"भाषा-पत्रकारितायाः वर्षावधिक-पाठ्यक्रमस्य शुभारम्भः"
OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, April 15, 2016
Thursday, April 14, 2016
म्यान्मर् देशे भूकम्पः, भारतस्य पूर्वोत्तरभागेषु च।
| भूकम्पानन्तरं जनाः स्वस्य वासस्थानात् बहिरागताः (अगर्तला नगरम्) |
बालिकापीडनारोपः
काश्मीरे चत्वारि मरणानि।
श्रीनगरम् > काश्मीरे हन्द्वारानगरे सैनिकेन बालिका पीडिता इत्यारोपेण संजाते संघर्षे चत्वारः जनाः मृताः। सैन्येन कृते नालिकाशस्त्रप्रहारे त्रयः , आरक्षकैः सह प्रतिद्वन्द्वे एकश्च मरणं प्राप्ताः। किन्तु न सैनिकः , काश्मीरीययुवकाः एव आत्मानम् अपमानितवन्त इति बालिकया उक्तम्।
केरळानां अद्य विषुवत् पुण्यकालीनपर्वः।
कार्षिकसंस्कृतेः हृदयहारी महोत्सवः अयम्। धर्मभेदं विना महोत्सवेsस्मिन् जनाः स्वस्य भागं स्वीकुर्वन्ति। प्रभाते कर्णिकारसुमैः अलङ्कृते पात्रे कार्षिकफलानि निधाय , तद् प्रभाते उन्मीलितेन नेत्रण पश्यन्ति। कृषिसमृद्धिं वाञ्चन्ति।प्रौढाःगृहस्थाः कनिष्ठेभ्यः धनं दानरूपेण वितरन्ति। शुभाशयाभिः मिथः तोषयन्ति च।
रात्रिकालस्फोटकोत्सवः निरुद्धः ।
कोच्ची >केरले महच्छब्दपूरितः स्फोटकोत्सवः उच्चन्यायालयेन निरुद्धः । भविष्यमाणाः स्फोटकोत्सवाः विधिविधेयकाः स्युः इत्यपि न्याय. तोट्टत्तिल् बि राधाकृष्णः न्याय. अनु शिवरामः इत्येतयोः न्यायासनेन निर्दिष्टम् ।
पुट्टिङ्ङल् देवीमन्दिरे संजातं स्फोटकदुरन्तमाधारीकृत्य न्यायाधिपस्य वि चिदम्बरेशस्य प्रलेखं सार्वजनीनकयाचिकां परिगण्य एव नीतिपीठस्य आदेशः ।
विषुवत्काले उग्रध्वनिस्फोटकानां सर्वकारस्य नियन्त्रणम् ।
अनन्तपुरी > दुरन्तापकाराय विषुवदिने ध्वनिस्फोटकानाम् उपयोगे केरलसर्वकारस्य मलिनीकरणनियन्त्रणसमित्या नियन्त्रणं निर्दिष्टम् । १२५ डसिबल् परिमिताधिकतया शब्दजनकानां स्फोटकानां विक्रयः विनियोगश्च निरुद्धः ।
निश्शब्दमण्डलरूपेण संरक्षितव्याः चिकित्सालयाः विद्यालयाः आराधनालयाः इत्यादीनां १०० मीटर् परिमिते परिसरे पटहस्फोटकानां स्फोटनमपि निरुद्धम् ।
Wednesday, April 13, 2016
लातूरे प्रथमं जलसंभृतं पट्टिकाशकटम् आगतम्।
मुम्बै> महाराष्ट्रेषु जलदौर्लभ्येन पीडितनां जनानां आश्वासदानाय पानीयजलेन संभृतं पट्टिकाशकटम् आगतम् । तस्मिन् पञ्चलक्षम् लिट्टर् मितं पानीयं जलम् अस्ति। जलपात्रेण सह सूर्योदयात् पूर्वं जनाः तिष्टन्तः आसन्। तैः अत्याह्लादारवेण यानं स्वीकृतम्। पश्चिम महाराष्ट्रस्य मीरजतः सञ्चितं जलं ३५० किलोमीट्टर् दूरं रेल् द्वारा आनीतम् ।
Tuesday, April 12, 2016
संस्कृतभाषा सकल-वैज्ञानिक-विभागानाम् अध्ययनाय अनिवार्या - पि.के वारियर्।
कोट्टक्कल्> संस्कृतं केवलम् आयुर्वेदाध्ययनस्य कृते न। सकल वैज्ञानिक-मण्डलेषु संस्कृत-भाषाध्ययनं अनिवार्यम् इति अयुर्वेदाचार्यः वैद्यरत्नं पद्मश्री पि.के वारियर् महोदयः उक्तवान् । संस्कृतं विना आयुर्वेदाध्ययनाय केचन 'भस्मासुराः' पाठ्यक्रमान् विकलं कर्तुं प्रयतन्ते। एतस्मिन् सन्दर्भे आचार्यस्य कालानुसारि स्वाभिमत-प्रकाशनं संस्कृतानुरागिणां हृदयम् कियन्मात्रम् अतोषयत् इति वक्तु मशक्यम्।
वेङ्ङ्रर उपजिल्लायाः एम्. ए.एम् यु.पि विद्यालयस्य संस्कृत-छात्रैः सह भाषमाणः आसीत् सः। वरियर् महोदयस्य वचसा प्रभावितः छात्राः उच्चविद्यालये ततः उपरि च संस्कृतं पठामः इति उक्तवन्तः। तेषां प्रिय अध्यापकेन ए.वि हरीशेन सह अध्ययनयात्रां कुर्वन्तः ते मलप्पुरं जिल्लायाः सांस्कृतिकस्थानानि च सन्दर्शितवन्तः।
Monday, April 11, 2016
परवूर् स्फोटकापघातः - मरणानि ११० अतीतानि ; देशीयनेतारः दुरन्तस्थानं प्राप्तवन्तः।
कोल्लम् > परवूर् पुट्टिङ्ङल् देवीमन्दिरे सञ्जाते महति ध्वनकस्फोटनदुरन्ते
मृतानां संख्या ११० अभवत् । व्रणिताः ३०० परं च। मृतेषु केवलं ५८ एव अभिज्ञाताः । मृतेषु शिष्टान् व्रणितेषु कांश्चन च अभिज्ञातुं डि एन् ए शोधनापि करणीयेति अभिज्ञवृत्तैः उक्तम् ।
तथा देशीयनेतारः अपि दुरन्तस्थानं प्राप्तवन्तः । प्रधानमन्त्री नरेन्द्रमोदी दुरन्तस्थानं सन्दर्शितवान् ।अनन्तरं कोल्लं जिल्ला जनरल् चिकित्सालयं प्राप्य व्रणितान् समाश्वासयत् । स्वास्थ्यमन्त्री जे पि नड्डा कोल्लम् अधिवसन् दुरिताश्वासप्रवर्तनानाम् नियमनं वहति ।कोण्ग्रस् दलस्य उपाध्यक्षः राहुल् गान्धी , ए के आन्टणी इत्यादयः अपि दुरन्तबाधितान् समाश्वासयन्ति स्म ।
राष्ट्रपतिः प्रणब् कुमार् मुखर्जी राज्यपालः पि सदाशिवम् इत्यादयः दुरन्ते अनुशोचनं प्रकाशितवन्तः।
पाक् सन्दर्शनम् अपाकरणीयम् इति यू एस् जाग्रतासूचना।
वाषिङ्टण् > अननिवार्यं चेत् पाकिस्तानराष्ट्रं प्रति सन्दर्शनम् अपाकरणीयमिति स्वकीयपौरेभ्यः अमेरिक्का जाग्रतानिर्देशम् अदात् । भीकराक्रमणानि , वर्धिताः वंशीययुद्धाः इत्यादय एव अपाकरणकारणत्वेन प्रस्तुताः ।
पाकिस्ताने विदेशसंबन्धसहिताः रहिताश्च भीकरसंघटनाः सजीवाः वर्तन्ते ।यू एस् पौरजनाः एतेषां लक्ष्यं भूयात् - यू एस् राज्यविभागेन बहिरानीता सूचना आह ।
Sunday, April 10, 2016
केरळेषु विस्फोटकेन १०५जनाः मृताः।
प्रधानमन्त्री व्रणितान् द्रष्टुम् आगमिष्यति॥
प्रधानमन्त्री व्रणितान् द्रष्टुम् आगमिष्यति॥
कोल्लम् > परवूर् परिसरे विद्यमानस्य पुट्टिङ्कल् देवालयस्य विस्फोटकगृहे अग्निबाधया महान् विस्फोटः अजायत। सूर्योदयात् पूर्वं त्रिवादने एव दुरन्तः। १०५ जनाः मृताः पञ्चा शदुत्तर त्रिशतम् (३५०) जनाः व्रणिताः। समीपस्थेषु आतुरालयेषु व्रणिताः प्रविष्टाः , केषाञ्चन अवस्था गुरुतरा च।
विस्फोटक ध्वनेः व्याप्तिः सार्धैक किलोमीट्टर परितः आसीत्। सुरक्षा प्रक्रियायाः नेतृत्वे DGP वर्यः आगतः अस्ति। प्रधानमन्त्री नरेन्द्र मोदी आगमिष्पति। तेन आर्थिकसाहाय्यं प्रख्यापितम्।
फिडल् कास्त्रो सार्वजनीनवेदिकायाम्
हवाना > क्यूबाराष्ट्रस्य परिभ्रमणनायकः फिदल् कास्त्रो नवमासानन्तरं सार्वजनीनवेदिकां प्राप्तः । गतगुरुवासरे हवानायां भूतपूर्वक्यूबाक्रान्तिनायिकायाः विल्मा एस्पिन् नामिकायाः स्मरणार्थं स्थापिते विद्यालये छात्रैः सह बहुसमयं यावत् संवादं कृतवान् ।
८९ वयस्कः फिदल् वर्यः छात्रैः सह उपवेशनस्य संवादस्य च छायाचित्राणि स्टेट् दूरदर्शनेन बहिरानीतानि । गतमासे सम्पन्ने यू एस् राष्ट्रपतेः ओबामावर्यस्य क्यूबासन्दर्शने फिदल्वर्यं द्रष्टुं ओबामा न सन्नद्धः अभवत् । ततः कस्मिंश्चित् देशीयपत्रिकायां ओबामां विमृश्य लेखनमपि कृतवान्।
Saturday, April 9, 2016
जलं दुर्लभम्
नासिक् > महाराष्ट्रराज्यः सूर्यतापेन ज्वलति। पानीयजलस्य
![]() |
| रामकुण्डं गतवर्षे |
'गुढी पाडवा' महोत्सवस्य अनुबन्धतया प्रतिसंवत्सरं शतसहस्राधिकाः जनाः पुण्यस्नानं कुर्वन्त्यत्र । ३०० वर्षात् पूर्वमेव निर्मितः भवति अत्रत्या वापी । वनवासकाले सीता रामेन सह अस्मिन् स्नानं कृतवती इत्यस्ति काचन प्रथा। कुम्भमेलायाः काले जनाः अधिकतया आगच्छन्ति।
Friday, April 8, 2016
विक्रमसंवत्सरं 2073
कोच्ची > जीवनशैल्यां हितकरं परिवर्तनम् उद्घोषयत् अद्य लोके सर्वत्र स्वास्थ्यदिनम् आचरति । मधुमेहरोगस्य दूरीकरणम् इति अस्य स्वास्थ्यदिनस्य कर्तव्यबोधनम्।
अद्य लोकेषु सर्वत्र बलिका बालकाः अपि अनेन रोगेण क्लेशमनुभवन्ति। अन्नदोषः बहूनां रोगाणां कारणं भवति।
व्यायामो हि सदा पथ्यो बालानां स्निग्धभोजिनाम्।
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः॥ (महाभारतम्)
नवदिल्ली >ऋणं प्रत्यर्पयितुं किङ् फिषर् स्वामिना विजयमल्ल्येन निर्दिष्टाः व्यवस्थाः बाङ्कानां समित्या निरस्ताः ।६००० कोटि रूप्यकाणि तथा पञ्चवर्षाणां वृद्धिश्च प्रत्यर्पणीयानीति समित्या निर्दिष्टम् ।
भारतस्य विविधबेङ्केभ्यः कोटिशः रूप्यकाणि ऋणं स्वीकृत्य प्रत्यर्पणम् अकृत्वा पलायितः सः इदानीं लण्टन् देशम् अधिवसति ।
बीजिंग् >शास्त्रगवेषणार्थम् उपकारकः उपग्रहः - एस् जे १० - चीनादेशेन विक्षिप्तः। प्रत्यवतारणक्षमं २५ तममेनमुपग्रहं २ - डि नामिका क्षेपिणी भ्रमणपथमनयत्।
लघुतमभूगुरुत्वबलं (micro gravity), बहिराकाशजीवनशास्त्रम्(space life science) इत्यादीनां पठनाय उपकारकः भविष्यति । बहिराकाशे प्रवर्तमाने काले १९ प्रकाराणि परीक्षणानि उपग्रहे भविष्यन्ति इति चीनाशास्त्रकारैः विज्ञापितम् ।
अद्य विश्वस्वास्थ्यदिनम् ।
कोच्ची > जीवनशैल्यां हितकरं परिवर्तनम् उद्घोषयत् अद्य लोके सर्वत्र स्वास्थ्यदिनम् आचरति । मधुमेहरोगस्य दूरीकरणम् इति अस्य स्वास्थ्यदिनस्य कर्तव्यबोधनम्।
अद्य लोकेषु सर्वत्र बलिका बालकाः अपि अनेन रोगेण क्लेशमनुभवन्ति। अन्नदोषः बहूनां रोगाणां कारणं भवति।
व्यायामो हि सदा पथ्यो बालानां स्निग्धभोजिनाम्।
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः॥ (महाभारतम्)
शरीरस्य आकारं न्यूनीकर्तुं औषधं भुङ्त्वा युवकः मृतः।
इटुक्की- केरळम् > शरीरस्य अमितंभारं दुरीकर्तुं सस्यजन्यम् औषधं भुङत्वा मधुमेहरोगस्य आधिक्येन मनु नायर् नामकः युवकः मृतः। अस्वाभाविक मरणम् इत्यनेन आरक्षकः अपराधं स्वीकृतः। एषः किम् औषधं स्वीकृम् कुतः तत् औषधं लब्धम् इति आरक्षकाः न जानन्ति।
विजयमल्ल्यस्य व्यवस्थाः बेङ्कैः निरस्ताः ।
नवदिल्ली >ऋणं प्रत्यर्पयितुं किङ् फिषर् स्वामिना विजयमल्ल्येन निर्दिष्टाः व्यवस्थाः बाङ्कानां समित्या निरस्ताः ।६००० कोटि रूप्यकाणि तथा पञ्चवर्षाणां वृद्धिश्च प्रत्यर्पणीयानीति समित्या निर्दिष्टम् ।
भारतस्य विविधबेङ्केभ्यः कोटिशः रूप्यकाणि ऋणं स्वीकृत्य प्रत्यर्पणम् अकृत्वा पलायितः सः इदानीं लण्टन् देशम् अधिवसति ।
चैनया उपग्रहः विक्षिप्तः।
बीजिंग् >शास्त्रगवेषणार्थम् उपकारकः उपग्रहः - एस् जे १० - चीनादेशेन विक्षिप्तः। प्रत्यवतारणक्षमं २५ तममेनमुपग्रहं २ - डि नामिका क्षेपिणी भ्रमणपथमनयत्।
लघुतमभूगुरुत्वबलं (micro gravity), बहिराकाशजीवनशास्त्रम्(space life science) इत्यादीनां पठनाय उपकारकः भविष्यति । बहिराकाशे प्रवर्तमाने काले १९ प्रकाराणि परीक्षणानि उपग्रहे भविष्यन्ति इति चीनाशास्त्रकारैः विज्ञापितम् ।
Thursday, April 7, 2016
स्फोटकवस्तुयुक्तेन कार् यानेन सह भीकराः भारतं प्रविष्टाः।
नवदिल्ली > महदीम् आयुधावलिं सम्पाद्य त्रयः पाकिस्तानीयाः भीकराः भारतं प्रविष्टा इति गुप्तचरदलेन विज्ञापितम्। दिल्ली मुम्बई गोव इत्येतेषु नगरेषु आक्रमणं कर्तुं भीकराणां लक्ष्यमिति सन्देहः।
आत्महत्यासन्नद्धाः भीकराः तदुपकारकाणि बोम्बादीनि वस्तूनि संभृत्य एव तेषां प्रवेश इति सूच्यते। भारतस्य प्रतिरोधस्थापनानि , आराधनालयानि , जनसम्मर्दस्थानानि रेल् वे निस्थानानि इत्यादीनां सुरक्षा नितरां दृढीकृता वर्तते।
पानमा सिटि> लोके धनिकाः अधिकारिणश्च आढ्याः कथं करमदत्वा अविहितधनसम्पादनं कुर्वन्ति , व्याजधनानि यथातथं कुर्वन्ति इत्यादीनाम् आघातात्मकाः प्रलेखाः बहिरागताः ।
लोके रहस्यतमस्वभावात्मकसंस्थासु अन्यतमायाः " मोसाक् फोण्सेक् " (एम् एफ् ) नामिकायाः संस्थायाः स्रंसिताः भवन्त्येते प्रलेखाः। पानामेति मध्यामेरिक्काराष्ट्रं भवति अस्य विधिसाहाय्यस्थापनस्य आस्थानम् ।
काचन जर्मन् पत्रिकया समाहृतान् १. १ कोटि प्रलेखान् ७६ राष्ट्राणां १०९ प्रसारमाध्यमानां समितिः शोधनं कृत्वा एव वार्तां बहिरानीतवती ।
म्यान्मर् राष्ट्रस्य भूतपूर्वराष्ट्रपतिः तेय्न् सेय्न् संन्यासं स्वीकृतवान्।
याङ्कूण् > म्यान्मर्राष्ट्रस्य भूतपूर्व राष्ट्रपतिः तेय्न् सेय्न् स्वस्य औद्योगिकीं चीवरमुपेक्ष्य शिरसः मुण्डनं कृत्वा काषायवस्त्रं धृत्वा बुद्धभिक्षुः अभवत्I इदानीं तस्य चित्रं सर्वजनिक-माध्यमेषु प्रचरितम् अभवत्। कतिपयदिनेभ्यः पूर्वमेव सः स्वस्य स्थानं त्यक्तवान् आसीत्। सन्यासस्य प्रारम्भ प्रक्रियायां पञ्च दिनानि यवत् अन्यैः भिक्षुकैः समं सः वासं करिष्यति। संन्यासाश्रमे तस्य महोदयस्य नूतनं नाम 'उ थाण्डि धम्मः' इति।
Wednesday, April 6, 2016
गतिरारब्धवान् गतिमान्
आग्र> भारतीय रेल् यानेषु त्वरितवेगवत् जवराजः इव गतिमान् एक्स्-प्रस् ह्यः आरभ्य धावनं आरब्धम्।
रेल्वे मन्त्री सुरेष्प्रभु वर्यः स्वस्य कार्यालये उपविश्य रिमोट् कण्ट्रोल् उपयुज्य यात्रायाः उद्घाटनं अकरोत्। दिल्लीतः
आग्रापर्यन्तम् आसीत् प्रथमयात्रा।
सविशेषतया निर्मितेन यानपेटिका (बोगी)मध्ये निशुल्कं वैफै, स्वयं नियन्त्रितानि वातायनानि सहायतायै होस्टस् नार्यः
च सन्ति। द्वादश यात्रापेटिकाः च अस्मिन् विद्यन्ते । चिटिकायाः मूल्यम् शताब्द्याः अपि अधिकम्। शुक्रवासरे यात्रा नास्ति। यात्रायाः १०० निमेषाणां दैर्घ्यामस्ति। षष्ट्यधिकशतं १६० कि.मी वेगेन धावमानं भारतस्य प्रथमं रेल् यानं भवति गतिमान्।
बीहारे सम्पूर्णमदिरानिरोधनम्।
पट्न> बीहारराज्ये सम्पूर्णमदिरानिरोधनं प्रावर्तिकं कर्तुं नितीष् कुमार् मन्त्रिसभया निश्चितम् ।ग्रामीणमद्यं , सुरा इत्यादीनां निरोधनं कतिपयदिनेभ्यः पूर्वं प्रख्यापितमासीत्। इदानीं भारतनिर्मितं तथा विदेशनिर्मितं च सर्वप्रकारं मद्यं निरोधितम्। राज्ये सम्पूर्णमदिरानिरोधनं नितीष् कुमारस्य निर्वाचनवाग्दानमासीत्।
सविशेषतया निर्मितेन यानपेटिका (बोगी)मध्ये निशुल्कं वैफै, स्वयं नियन्त्रितानि वातायनानि सहायतायै होस्टस् नार्यः
च सन्ति। द्वादश यात्रापेटिकाः च अस्मिन् विद्यन्ते । चिटिकायाः मूल्यम् शताब्द्याः अपि अधिकम्। शुक्रवासरे यात्रा नास्ति। यात्रायाः १०० निमेषाणां दैर्घ्यामस्ति। षष्ट्यधिकशतं १६० कि.मी वेगेन धावमानं भारतस्य प्रथमं रेल् यानं भवति गतिमान्।
बीहारे सम्पूर्णमदिरानिरोधनम्।
![]() |
| गृहेषु सन्तुष्टिः भवतु |
पट्न> बीहारराज्ये सम्पूर्णमदिरानिरोधनं प्रावर्तिकं कर्तुं नितीष् कुमार् मन्त्रिसभया निश्चितम् ।ग्रामीणमद्यं , सुरा इत्यादीनां निरोधनं कतिपयदिनेभ्यः पूर्वं प्रख्यापितमासीत्। इदानीं भारतनिर्मितं तथा विदेशनिर्मितं च सर्वप्रकारं मद्यं निरोधितम्। राज्ये सम्पूर्णमदिरानिरोधनं नितीष् कुमारस्य निर्वाचनवाग्दानमासीत्।Tuesday, April 5, 2016
केरले कोण्ग्रस् दलस्य नामसूची प्रख्यापिता ।
नवदिल्ली - केरलविधानसभानिर्वाचने स्पर्धयतां कोण्ग्रस् दलीय प्रत्याशिनां नामसूची नवदिल्ल्यां प्रख्यापिता। मुख्यमन्त्री उम्मन् चाण्टी , गृहमन्त्री रमेश् चेन्नित्तला प्रभृतयः ८३ नेतारः जनमतम् अभिलषन्तः निर्वाचनाङ्कणे वर्तन्ते।
स्थानार्थिनिर्णये अभिजाताः तर्कवितर्काः दलस्य देशीयनेतृत्वस्य कठिनप्रयत्नेन यावच्छक्यं परिहृताः ।
बंगाल् असम निर्वाचने उत्साहभरितं भागभागित्वम्।
नवदिल्ली >पश्चिमबंगाल् असम् राज्ययोः ह्यः सम्पन्नं प्रथमचरणनिर्वाचनम् आवेशोज्वलं तथा शान्तियुक्तं च परिसमाप्तम्।
बंगराज्यस्य १८ मण्डलेषु प्रतिशतं८० मतदातारः स्वमतं दत्तवन्तः। १३ विधानसभामण्डलानि मावोवादिभीषणयुक्तानि सन्त्यपि भीषणिम् अवगणय्य एव जनाः मतदानाधिकारं प्रयुक्तवन्तः ।
असमे ६५ विधानसभामण्डलेषु प्रतिशतं७० जनाः मताधिकारं विनियुक्तवन्तः।
अनुस्यूतं षड्कचतुष्टयम्; वेस्ट् इन्डीसाय किरीटद्वयं लब्धम्।
कोल्कोत्ता > अन्तिमचक्रस्य प्रथमकन्दुकचतुष्टयं तावत् एकैकस्यापि षट् अङ्कावधिं प्राप्य सीमायाः बहिः मिसैलस्त्रवत् उड्डयित्वा प्रेषितवन्तः वेस्टिन्डीसीयाः २०-२० वनिताचषकेन सह पुरुषाणां २० - २० लोकचषकं च प्राप्तवन्तः।तथा विन्डीसीयानां क्रिकट्क्रीडायां मधुरयुगलम्। इंग्लण्टस्य क्रीडकेण बन् स्टोक्स् नामकेन विक्षिप्ते अन्तिमचक्रे विन्डीसाय विजेतुं १९ धावनान्कानि आवश्यकानि आसन् ।किन्तु चतुर्षु कन्दुकेषु क्रीडा समाप्ता । चतुरः कन्दुकान् सीमोपरि षड्काणि प्रेषयित्वा कार्लोस् ब्रात् वेय्ट् नामकः कन्दुकताडकः विन्डीसानां नायकः अभवत् ।
इंग्लण्ट् २० क्रीडाचक्रेषु ९ क्रीडकानां नष्टे १५५ धावनाङ्कानि प्राप्तानि । विन्डीसः १९.४ क्रीडाचक्रेषु ६ क्रीडकानां नष्टे १६१ ।
विश्वं भारतं प्रति श्रद्धया विक्षति मोदी।
रियाद् > सकललोकः भारतस्य साम्पत्तिकव्यवस्थान् श्रद्धया वीक्षमाणः अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदीमहाशयेन उक्तम्। आगोलार्थिकपरिस्थितेः भिन्ना भारतस्य नूतनार्थिकी पद्धतिः विश्वस्यश्रद्धाम् आकर्षन्ती अस्ति, भविषयादि विश्वस्य प्रतीक्षा भारते भवति इत्यपि तैः उक्तम्। सौदीराजेन सल्मानेन सह उच्चकोटी सम्भाषणावसरे एव मोदिवर्येण एतानि कार्याणि सूचितानि। Monday, April 4, 2016
मोदिने सौद्यां महत्स्वीकरणम् ।
रियादे किङ् खालिद् अन्ताराष्ट्रविमाननिलयं सम्प्राप्तं मोदिनं रियादराज्यपालः फैसल् बिन् वन्दर् अब्दुल् असीस् राजकुमारः , आसूत्रणमन्त्री आदिल् फखीह् , भारतस्थानपतिः अहम्मद् जावेद् इत्यादयः मिलित्वा मोदिवर्यं स्वीकृतवन्तः। ततः तत्रस्थे इन्टर् कोन्टिनन्टल् आवाससमुच्चये सविशेषक्षणितृृृन् २५० अधिकान् भारतीयान् नरेन्द्रमोदी अभिसंबोधनां कृतवान् । ऊर्ज- निक्षेप - सुरक्षाविषयेषु उभयराष्ट्रयोः मध्ये चर्चा भविष्यति ।
शतकोटिजनैः आधार-पत्रिका स्वीकृता
नव दिल्ली> कतिपय दिनाभ्यन्तरेण शतकोटि जनाः आधार पत्रिकायुक्ताः भवेयुः। एतदधिकृत्य प्रख्यापनम् अद्य दूरभाषा विभाग मन्त्रिणा रविशङ्कर प्रसादेन अद्य क्रियते। योजनेयं जेवन पूर्ती करणीया। पचनवातक समाश्वासः, छात्रवृत्तिः विरमितानां वेतनम् आदयः वित्तकोशद्वारा दातव्यम् । आधार योजना राज्यसभया अङ्गीकृता आसीत्। अनया पद्धत्या अर्हाणां कृते-समाश्वासः रुप्यकाणां लब्धि : च वित्तकोशद्वारा शक्यते।
Sunday, April 3, 2016
वेगेन गन्तुं 'गतिमान्'
आग्र> भारतीय रेल् यानेषु त्वरितवेगवत् जवराजः इव गतिमान् एक्स्-प्रस् मङ्गलवारादारभ्य धावति।
रेल्वे मन्त्रिणा सुरेष्प्रभुणा उद्घाटनं क्रियते च। दिल्लीतः आग्रापर्यन्तं भवति प्रथमयात्रा इति प्रान्तीय-प्रबन्धकस्य कार्यालयात् ज्ञापितम्। मन्त्रिवर्यः
स्वस्य कार्यालये उपविश्य रिमोट् कण्ट्रोल् उपयुज्य यात्रायाः उद्घाटनं करिष्यति।
सविशेषतया निर्मितेन यानपेटिका (बोगी)मध्ये निशुल्कं वैफै, स्वयं नियन्त्रितानि वातायनानि सहायतायै होस्टस् नार्यः च सन्ति। द्वादश यात्रापेटिकाः च अस्मिन् विद्यन्ते ।
चिटिकायाः मूल्यम् शताब्द्याः अपि अधिकम्। शुक्रवासरे यात्रा नास्ति। यात्रायाः १०० निमेषाणां दैर्घ्यामस्ति। षष्ट्यधिकशतं १६० कि.मी वेगेन धावमानं भारतस्य प्रथमं रेल् यानं भवति गतिमान्।
विधानसभानिर्वाचनं - असमे बंगाले च शब्दायमानं प्रचारणं समाप्तम् ।
नवदिल्ली - असमराज्ये आहत्य ६५ विधानसभामण्डलेषु सोमवासरे निर्वाचनं भविष्यति । पश्चिमबंगालराज्ये १८ मण्डलेषु च प्रथमसोपानं निर्वाचनं तस्मिन् दिने एव प्रचलति । शब्दायमानं प्रचारणम् समाप्तम् ।
मन्त्रिसभासंघटनाय मेहबूबायै आमन्त्रणम् ।
श्रीनगरं - जम्मु काश्मीरे मन्त्रिसभां रूपवत्कर्तुं पि डि पि दलनेत्रीं मेहबूबा मुफ्तिं राज्यपालः एन् एन् वोरावर्यः आमन्त्रयत्। राज्यस्य प्रथमवनितामुख्यमन्त्रिरूपेण सा श्वः सत्यप्रतिज्ञां करिष्यति।
कोण्ग्रस् मध्ये समस्याः रूक्षाः। अर्धरात्रौ अपि स्थानार्थिनिर्णयः न जातः।
Saturday, April 2, 2016
विद्यालयेषु सहस्रहोराणाम् अध्ययनं ध्रुवं करिष्यति।
![]() |
| केरळेषु सामान्यकक्ष्या |
विद्यालयेषु आगामिनि अध्ययनवर्षे २२० साध्यायदिनानि भवितव्यानि इति शिक्षाधिकारनियममुद्धृत्य उच्चन्यायालयेन आदिष्टमासीत् । प्रथमकक्ष्यायाः आरभ्य पञ्ममकक्ष्यापर्यन्तं ८०० होराः ६ - ८ कक्ष्यासु १००० होराश्च अध्येतव्याः। एतदर्थं २०० साध्यायदिनानि पर्याप्तानि । एतदनुसृत्य एव एतादृशः निश्चयः।
कलालयाध्यापकानां विरामायुः वर्धयितव्यमिति निवेदनं निरस्तम्।
कोच्ची> केरलेषु कलालयाध्यापकानां विरामकालायुः यू जि सि व्यवस्थामनुसृत्य ६५ वर्षाणि करणीयानीति आवेदनं केरलस्य उच्चन्यायालयेन निरस्तम् । एषः सर्वकारस्य कूटनीत्याः अंशः इति न्यायालयेन व्यक्तीकृतम् ।
अनन्तपुरी> केरले मेय्मासान्त्यं यावत् असह्यः उष्णः अनुवर्तिष्यत इति पर्यावरणनिरीक्षणकेन्द्रेण सूचितम् । इदंप्रथमतया तापावस्थामधिकृत्यापि प्रवचनम् आरब्धम् ।
मेय्मासान्त्यं यावत् सामान्यतः डिग्रिद्वयस्य अधिकः तापः भविष्यतीति सूचना दत्ता । पसफिक् समुद्रं तापमानं कुर्वन् " एल् निनो " प्रतिभास एव कारणमिति शास्त्रज्ञानां मतम् ।
Friday, April 1, 2016
कोल्कत्तायाम् उपरि-गमनागमन-सेतुः विस्रंस्य २१ मरणानि।
कोल्क्कत्ता > उत्तरकोल्कत्तायां निर्माणे वर्तमानस्य उपरि-गमनागमन-सेतोः कश्चनांशः अधः पतित्वा २१ जनाः मृताः। ६४ जनाः आहताः। नरगस्य वाणिज्यकेन्द्रे बरबसार् समीपे रबीन्द्रसरणि- के के टागोर् वीथ्यां निर्माणं पूर्तीकुर्वन् विवेकानन्द उपरिगमनागमनसोतुरेव महच्छब्देन अधःपतितः । बहूनां मार्गापणिकानां सङ्केतः तथा यानस्थानं च भवति सेतोः अधोभागः । अतः मरणसंख्या अधिकुर्वीत ।
२० - २० क्रिकेट
इम्गलण्ट् -वेस्ट् इन्डीस् अन्तिमयुद्धः।
कोच्ची - लोक २० - २० क्रिकट् स्पर्धायाः द्वितीये उपान्त्यपादमत्सरे वेस्ट् इन्डीस् राष्ट्रेण भारतं पराजितम् ।इम्गलण्ट् -वेस्ट् इन्डीस् अन्तिमयुद्धः।
मुम्बय्यां वाङ्कडे क्रीडाङ्कणे सम्पन्ने मत्सरे १९३ इति धावनाङ्कलक्ष्यं अनुगतवन्तः वेस्टिन्डीसाः त्रयाणां क्रीडकानां विनष्टे कन्दुकद्वयम् अवशिष्य लक्ष्यं प्राप्तवन्तः ।५१ कन्दुकैः ८२ धावनाङ्कान् प्राप्य अबाह्यः वर्तमानः सिम्मण्स् वर्यः तेषां विजयशिल्पी । वेस्ट् इन्डीस् राष्ट्रस्य अन्त्यपादप्रवेशः द्वितीयवारं भवति ।
लाहो गोलकक्षेपास्त्र-स्फोटने मरणसंख्या ७४ अभवत्।
ईस्टर् दिने संजाते गोलकक्षेपास्त्र स्फोटने मरणसंख्या अतीव वर्द्धिताः।अतीव गुरुतरावस्थायां प्राप्तौ द्वौ अपि ह्यः लाहोर् जिल्लाआतुरालये मृतौ। शताधिकाः अधुनापि आतुरालये चिकित्सायां सन्ति। द्विसहस्रााधिकाः आतुरालयात् प्रतिनिवृत्ताः।
मृतेषु २९ बालाः १० महिलाश्च सन्ति। क्रैस्तवानुद्दिश्य कृतः आक्रमणः आसीत् इति आतङ्कवाद संस्थाभिः जमा अत् उर् अह्रार् इति संघटनैः सूचितम्
कानडायाः प्रधानमंत्री योगासनेषु कुशलः
ओट्टोव> कानडायाः प्रधानमन्त्री जस्टिन् ट्रूडो कुशलात् कुशलः एव। अयं महोदयः योगासनेषु आकृष्टः सन् तस्मिन् प्रयत्नं कृतवान् । इदानीं कठिनासनानि अपि प्रयासं विना कर्तुम् एव शक्तः अनेन महोदयेन त्रयोदशाधिक द्वि सहस्रतमे वर्षे (२०१३) स्वस्य उत्पीठिकायां कृत मयूरासनस्य चित्राणि समूह माध्यमेषु अधिकतया प्रचरिताः सन्ति।
Thursday, March 31, 2016
शनीश्वरमन्दिरे स्त्रीप्रवेशम् अनुमन्तव्यं - न्यायालयः।
मुम्बई > यत्र यत्र मन्दिरेषु पुरुषाणां प्रवेशनानुमतिः अस्ति तत्र तत्र महिलानां प्रवेशाय राज्ये कोsपि विरोधः न विद्यत इति महाराष्ट्रा उच्चन्यायालयेन निर्दिष्टम् ।
अहम्मदनगरे शनि शिनांपूरमन्दिरे स्त्रीणां प्रवेशनिषेधं विरुद्ध्य नीलिमा वर्तक् नामिकया अभिभाषकया विद्या बाल् नामिकया समाजप्रवर्तकया च समर्पिते सार्वजनीनपरिदेवने एव न्यायालयस्य एतादृशं निरीक्षणम्।
मद्यपानस्य समापनं करिष्यामः सत्यापनं कृवा बीहार् राज्यस्य सामाजिकाः।
पट्ना > नियमसभायां सामाजिकानां सामाजिकत्वसत्यार्पणमेव सामान्येन प्रचलति। किन्तु बिहार् मियम सभायां बुधवासरे कृते सत्यप्रतिज्ञायां मद्यं त्यजामि इत्यासीत् सत्यार्पण-वाक्यम्। शासन-प्रतिपक्ष-भेदान् विहाय २४३ सामाजिकाः मिलित्वा एकमनसा प्रतिज्ञां कृतवन्तः। एप्रिल् मासात् आरभ्य राज्ये मद्य निरासः निश्चितः अस्ति।
केरले डिजिटल् साक्षरतायज्ञः प्रारब्धः।
तृश्शिवपेरूर्> राष्ट्रस्य प्रथमं सम्पूर्ण साक्षरताराज्यम् इति प्रथितं केरलम् ई- साक्षरतायामपि अनन्यादृशलाभाय प्रवर्तनम् आरब्धम् । राज्यं १००% साक्षरं कर्तुम् ऐटि मिषन् संस्थया पद्धतिः आरब्धा।
राज्यस्य छात्रारक्षकसंधस्य (students police cadet) नेतृत्वे सर्वानपि जनान् डिजिटल् साक्षरान् कर्तुमेव लक्ष्यम् । प्रथमसोपानाय १७ कोटिरूप्यकाणाम् अनुमतिः लब्धा । प्रथमसोपानं सेप्तंबर् मासे पूर्तीकर्तुं निश्चितम्।
Wednesday, March 30, 2016
तेलुङ्कानायाः सामाजिकाः प्रतिमासवेतने राष्ट्रपतेः उपरिI
द्वि-दिवसीयसंस्कृतशिक्षणवर्गः
पुदुच्चेरी> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः द्वि-दिवसीयसंस्कृतशिक्षणवर्गः (स्तरः – I) 2016 वर्षस्य एप्रिल्-मासस्य षोडश-सप्तदश-दिनाङ्कयोः ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः ‘श्री-अरविन्द-भवन’-परिसरे मुशीराबाद्-समीपे व्यवस्थापयिष्यते।
एतस्य शिक्षणवर्गस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः अभ्यासः इत्यादि च वैज्ञानिकदृष्टिकोण-द्वारा भविष्यन्ति। केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि संस्कृतेन पाठयिष्यते।
हैदराबाद्-नगरस्य प्रसिद्धः भाषावैज्ञानिकः डॉ. वाई.एन्. राव्-महोदयः एतस्य शिक्षणवर्गस्य आयोजनं करिष्यति।
ये उपरिनिर्दिष्टे शिक्षणवर्गे भागग्रहणमिच्छन्ति ते पाठ्यक्रमसञ्चालकं डॉ. वाई.एन्. राव्-वर्यं प्रति ईमेयिल्-पत्रं (सङ्केतः – “Dr. Y.N. RAO <doctorynrao@yahoo.co.in>) प्रेषयित्वा विवरणं प्राप्नुवन्तु।
2016 वर्षस्य एप्रिल्-मासस्य 7 दिनाङ्कः एव परिपूरितानि आवेदन"पत्राणि प्रेषयितुम् अन्तिमतिथिः अस्ति।
Tuesday, March 29, 2016
राष्ट्रिय-चलनचित्रपुरस्कारः प्रख्यापितः; बाहुबलिः उत्तममं चित्रम्।
नवदिल्ली> उत्तम चलन-चित्रपुरस्कारः बाहुबलिं प्राप्तः। एं एस् राज मौलिः भवति अस्य चित्रस्य सूत्रधारः । 'पिकु' नामकस्य हिन्दी चलनचित्रस्य अभिनयनाय उत्तमनटस्य पुरस्कारः अमिताभ बच्चन्वर्याय अलभत। उत्तमा नटी कङ्कण रनौत् च (तनु वेड्स् मनु रिट्टेण्स् इतिचित्रम् )।
Monday, March 28, 2016
पाकिस्ताने भीकराक्रमणं - ६५ मरणानि ।
पाकिस्ताने लाहोरे ह्यः सायं आत्महत्यासन्नद्धेन भीकरेण कृते आक्रमणे ६५ जनाः मारिताः ।२०० परं जनाः आहताः ।मृतेषु भूरिभागः महिलाः बालकाश्च भवन्ति ।
लाहोरे इक्बाल् नगरमिति प्रमुखे जननिवासमण्डले वर्तमाने गुल्षन् इक्बाल् उद्याने एव आत्महत्याभटः स्वयमेव विस्फोटितः । ईस्टर् दिने ह्यः तत्समये महान् जनसम्मर्द आसीत् । सुरक्षाव्यवस्था अपि न्यूना आसीदित्यपि सूच्यते ।
२०- २० लोकचषकः - भारतम् उपान्त्यपादे ।
मोहाली - आस्ट्रेलियां ६ द्वारकैः पराजित्य भारतं २० - २० लोकचषकक्रिक्कट् स्पर्धायाः उपान्त्यचक्रे स्थानं दृढीकृतम् ।सूपर् १० चक्रस्य निर्णायकमत्सरे आस्ट्रेलियया दत्ता १६१ धावनाङ्काः इति विजयक्ष्यः पञ्चकन्दुकेषु अवशिष्टेषु ४ कन्दुकताडकानां नष्टे भारतेन प्राप्तः ।
विराटकोलिः भवति श्रेष्ठक्रीडकः । सः ५१ कन्दुकेभ्यः षड्कद्वयेन नवचतुष्कैश्च साकं ८२ धावनाङ्कान् प्राप्य अबाह्यः अभवत् ।
वैदिकः ऐ एस् भीकरैः अपहृतः ; मोचयितुं प्रयत्नः आरब्धः ।
घटनायां ऐ एस् संघटनस्य उत्तरदायित्वं गतदिने एव केन्द्रसर्वकारेण प्रकाशितम् ।तस्य मोचनाय सर्वथा प्रयत्नः आरब्ध इति विदेशकार्यमन्त्रिण्या सुषमा स्वराजेन उक्तम् । परन्तु तस्य मोचनाय भीकरैः मोचनद्रव्यम् अभियाचितमिति वार्ता बहिरागता ।
Sunday, March 27, 2016
निलीयमानान् निरीक्षितुं सैन्यस्य " दिव्यचक्षुः" ।
नवदिल्ली> भारतसैन्यस्य आक्रमणशक्तिं वर्धयितुं श्रेष्ठः लाभः भारतीय प्रतिरोध गवेषणसंस्थया प्राप्तः । सन्देहयुक्ते साहचर्ये भवनेषु अदृष्टिगोचरान् जनान् निरीक्षितुं तेर्मल् इमेजिंङ् रडार् इति नूतनयन्त्रविशेषः दिव्यचक्षुनाम्ना विकसितः।भारतीयप्रतिरोधगवेषणसंसस्थायाः अधीने प्रवर्तमाना इलक्ट्रोणिक्स् &रडार् डवलप्मेन्ट् एस्टाब्लिष्मेन्ट् इति संस्था एवास्य साक्षाकारमकरोत् । भित्तिकातः २० मीटर् दूरस्थं व्यक्तिम् अभिज्ञातुम् अनेन रडार् उपकरणेन साध्यते । व्यक्तेः शरीरोष्माणं प्रत्यभिज्ञाय रडार् प्रवर्तते ।
६ किलोपरिमितं भारयुक्तस्य अस्य निर्माणव्ययः ३५ लक्षं रूप्यकाणि सन्ति ।बंगुलुरु आस्थानत्वेन वर्तमाने गवेषणकेन्द्रे अस्य भारं लघूकर्तुं परिश्रमः वर्तते।
सैन्यस्य प्रयत्नः सफलः प्राप्स्यते चेत् मुम्बई, पठान्कोट् सदृशानि भीकराक्रमणानि प्रतिरोद्धुं शक्यते इति विश्वासः ।
शुद्धजलं दुर्लभम्
आभारतम् जनाः अत्युष्णेन क्लेशम् आवहन्ति। नगरेषु ग्रामेषु अपि जलमन्विष्य जनाः परिभ्रमन्ति। पक्षि-जन्तुजालान्यपि क्लेशमनुभवन्ति। सूर्याघातेन पतिताः मृताः च बहवः सन्ति। एवं स्थिते सति एकत्र नालिकायाः दोषेण जलं वृथा प्रवहन्ति। अन्यत्र जलस्य आगमनं प्रतीक्षय स्त्रियः बालिका-बालकाश्च तिष्ठिन्ति। तत्रवर्तमानेन कोलाहलेन जिल्ला अधिकारिभिः निरोधनाज्ञा ज्ञापिता च। भवतु सकलप्राणिनां जीवरक्षायै जलं नूनम् आवश्यकम् इति अद्यतन चिन्तायाः विषय:।
सामूहिक माध्यमानां कण्ठेषु अन्तर्जाल-आरक्षक-सेनायाः ग्रहणम्।
कोच्ची > सामूहिक - अन्तर्जालमाध्यमेषु भय - जुगुप्सोत्पादकानि चित्राणि उद्प्रावेशकाः मार्च् मासस्य अष्ठविंशाति दिनाङ्कतः अपराधिनः भवेयुः। सर्वोच्च न्यायालयस्य आदेशानुसारं तादृशान् ग्रहीतुं निश्चितः अस्ति इति अन्तर्जाल-आरक्षकसेना विभागेन उक्तम्। भग्नशरीराणां चित्रेण यान-दुर्घटनायाः भीतिदचित्रेण वा जनानां मनसि विभ्रममुद्पातयन्तः दण्डमर्हति। तादृशचित्राणि चलनचित्रखण्डानि अश्लील चित्राणि च उद्प्रेषणीयाः अपराधिनः। तादृशान् ग्रहीतुं प्रत्येकं जिल्लायां पञ्च चत्वारिंशत् (४५) आरक्षकाः सज्जाः सन्ति।
क्रैस्तवानाम् अद्य 'ईस्टर्'
क्रैस्तवानाम् गुरोः क्रैस्ट् महाशयस्य पुनरुत्थानं स् मारयित्वा सर्वत्र विश्वे अद्य ईस्टर् आघुष्यते। आर्तरक्षामुद्दिश्य स्वजीवनं समर्पितवानयम्। स्वजीव: अपि दीनरक्षायै दादव्यम् इति महोत्सवस्य अस्य सङ्कल्पः।
कण्णूर् स्फोटनं -अपराधी ग्रहीतः।
कण्णूर् - केरले कण्णूर् जनपदे स्फोटकसामग्रीणां स्फोटनेन गृहाणि भञ्जितानि , ६ जनाः व्रणिताः इत्यस्मिन् विषये मुख्यापराधी चालाट् स्वदेशीयः अनूप् कुमारः आरक्षकैः ग्रहीतः ।
गतगुरुवारे अर्धरात्रौ एव कण्णूर् पोटिक्कुण्ट् राजेन्द्रनगर् सहनिवाससमीपे गृहे ग्रामभीतिदं महत्स्फोटनं जातम् । गृहे परिरक्षितानि ५ लक्षरुप्यकमूल्यपरिमितानि अत्युग्रस्फोटकवस्तूनि विस्फोटितानि । द्वितलाट्टशूल-गृहमेतत् पूर्णतया विशीर्णम् । तत्रस्थं कार् यानमपि भग्नमभवत् । समीपस्थानि पञ्च गृहाणि नाशितानि ।
अनूपेन सह वासं कुर्वत्यौ राहिला पुत्री हिबा च गुरुतरेण आहतेन चिकित्सालयं प्रवेशिते । ४ प्रातिवेशिका अपि स्फोटने व्रणिताः अभवन् ।
Saturday, March 26, 2016
दीनरक्षकेभ्यः शुभवार्ता ।
नव दिल्ली > आपदि पतितान् भीतिं विना साहाय्यं कर्तुम् आरम्भं कुर्मः । सज्जनान् प्रति कथं व्यवहर्तव्यः इति निर्दिशन्ती मार्गरेखा गतागत मन्त्रालयेन प्रकाशिता। चतुर्दशोत्तरद्विसहस्रतमस्य (२०१४) अत्युच्च न्यायालयस्य आदेशः तथा केन्द्रसर्वकारस्य मानदण्डान् च अनुसृत्येव अयं निदेशः। SP अथवा जिल्लास्तरीय उत्तरदायिनः निदेशः पालितः इति निश्चयं करणीयम्।
व्रणितान् तथा श्रान्तान् च यः साहाय्यं करोति सः आदरम् अर्हति। दुर्घटना दूर वाणी द्वारा ज्ञापितवन्तान् निर्बन्धतया साक्षीकरणं मा भवतु। इत्यादयः मर्यादा पूर्वकनिदेशाः अस्मिन् अन्तर्भवन्ति। अतः दयालुभ्यः जनेभ्यः भयं विना दीनजनसेवां कृत्वा स्वधर्मपालनं शाक्यते इति मोदाय भवति ।
बाधा अपनीता; जम्मू काश्मीरे मेहबूबा मुख्यमन्त्री भविष्यति।
श्रीनगर् जम्मुकाश्मीरे पि डि पि - भा ज पा सख्यम् अनुवर्तितुं प्रधानमन्त्रिणा नरेन्द्रमोदिना सह पिडिपि नेत्र्या मेहबूबावर्यया चालितायां चर्चायां निश्चितम् । राज्यस्य पि डि पि विधानसभापक्षनेतृरूपेण मेहबूबा चयिता ।
एतदनुसृत्य काश्मीरस्य प्रथमवनितामुख्यमन्त्री इति स्थानं तया प्राप्स्यते ।
तस्याः पितुः मुफ्ति मुहम्मद सयीदिवर्यस्य मरणानन्तरं मासत्रयं यावत् राज्ये राज्यपालशासनमेव वर्तते ।
हास्यकाथिकः वि डि राजप्पः दिवंगतः।
आकेरलम् उत्सवक्षेत्रेषु स्वेनैव क्रमीकृतैः पारडिगानैः हास्यकथनैश्च हाससफोटनपरम्पराः जनयामास। अनन्तरं ७५ परं चलच्चित्रेषु हास्यकथापात्राणि अवतार्य प्रोक्षकप्रीतिं संवर्धयामास।
Friday, March 25, 2016
दिनषष्ठ्यभ्यन्तरेणैव जनानां परिदेवनानि परिहर्तव्यानि- प्रधानमन्त्री
नवदिल्ली > सर्वकारस्य विविधविभागेभ्यः जनेभ्यः च लभ्यमानानि सेवनानि अधिकृत्य परिदेवनानि विद्यते चेत् षष्ठिदिनाभ्यन्तरेण परिहरणीयानि इति प्रधानमन्त्री नरेन्द्रमोदि वर्यः आदिष्टवान्। उन्नतोद्योगिभिः सह वीडियो कोण्फरन्सिङ् द्वारा कृते मेलने अयं निदेशः दत्तः। जनानां परिदेवनानि परिहर्तुं उद्योगिनः न तत्पराः इति विमर्शाः अजायन्त। सन्दर्भे अस्मिन् एतादृश निदेशः अजायत इत्यनेन जनानाम् आश्वासः।
प्रधानमन्त्रिणः प्रगतिः नाम अन्तर्जाल-परिदेवन-पञ्चीकरण द्वारा लभ्यमानानि सेवनानि अधिकृत्य लक्षाधिकानां परिदेवनानां परिहाराः , विना विलम्बं कर्तुम् इदानीम् उद्योगिनः निर्बद्धाः भवेयुः।
विनयस्य परसेवनस्य च सन्देशेन " पेसहा " आघुष्टा; अद्य विशुद्धशुक्रवासरः।
कोच्ची >विनयस्य साहोदर्यस्य सहिष्णुतायाः च सन्देशं प्रचार्य आभुवनं क्रैस्तवदेवालयेषु पेसहाचरणं सम्पन्नम् । मर्दितानां पीडितानां कृते स्वजीवत्यागस्य पूर्वस्मिन् दिने येशुदेवेन कृतं शिष्यपादप्रक्षालनं स्मारयित्वा सर्वेषु देवालयेषु पेसहाश्रेष्ठकर्माणि आचरितानि ।
परस्परप्रेम्णा निस्स्वार्थसेवनेन साहोदर्यभावनया च धर्माणां राष्ट्राणां भाषाणां च आधारे वर्तमानाः भिन्नताः अतिक्रमान् च दूरीकर्तुं शक्यते इति वैदिकश्रेठाः उद्बोधितवन्तः ।
मार्पापावर्यस्य नूतननियुक्त्यनुसारं वनितानां पादप्रक्षालनाचरणमपि विविधदेवालयेषु सम्पन्नम् । अद्य येशुदेवस्य क्रूशितमृत्युं स्मरन् देवालयेषु प्रार्थनाभरितकार्यक्रमाः प्रचलन्ति ।
योहान् क्रैफ् निर्यातः ।
बार्सलोण >होलण्ट राष्ट्रस्य पादकन्दुकक्रीडेतिहासः योहान् क्रैफ् (68) निर्यातः । अर्बुदरोगबाधिते तस्मिन् चिकित्सिते स्पेयिन् राष्ट्रे बार्सलोणायामेव तस्यान्त्यः।
महान् क्रीडकः श्रेष्ठः परिशीलकः च क्रैफ्वर्यः सम्पूर्णपादकन्दुकक्रीडा (total football) इति विप्लवात्मकक्रीडायाः उपज्ञाता भवति ।
क्रीडाङ्कणे प्रतिभासम्पन्नः घोरपादताटकः (striker) अप्रतिरोध्यः मध्यक्षेत्रीयः(midfielder) इति क्रीडाङ्कणे विराजितः सः त्रिवारं लोकपादकन्दुकक्रीडकः इति किरीटं लब्धवान् ।
Subscribe to:
Comments (Atom)































