OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, January 22, 2018

केरले ४५,००० कक्ष्याप्रकोष्ठानि उन्नतपारिभाषिकत्वं प्राप्नुवन्ति; उद्घाटनम् अद्य। 
        अनन्तपुरी >केरलराज्ये सार्वजनीनशैक्षिकसंरक्षणयज्ञस्य अनुबन्धतया कक्ष्याप्रकोष्ठानि उन्नतपारिभाषिकत्वं [Hi-Tech] प्राप्नुवन्ति। प्रथमसोपाने पञ्चचत्वारिंशत् सहस्रं प्रकोष्ठानि एतद्वैशिष्ट्याय सिद्धानि सन्ति। एतस्य औपचारिकमुद्घाटनम् अद्य अनन्तपुर्यां टागोर् नाट्यशालायां मुख्यमन्त्रिणा पिणरायि विजयेन क्रियते। तथा च एकलक्षं छात्राणां 'लिटिल् कैट्स्' [Little Kites] नामकस्य ऐ टि सङ्गमस्य उद्घाटनमपि सम्पत्स्यते। 
     ४५,००० कक्ष्याप्रकोष्ठेषु 'लाप् टाप्' , 'प्रोजेक्टर्' , 'स्पीक्कर्' , 'ब्राड् बान्ट' अन्तर्जालसुविधा इत्यादिसुविधाः आस्याम् आयोजनायां लप्स्यन्ते। ४७७५ विद्यालयाः Multifunctional printer, Digital camera, Television, Webcam, Surveylance system इत्यादीनि उपकरणान्यपि अध्ययनसुविधायै लभन्ते।
आम् आद्मी सामाजिकानाम् अयोग्यता - राष्ट्रपतिना अङ्गीकृता। 
              नवदिल्ली > आयकरं पदद्वयं युगपद्वहन्ति इत्यारोप्य दिल्लीशासनपक्षे विद्यमानानां २० आम् आद्मी दलसामाजिकानां अयोग्यतां कल्पयितुमुद्दिश्य निर्वाचनसंस्थया समर्पितम् आवेदनं राष्ट्रपतिना रामनाथकोविन्देन अङ्गीकृतम्। नियममन्त्रालयेन तदधिकृत्य विज्ञापना अपि प्रकाशिता।  षण्मासाभ्यन्तरे प्रस्तुतेषु २० मण्डलेषु उपनिर्वाचनं भविष्यति।

Sunday, January 21, 2018

यानचलकानां अश्रद्धया ११०१८ अष्टादशाधिक एकादश सहस्रं प्राणाः विनष्टाः।
         अनन्तपुरी> वाहनचालकानाम् अनवधानतया गत-संवत्सर-त्रयाभ्यन्तरेण अष्टादशाधिक एकादश सहस्रं  मनुष्याणां प्राणाः विनष्टाः। केरळ राज्यस्तरीय गणना भवति इयम् । अष्टादशशतं (१८००) गुरुतरया रीत्या क्षताः च इति आरक्षकाणां गणना
         अनया गणनया  इदानीं  अनुवर्तामानायाः यानचालकाध्ययने  पाठन-अभ्यास प्रणाल्याः अपर्याप्ततायाः  प्रमणमिति  वक्तुं शक्यते। यानचालक-परीक्षा कालानुसृतं परिष्कर्तुं यन्त्रयानविभागोन न उद्युक्तम्। यान चालने प्रथमस्तरे विद्यमानाः अपि परीक्षायाम्  उत्तीर्णतां प्राप्नुवन्ति। यानस्य चालनसमये चलदूरवाणीनाम् उपयोगः, मद्यं पीत्वा यानचालनं च यानादुर्घटनायाः मुख्यकारणत्वेन वदन्ति।

दिल्ल्याम् अग्निबाधा - १७ मरणानि।
      नवदिल्ली > उत्तरपश्चिमदिल्ल्यां बवाना उद्योगमण्डले ध्वनकनिर्माणशालायां सञ्जातायाम् अग्निबाधायां सप्तदश जनाः मृताः इति सूच्यते। दशानां मरणम् आरक्षकैः स्थिरीकृतम्। अनेके भवनान्तर्भागे निबद्धाः इति सन्देहः।
अमेरिक्कायाः सर्वकारवित्तकोशः पिहितः।
        वाषिङ्टण् > फेब्रुवरी १९ पर्यन्तं सर्वकारव्यवहारान् सञ्चालयितुम् उद्दिश्यमाणाय आयव्ययपत्राय सेनट् सभया अनुमतिः न दत्ता इत्यतः अमेरिक्कायाः सरवकारवित्तकोशः पिहितः। आयव्ययपत्रविधेयकं सभायां ४८ विरुद्ध्य ५० मतदानैः पराजितमभवत्। वित्तकोशस्य पिधानेन सर्वकारकार्यालयाश्य पिधातुमारब्धाः।
    चतुर्भ्यः वर्षेभ्यः पूर्वं समानः प्रतिसन्घिः अमेरिक्कायां सञ्जात आसीत्। बराक् ओबामा इत्यस्य शासनकाले २०१३तमे १६ दिनानि वित्तकोशः पिहितः भूतः।

Saturday, January 20, 2018

काश्मीरे द्वयोः सैनिकयोः वीरमृत्युः। 
            जम्मू > सीमायां पाक्सैन्यस्य भुषुण्डिप्रयोगे द्वौ भारतसैनिकौ वीरमृत्युं प्राप्तवन्तौ। एकः केरलीयः साम् एब्रहामः, अपरः उत्तरभारतीयः जग्पाल् सिंहश्च। साम् एब्रहामः मद्रास् रजिमेन्ट् विभागस्य लान्स् नायिक् पदस्थः अस्ति। जग्पालसिंहः बि एस् एफ् मध्ये प्रधानारक्षकः अस्ति। भारतसीमीयां सुन्दर्बनि प्रदेशे किमपि प्रकोपनं विनैव पाकिस्थानस्य सैन्येन भुषुण्डिप्रयोगः कृतः। इदानीं भारत-पाक् सीमा संघर्षभरिता वर्तते।
 आम् आदमीदलस्य  २० सामाजिकसदस्यान् अयोग्यान् कर्तुं केन्द्रनिर्वाचनसमित्या: आदेश:।
 -रम्या पि यु
             नवदिल्ली:>दिल्लीप्रशासकस्य आम् आदमीदलस्य प्रतिक्रियारूपेण २० ( विंशति:) सामाजिकसदस्यान् अयोग्यान् कर्तुं केन्द्रनिर्वाचनसमित्या: आदेश:। द्वन्द्वपदवीम् ऊढवत: अयोग्यान् कर्तुं निर्वाचनसमिति: राष्ट्रपतिम् अपेक्षिता। शुक्रवारे प्रात: आयोजितायां निर्वाचनसमित्या: सम्पूर्णयोगे एवं एष: निर्णय: स्वीकृत:। आन्तरिकस‌ङ्घर्षेण निर्मथ्यमानस्य ए ए पी नेतृत्वस्य उपरि महाप्रहर: एष: निर्णय:। संसदसभासचिवत्वेन अपि विराजितवन्त: एते द्वन्द्वपदवीं वहन्ति इति अवलोकनम् अनुवर्त्य एवं समित्या: निर्णय:। समित्या: निर्णयं विरुद्ध्य न्यायालयम् उपेष्यतीति आम् आदमी दल: असूचयत्।  किन्तु सप्तत्यङ्गसभायां षट्षष्टिअङ्गानाम् भूरिपक्षे सति विंशतीनाम् अयोग्यत्वेपि षट्चत्वारिंशदां सहमति: सर्वकारस्य रहते।
वर्तमाने सर्वासां समस्यानां समाधानं भगवद्गीतायामेव नाथूलाल सुमनः।
वार्ताहर: - दीपक शास्त्री
            जयपुरम्> गुरुवासरे १८/०१/२०१८ दिनाङ्के राजगङ्गा चेरिटेबल ट्रस्ट एवं राजकीय महाराज वरिष्ठोपाध्याय संस्कृत विद्यालय: इत्यनयो: संयुक्ततत्वावधाने गीता-पाठ-प्रतियोगितायाः आयोजनं राजकीय महाराज वरिष्ठोपाध्याय संस्कृत विद्यालये जातम्। प्रतियोगितायामस्यां पञ्चविंशति प्रतिभागिन: भागं गृहीतवन्त:। राष्ट्रियसंस्कृतसंस्थानस्य छात्र: सुखदेव शर्मा प्रतियोगितायां प्रथमं स्थानं प्राप्तवान्। दिल्ली-पब्लिक-विद्यालयस्य छात्रा रानिया सैन द्वितीयं स्थानं तथा स्थानीयविद्यालयस्य छात्र: कौशलेन्द्र जैमिनी तृतीयं स्थानं प्राप्तवान्। पारितोषिकरूपेण प्रथमस्थानस्य कृते एकत्रिंशत् शतं रूप्यकाणि, द्वितीयस्थानस्य कृते एकविंशतिशतं रूप्यकाणि, तृतीयस्थानस्य कृते एकादशशतं रूप्यकाणि पदत्तानि। 
                 कार्यक्रमे राज ट्रस्ट इत्यस्य संस्थापिका डॉ. राजेश्वरी भट्टमहोदया गीतायाः महत्त्वं प्रतिपादितवती। संस्कृत भारती जयपुरप्रांतस्य उपाध्यक्ष: श्री नाथूलाल सुमनमहोदयः उक्तवान् यत् वर्तमाने सर्वासां समस्यानां समाधानं गीतायामेव अस्ति। प्रो. ताराशंकर पाण्डेय महोदय: उक्तवान् यत् सुख-दुःखं वयं समत्वयुक्ताः भवेमः। संस्कृत भारती जयपुरप्रांतस्य अध्यक्ष: श्री हरिशंकर भारद्वाजमहोदयः उक्तवान् यत् गीता विश्वस्य सर्वश्रेष्ठ: ग्रन्थोस्ति। जयपुर महानगरस्य अध्यक्ष: श्री प्रकाश शर्मा महोदयः उक्तवान् यत् गीतायां  सकारात्मक विचाराणां समावेशोस्ति, ते विचाराः वर्तमाने लाभदायकाः सन्ति। निर्णायकरूपेण डॉ. सी. पी. शर्मा महोदयः, श्री के. के. शर्मामहोदयः एवं श्री सन्तोष कुमार शर्मामहोदयः आगतवन्तः। संस्था-प्रभारी डॉ. सन्तोष कुमार शर्मामहोदयः अध्यक्षीयभाषणे सर्वेषाम् अतिथिनां धन्यवादम् आभारञ्च प्रकटितवान्। मञ्चसञ्चालनं प्राध्यापक: डॉ. अवनेन्द्र डागर: एवं डॉ. देविलालशर्मामहोदयौ कृतवन्तौ।

Friday, January 19, 2018

29 वस्तूनां 54 सेवनानां च पण्य-सेवनकरः न्यूनीकृतः।
       नवदिल्ली>केन्द्रतल राज्यतल आर्थिकोपक्रमात् पूर्वं आयोजिते पण्यसेवनकरायोगस्य उपवेशने नवविंशतिः २९ वस्तूनां तथा चतुर्पञ्चाशत् (५४) सेवनानां सेवनकरः न्यूनीकर्तुं निश्चितः। पेट्रोलियं रियल् एस्टेट् मण्डलौ अपि पण्यसेवनकर नियमस्य परिधौ आनेतुं निश्चयः न अभवत्। द्वितीयस्वामित्षु वहनेषु उपयुज्यमानस्य जैवतैलस्य, मधुरापूपानां करः न्यूनीकृतः। नूतनः करादान क्रमः जनुवरिमासस्य पञ्चविंशति दिनाङ्कात् प्रबलं  भविष्यति। केचन कर्मस्य, क्रीडोद्यानप्रवेशस्य च करः न्यूनीकृतः अस्ति।
पेट्रोलियं उत्पन्नानां भूमिव्यापारस्य च कर स्वीकरणम् अधिकृत्य आगामि उपवेशने निश्चयः करिष्यते इति केन्द्रधनमन्त्रिणा अरुण् जैट्लीमहोदयेन उक्तम्।
त्रिपुरा, मेघालया, नागालान्ट् निर्वाचनम् उद्घोषितम्। 
               नवदिल्ली > त्रिपुरा, मेघालया, नागालान्ट् इत्येषां राज्याणां विधानसभानिर्वाचनस्य दिनाङ्काः प्रख्यापिताः। त्रिपुरायां फेब्रुवरी १८, मेघालयायां तथा नागालान्टे च फेब्रुवरी २७ तमे दिनाङ्के निर्वाचनं भविष्यति। त्रिषु राज्येष्वपि मतगणना मार्च् तृतीयदिने भविष्यति। मुख्यनिर्वाचनाधिकारी अचल् कुमार् ज्योतिः निर्वाचनप्रख्यापनं कृतवान्। त्रिष्वपि राज्येषु प्रतिपदं ६० स्थानानि प्रकारेण सन्ति।
संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥   
- रम्या पि यु
          नवदिल्ली> संस्कृतं पठति चेत् धिषणाशक्ति: वर्धते, बुद्धिश्च जागृता भवतीति मतिमुन्नीय गवेषणफलम्। धमनीशास्त्रज्ञ: जयिंस् हार्ट्सेल् एव एतत्सम्बद्धः लेखं 'सयन्टिफिक् अमेरिकन्स जर्णल्' मध्ये प्रसिद्धीकृतवान्। संस्कृतलेखनेन वाचनेन च चिन्ताशक्तिविकास: बुद्धिविकासश्च जायतेति परीक्षणानाम् आधारेण स: प्रस्तौति। हार्वार्ड् सर्वकलाशालाया: संस्कृतम् पठितवान् स:। इटल्या: ट्रेन्टो विश्वविद्यालयस्य  सहप्रवर्तका: हरियानाया: नाशनल् ब्रेयिन् रिसर्च् केन्द्रस्य डो तन्मयनाथ:, डोर नन्दिनी चाटर्जी च मिलित्वा अनुसन्धानं कृतवन्त:। शास्त्रीयरीत्या यजुर्वेदं पठितान् पण्डितानेव अनुसन्धानेषु समायोजयत्।
सर्वकारकोशगृहनियन्त्रणं निराकृतं - आर्थिकप्रतिसन्धिः लघूकृतः।
                   अनन्तपुरी > केरले सर्वकारवित्तकोशगृहेषु अनुवर्तमानम् आर्थिकनियन्त्रणं निराकृतम्। द्विसहस्रंकोटि रूप्यकाणि ऋणरूपेण सङ्कलितानि इत्यत एव धनप्रतिसन्धिः लघूकृत इति राज्यस्य वित्तमन्त्री डो. तोमस् ऐसक्कः उक्तवान्। पञ्चकोटिरूप्यकाणाम् आर्थिकव्यवहारेषु परं नियन्त्रणं न भविष्यति।

Thursday, January 18, 2018

दिल्लीस्थसर्वकार विद्यालयेषु CCTV उपयुज्य दृश्यानि तत्समय-प्रसारणं कुर्वन्ति।
               नवदिल्ली> रक्षाकर्तृभ्यः विद्यालयस्य प्रवर्तनानि यथाकालं दृष्टुम् दिल्लीस्थसर्वकार विद्यालयेषु CCTV उपयुज्य दृश्यानं  तत्समय-प्रसारणं दृष्टुं रक्षाकर्तारः प्रभवेयुः। दिल्लीमुख्यमन्त्रिणा अरविन्द्‌केजरिवाल् महोदयेन ख्यापितम्। सर्वेषु सर्वकारीय विद्यालयेषु मासत्रयाभ्यन्तरेण छायाग्राही स्थापयिष्यते इत्यपि तेन उक्तम्। सर्वेषां रक्षा कर्तॄणाम् स्वस्य अपत्यस्य कक्ष्याप्रकोष्टः समर्थदूरवाणि द्वारा दृष्टुं शक्यते। विद्यार्थिनां सुरक्षायाः भागतया एव अयं प्रक्रमः। गुड्गावस्य वैयक्तिक विद्यालये सप्तवयस्कस्य निधनस्य कारणतया एव इयं सुराक्षा प्रक्रमः। विद्यालय-सुराक्षानुबन्धतया आयोजितः विशेषावलोकनो पवेशनानान्तरमेव आसीत् मुख्यमन्त्रिणः  इदं प्रख्यापनम्।
अतिशैत्येन हिमकणानि पक्ष्मणोः अपि घनीभूतानि। तापमानं -६२ं
       ओम्याकोणः> भूम्यां जनावासप्रदेशेषु अति शैत्यम् अनुभूयमानं भवति सैबीरिया। सैबीरिया देशस्थ ओम्याकोणस्य तापमानः -६२ डिग्री इति न्यूनीभूतः अभवत्। पक्ष्मणोः अपि हिमकणानि घनीभूतानि इत्यस्य प्रमाणत्वेन सामूहिक माध्यमेषु अपि तैः चित्राणि प्रकाशयन्।  तापमानस्य  न्यूनता सामान्य तापमापिन्यः भग्नान्यभवन्। तदा विद्युत्मापिनीम् उपयुज्य मापनं कृतम् । तदा न्यूनतापमानः -६२डिग्री  सेल्स्यस्  इति ज्ञातम् इति सैबीरियस्थ वार्ता पत्रिकया आवेदितम्।
ऐ एस् एल् पादकन्दुकस्पर्धायां केरला ब्लास्टेर्स् पराजितम्।
जम्षट्पूर् > ऐ एस् एल् पादकन्दुकसपर्धापरम्परायां केरला ब्लास्टेर्स् दलं जम्षट्पूर् दलेन पराजितम्। एकं विरुद्ध्य लक्ष्यकन्दुकद्वयेनैव केरलस्य पराजयः।

Wednesday, January 17, 2018

हज्ज् धनानुकूल्यम् अवस्थापितम्।
        नवदिल्ली > भारतस्य  हज्ज्तीर्थाटकेभ्यः कृते दीयमानं धनानुकूल्यं [Subsidy]  अवस्थापयितुं केन्द्रसर्वकारेण निर्णीतम्। अस्मात् वर्षादारभ्य  तीर्थाटकाः धनसाहाय्यं न लभन्ते। केन्द्रस्य न्यूनपक्षक्षेममन्त्रिणा मुख्तार् अब्बास् नख्वि वर्येण इदं वृत्तान्तं स्थिरीकृतम्।
     साहाय्येन विनियुक्तं धनं इस्लाममहिलानां क्षेमाय तथा मुस्लीं बालिकानां अध्ययनकार्याय उपयोक्तुमेव सर्वकारस्य पर्यालोचना। शासनानुशासनपीठस्य २०१२ तमवर्षस्य आदेशमनुसृत्यैव अयं निर्णय इति मन्त्री प्रवोचत्। प्रीणनं विना अभिमानेन न्यूनपक्षशक्तीकरणमिति सर्वकारलक्ष्यमेवानेन उद्दिश्यते -  नख्विना स्पष्टीकृतम्।
मुम्बई उदग्रयानदुरन्तः - वैमानिकस्य मृतशरीरं सन्दृष्टम्।
          मुम्बई > ओ एन् जि सि संस्थायाः उदग्रयानदुरन्ते अन्तर्भूताः सप्त जना अपि मृताः इति स्थिरीकृतम्। दुर्घटनानन्तरं संवृत्ते अन्वेषणे सप्तमं मृतशरीरमपि सन्दृष्टम्। वैमानिकस्य 'वि सि कटोच्चे' नामकस्येदं शरीरमिति प्रत्यभिज्ञातम्। गतशनिवासरे एव मुम्बई समीपे समुद्रे उदग्रयानं पतितम्।
आत्मरक्षार्थं निलीयमानः अभवदिति प्रवीण् तोगाडिया।
      अहम्मदाबाद् > भा ज दलस्य शासने वर्तमानयोः राजस्थान् गुजरात् राज्ययोः आरक्षकदलेन आत्मानं संघट्टनेन अवसादयितुम् उद्यमः कृत इति विश्वहिन्दुपरिषदः अन्ताराष्ट्र कर्माध्यक्षः प्रवीण् तोगाडिया वार्ताहरसम्मेलने आरोपितवान्।
      केषुचित्पुरातनव्यवहारेषु निबन्धनादेशमनुसृत्य परिषदः कार्यालयं प्राप्तमारक्षकबलं वञ्चयित्वा गतदिने गूढगमनं कृतवन्तं तोगाडियावर्यं रात्रौ विवशः सन् आतुरालयं प्रवेशितः आसीत्। आतुरालये संवृत्ते वार्ताहरसम्मेलने आत्मानं विरुद्ध्य गूढालोचना वर्तते इति तेन आरोपितम्।
मध्यप्रदेशस्य मुख्यमन्त्रिणा शिवराजसिंहचौहानेन सुरक्षाकर्मिणोपरी चपेटिकाप्रहार: कृत:
मध्यप्रदेशस्य मुख्यमन्त्रिणा शिवराजसिंहचौहानस्य  सुरक्षाकर्मिणोपरी चपेटिकाप्रहारस्य कथितदृश्यांकनं प्रसरति ।  सरदारपुरायां नैर्वाचनिकजनसभावसरे सुरक्षाकर्मिणे चपेटिकाप्रहारस्य छायाचित्रं यन्त्रे सञ्चितम् । तेन चपेटिकां प्रददता सुरक्षाकर्मी मार्गात् पृथक्कृत: । घटनेयं प्रदेशस्य राजनीतौ चर्चाविषयमुपगता । मध्यप्रदेशे कांग्रेसदलस्यस्य प्रमुखप्रवक्ता केके मिश्रेण  मुख्यमन्त्रिणं विरुध्य 332 अथ च 353 विध्यन्तर्गतं कार्याचरणम् अध्यर्थितम् । अपि चोक्तं यत् दायित्वनिरतेन कर्मचारिणा सह दुर्व्यवहार: अपराधो वर्तते।
Episode 73

Tuesday, January 16, 2018

इन्धनतैलस्य निश्शब्दमूल्यवृद्धिः। 
         कोच्ची > पेट्रोल् डीसल् इत्यादीन्धनतैलानां मूल्यं प्रतिदिनं निश्शब्दं वर्धते। अस्य मूल्यवर्धनस्य अनुरणनानि नित्योपयोगवस्तूनां मूल्यवर्धनरूपेण सामान्यजनानां जीवनक्रमे तालभङ्गं कारयति।  पेट्रोल् तैलस्य मूल्यं गतेषु चतुर्षु संवत्सरेषु उन्नततमं  प्राप्तमस्ति। डीसल् तैलस्य मूल्यं इतःपर्यन्तम् अत्युन्नतं प्राप्तम्। डिसम्बर् २९ दिनाङ्कादारभ्य दिनंप्रति पेट्रोल् तैलस्य १२ पैसा , डीसल् तैलस्य २० पैसा क्रमेण वृद्धिः जायते। राजनैतिकदलनेतारः शासनपक्ष-विपक्षभेदं विना अन्धतां नाटयन्ति। इन्धनतैलस्य प्रतिदिनमूल्यनिर्णयरीतिः २०१७ जूण् १६ दिनाङ्कादारभ्य एव प्रावर्तिकमभवत्।

Monday, January 15, 2018

इस्रायेल् प्रधानमन्त्री भारतसन्दर्शनाय प्राप्तः। 
      नवदिल्ली > षड्दिवसीय भारतसन्दर्शनाय इस्रायेलराष्ट्रस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहू वर्यः भारतं प्राप्तवान्। भारतप्रधानमन्त्री नरेन्द्रमोदी साक्षादागत्य नवदिल्ली विमानपत्तनं सम्प्राप्तं नेतन्याहुवर्यं स्वीकृतवान्। २००३ तमे वर्षे एरियल् षारोण् वर्यस्य आगमनानन्तरं इदानीमेव इस्रयेल् प्रधानमन्त्रिणः भारतसन्दर्शनं सम्पद्यते। 
     कृषिः, साङ्केतिकविद्या, शास्त्रं, बहिराकाशः, जलं, संरंभकत्वम् इत्यादिविषयेषु परस्परसहयोगमधिकृत्य चर्चा भविष्यतीति विदेशकार्यमन्त्रालयवक्ता अब्रवीत्। १३० अङ्गसंघैः सह एव नेतन्याहुवर्यस्य भारतपर्यटनम्। गुजरात् मुम्बई प्रदेशेषु अपि तस्य सन्दर्शनं भविष्यति।

Sunday, January 14, 2018

विद्यालयस्तरादारभ्य योगः अध्येतव्य इति केन्द्रविभावनम् – मन्त्री श्रीपादः। 
               कोच्ची > विद्यालयस्तरादारभ्य योगशास्त्रं पाठ्यविषयत्वेन स्वीकरणीयमिति केन्द्रसर्वकारस्य नयः इति केन्द्र आयुष्मन्त्रिणा श्रीपाद यशोनायिक् वर्येणोक्तम्। कोच्चीमध्ये 'पतञ्जलि योग ट्रयिनिंग् आन्ड् रिसर्च् सेन्टर्' संस्थायाः "नमामि योगम् २०१८" नामकं साधकसङ्गमं योगपैतृकपुरस्कारसमर्पणं च उद्घाटनं कुर्वन् भाषमाण आसीत् केन्द्रमन्त्री। 
               योगशास्त्रस्य अधिकप्रचाराय प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रयत्नः केन्द्रमन्त्रिणा संस्तुतः। सज्जीवनस्य मार्गः एव योगपरिशीलनेन सिद्ध्यति। मारकरोगान् प्रतिरोद्धुं च योगानुशीलनेन साध्यते इति तेनोक्तम्।
तैल-प्रकृतिवातकनिगमस्य उदग्रयानं समुद्रे पतित्वा ५ मृताः , द्वावदृष्टौ। 
        मुम्बई > तैल-प्रकृतिवातकनिगमस्य [ओ एन् जि सि] अधीशत्वे वर्तमानम् उदग्रयानं विशीर्य समुद्रे पतितम्। निगमस्य पञ्च वरिष्ठाधिकारिणः तथा द्वौ वैमानिकौ उदग्रयानमुपस्थिताः आसन्। तेषु पञ्चानां मृतदेहाः लब्धाः। केषां मृतशरीराणीति स्थिरीकरणं न लब्धम्। 
       मुम्बय्यां जूहू तटात् 'मुम्बई है'स्थं तैलखनन-पर्यवेषणकेन्द्रं प्रति प्रस्थितं पवनहंसनामकम् उदग्रयानं शनिवासरे प्रभाते सार्धत्रिवादने एव प्रभञ्ज्य समुद्रे अपतत्। दुर्घटनाविधेयेषु त्रयः केरलीयाः सन्ति। ते ओ एन् जि सी संस्थायाः उत्पादनविभागे उपमहाप्रबन्धकाः आसन्।

Saturday, January 13, 2018

 युगेऽस्मिन् संस्कृतक्षेत्रात् भविष्यति नवविवेकानन्दः , - डाँ. के.साम्बशिवमूर्तिः
वार्ताहरः - दीपक शास्त्री

       जीवने सर्वदा स्वामीविवेकानन्दस्य इव आचरणं कर्तव्यपालनम् च करणीयम्। गुरुं प्रति निष्ठावन्तःभवेयु:। नवभारतस्य निर्माणे संस्कृतशिक्षकाणां संस्कृतछात्राणां च मुख्यं दायित्वं वर्तते। युगेऽस्मिन् संस्कृतक्षेत्रात् भविष्यति नवविवेकानन्दः इति डॉ साम्बशिव मूर्तिना  उक्तम् । जगद्गुरु रामानन्दाचार्य राजस्थानसंस्कृत विश्वविद्यालये जनवरी मासस्य द्वादश  दिनांके स्वामीविवेकानंदस्य एकशताधिक पंचपंचाशत् जयन्त्या: उपलक्ष्ये कार्यक्रमस्य आयोजने अध्यक्षभाषणं कुर्वन्  आसीत्  सः।  विशिष्टातिथि: व्याकरण विभागाध्यक्ष: डॉ प्रमोदशर्मणा उक्तं यत् चरित्रनिर्माणम् एव जीवनस्य निर्माणं वर्तते जीवने चरित्रस्य मूल्यं महत्वपूर्णमस्ति उत्तमेन चरित्रेण वयं जीवने सर्वस्वं प्राप्तुं शक्नुम: अस्मिन् अवसरे सारस्वतातिथि: अशोकतिवारी महोदयेन  उक्तं यत् यदा अस्माकम् इच्छा विवेकानंदस्य सदृशी भविष्यति  तदा अस्मान् रामकृष्णपरमहंस: सदृश: गुरो: प्राप्तिर्भविष्यति । भारतीयाः स्वकीयाध्यात्मबलेन विश्वं जेतुं प्रभवन्ति । मानवदेहस्य  मुख्य-तत्वानि ज्ञातृत्व मन्तृत्व कर्तृत्वानि सन्ति। अनन्तरं मुख्यवक्ता डॉ विनोदशर्मणा उक्तं यत् हिंदूधर्म: अतीव समुन्नत:। हैन्दवाणां सभ्यता अतीव समृद्धास्ति सर्वेषां जनानां दायित्वं अस्ति यत् स्वामीविवेकानन्दः येन प्रकारेण अस्माकं संस्कृति वैश्विकस्तरे प्रतिष्ठापिता ।   भारत: विश्वगुरु: स्यात् अतः वयं कटिबद्धाः भवेम:। अनन्तरं कार्यक्रमे विभागीय  छात्रः मोहित: पूनम् शाक्य घनश्यामः शिवानी शर्मा  भूपेश चौबीसा जुगलव्यास: चंद्रहंसः अमित कुमार झा दीनदयाल: मोहनः लोकेशःदेवन्द्रः निखिलादयः स्वकीय विचारान् अप्रकटयन्। सर्वेषाम् विभागाणां शिक्षकवृंदा: छात्रा:कार्यक्रमे समुपस्थिता: आसन्। मंच संचालनम् विभागीयछात्रौ आशीषगजेन्द्रौ कृतवन्तौ।