यीकृत्य कृते 'ओपरेशन् सिन्दूर्' इति कृतनामधेये शस्त्रप्रहरे ७० भीकराः हताः इति सेनाधिकारिभिः निगदितम्। 

  सैनिकप्रक्रमानन्तरम् आकारिते वार्ताहरसम्मेलने उपग्रहचित्राणां साह्येन प्रमाणैः सहितमासीत् सैन्याधिकारिणः उपस्थापनम्।

 नूतनमार्पापा 

वरिष्ठपुरोहितानां गूढपरिषत् [Conclave] अद्य आरभ्यते। 

भारतात् चत्वारः वैदिकश्रेष्ठाः। 

वत्तिक्कानं>  स्वर्गीयस्य फ्रान्सिस् मार्पापावर्यस्य अनुगामिनम् अधिगन्तुं ६९ राष्ट्रेभ्यः १३३ 'कर्दिनाल्' पदीयानां वरिष्ठपुरोहितानां गूढपरिषत्  [conclave]अद्य आरभ्यते। तदर्थं वत्तिक्काने सिस्टैन् चाप्पल् देवालयः सज्जः अभवत्। प्रादेशिकसमयानुसारं सायं ४. ३० वादने [भारतीयसमयः रात्रौ ८ वादने] परिषदारभ्यते।

  न्यूनाशीतिवयस्काः १३३ कर्दिनालपदीयाः गुप्तपरिषदि भागं करिष्यन्ति। तेषु भारतात् चत्वारः कर्दिनालाः सन्ति।

Tuesday, May 6, 2025

 भारतस्य जलं राष्ट्रेच्छानुसारम् उपयोक्ष्ये से-भारतस्य प्रधानमन्त्री।

        नवदिल्ली> पाकिस्तानाय जलं न दद्मः इति मोदिना उक्तम्। भारतस्थं जलं भारतस्य इच्छानुसारम् उपयोक्तुमेव भवति। सिन्धूनदीजल-व्यवस्थायाः जडीकरणविषये एव अयं परामर्शः।

 संस्कृतं समेषां भारतीयभाषाणां जननी - अमित शाहः। 

संस्कृतभारत्याः नेतृत्वे १००८ संस्कृतसम्भाषण शिबिराणि सम्पन्नानि। 

सम्भाषणशिबिराणां समाप्तिसमारोहे उद्घाटनभाषणं कुर्वन् अमित शाहः ।

नवदिल्ली> भारतस्य गृहमन्त्री अमित शाहः प्रोक्तवान् यत् संस्कृतभाषा प्रायेण समेषां भारतीयभाषाणां जननी भवति। दिल्ली विश्वविद्यालयस्य उत्तरपरिसरे संस्कृतभारत्या समायोजितस्य संस्कृतसम्भाषणशिबिरस्य समाप्तिसमारोहम् उद्घाटयन्  भाषमाणः आसीदयम्। यावत् संस्कृतं शक्तिमत् भविष्यति तावत् एकैका भारतीयभाषा प्रादेशिकभाषा च शक्तिमती भविष्यतीति तेन अनुप्रोक्तम्।

 भारत्याः विपुलं ज्ञानभण्डागारमधिकृत्य शाहमहेदयेन संस्मारितम्। योगः, गणितं, परिस्थिति विज्ञानं, व्याकरणम् इत्यादिषु संस्कृतस्य योगदानमनुत्तममिति तेनोक्तम्। 

  वस्तुतया संस्कृतमेवास्माकं मातृभाषा इति समारोहे विशिष्टातिथिरूपेण भागं कृतवती दिल्लीमुख्यमन्त्रिणी रेखा गुप्ता अवोचत्। संस्कृतस्य विज्ञानभण्डागारः अस्मान् विश्वगुरुं कर्तुं प्रभावशाली इति तया प्रोक्तम्। 

  संस्कृतभारत्याः नेतृत्वे दिल्लिविश्वविद्यालयस्य उत्तरपरिसरं केन्द्रीकृत्य १००८ संभाषणशिबिराणि प्रचालितानि यैः २५,००० सामान्यजनाः संस्कृतसंभाषणे प्रभवाः जाताः।

 राष्ट्रस्य रक्षासज्जीकरणं 

भारतं  सीमाराज्यानां जागरूकतां  निरदिशत्। 

व्याजशस्त्राभ्यासः [Moakdrill] बुधवासरे।

नवदिल्ली> पहल्गामभीकराक्रमणस्य अनन्तरं भारत-पाकिस्थानसीमायां संघर्षे वर्धिते रक्षासज्जीकरणं भारतेन सबलं कृतम्। युद्धसाध्यतामालक्ष्य सीमावर्तितराज्येभ्यः पूर्वसूचनाः दत्ताः। तेषु राज्येषु बुधवासरे  व्याजशस्त्राभ्यासं [Moakdrill] कर्तुम् आदेशः दत्तः। 

  व्याजशस्त्राभ्यासस्य स्वरूपम् एतावत् - 

+ व्योमाक्रमणस्य पूर्वसूचनाघोषस्य प्रवर्तनक्षमतायाः परिशोधनम्। 

+ आपत्कालीनावस्थाम् अभिमुखीकर्तुं सामान्यजनेभ्यः छात्रेभ्यश्च परिशीलनप्रदानम्। 

+ सुप्रधानप्रतिष्ठापनानां [Plants] संस्थानां च  आच्छादनाय सज्जीकरणानि कर्तव्यानि।

 आर्थिकसुस्थितौ भारतं जापानम् अतिक्रम्य चतुर्थश्रेणीं प्राप्तम्।

  २०२८ संवत्सरे भारतं विश्वसाम्पतिकमण्डले तृतीयं राष्ट्रं भविष्यति इति अन्ताराष्ट्र-नाणकनिधिः (IMF) वदति। अस्मिन् संवत्सरे चतुर्थस्थाने भारतं तिष्ठति इति अन्ताराष्ट्र नाणकनिधिः द्वारा प्रकाशिते 'वेल्ड् औट्लुक्' इत्यस्य प्रतिवेदने अस्ति। २०२४ तमस्य गणनानुसारं भारतं पञ्चमस्थाने आसीत्। अस्मिन् संवत्सरे चतुर्थश्रेणीं प्राप्नोति। २२२८ तमे जर्मनिम्अतिक्रम्य तृतीयंस्थानं प्राप्स्यति इति 'नाणकनिधिः प्रवचनं करोति।

Monday, May 5, 2025

 'तृशूर् पूरम्' उत्सवः श्वः। 

तृशूर्> दक्षिणभारते सुप्रसिद्धः 'तृशूर् पूरम्' इत्युत्सवः कुजवासरे विधास्यति। श्वः प्रातरारभ्य केरलीयाः केरले विनोदपर्यटनार्थं प्राप्तवन्तः विदेशीयाः च पूरनगरी इति प्रसिद्धं तृशूरस्थंं वटक्कुन्नाथमन्दिराङ्कणं  प्रवक्ष्यन्ति।

  श्वः दशवादनतः शताधिके वाद्यकाराः भागमूढ्यमानं पञ्चवाद्यादिकं वाद्यकलारूपं वादयन्ति। तदनन्तरं सायं चतुर्वादनतः 'कुटमाट्टं' नामकं नानावर्णोपेतछत्राणां परिवर्तनं सम्पत्स्यते। छत्रपरिवर्तनं तिरुवम्पाटि, पारमेक्काव् इति मन्दिरद्वयस्य नेतृत्वे ।.               नेतृत्वे एकैकस्मिन् पक्षे पञ्चदशगजवीराः प्रत्यभिमुखं तिष्टन्तः आनन्दोत्सवाय भिन्नवर्णछत्रप्रदर्शनं किल पर्वायते ।   ततः प्रत्युषसि नयनानन्दकरं स्फोटोत्सवश्च  सम्पत्स्यते।

 केरळ फिलिं क्रिट्टिक्स् पुरस्कारः 'एकाकी' चलन चित्राय।

       पुतुव फिलिंस् संस्थया निर्मितम् एकाकी नाम चलनचित्रम् २०२५ संवत्सरस्य केरळ फिलिं क्रिटिक्स् पुरस्कारायः चितम्। प्रसाद् पाऱप्पुऱम्, अय्यम्पुष़ हरिकुमारः, वैदिकः जोण् पुतुव च अस्य चलनचित्रस्य निदेशकाः रचयितारः च भवन्ति। २०२४ संवत्सरे केन्दीय चलनचित्रप्रमाणनायोगेन (Central board of film certification) प्रमाणीकृतानां चित्राणां मध्ये संस्कृतविभागे एव प्रथमस्थानं सम्प्राप्तम्। चलनचित्रेऽस्मिन् अभिनेता एकः एव इत्यस्ति सविशेषता।