OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, January 8, 2020

१२ दिनानाम् आर्द्रामहोत्सवः समारभ्यते।


१२ दिनानाम् आर्द्रामहोत्सवः
सुप्रसिद्धं तिरुवैराणिकुळं महादेवमन्दिरम् आर्द्रामहोत्सवाय समुद्घाटियिष्यते। प्रति संवत्सरम् आद्रा नक्षत्रात् १२ दिनानि एव भवन्ति पार्वती मन्दिरस्य समुद्घाटनम् इत्यस्ति अत्रत्‍याः विशेषता| केरले एरणाकुलं जनपदे आलुवादेशस्य प्रान्ते पूर्णानद्याः तीरे भवति मन्दिरमिदम्। पार्वती परमेश्वरौ अत्र विपरीमुखौ भूत्वा वर्तेते। गृहस्थाश्रमं प्रवेष्टुं तत्पराः युवत्यः युवानश्च स्वस्य अभीष्टस्य सफलतायै अत्र आगत्य जगदम्बायाः पार्वत्याः पुरतः कैशेयं तालिः च समर्प्यते चेत् एकसंवत्सराभ्यन्तरेण विवाहः भविष्यति इत्यस्त्ति विश्वासः। राज्यान्तरादपि जनाः आगच्छन्तिl www.thiruvairanikkulamtemple.org

Tuesday, January 7, 2020

डोणाल् ट्रम्पस्य शिरश्च्छेदाय ८ कोटि डोलर् धनम् इरानेन प्रख्यापितम्
    तेह्रान्> अमेरिक्कस्य राष्ट्रपतेः  शिरोलवनम् उद्दिश्य इरानेन ८ कोटि डोलर् धनं  प्रख्यापितम्। अमेरिक्कस्य अग्निबाणेन हतस्य खासिं सुलैमानि इत्यस्य  मरणानन्तरक्रियायाः मध्ये आसीत् इरानस्य प्रख्यापनम्। ड्रम्पस्य आज्ञानुसारं भवति सुलैमानी इत्यस्य वधः इत्यासीत् आवेदनम्। इरानस्य यःकोऽपि वा भवतु ट्रम्पं हन्ति सः ८ कोटिमितं डोलर् धनम् अर्हति।  मरणानन्तरक्रियायाः सन्दर्भे इरानस्य सैनिकनिर्देशकेन प्रख्यापितम् इति अन्ताराष्ट्र वार्तामाध्यमेन  आवेदितम्। जनुवरिमासस्य तृतीय दिनाङ्के उषसि अमेरिक्कस्य अनिबाणाक्रमणेन सुलैमानि हतः आसीत्।

Monday, January 6, 2020

अमेरिक्क-इरान् देशयोः कलहे आशङ्कां निवेद्य भारतम्।
-के.वि.रजीष्
      नवदहली> अमेरिक्क-इरान् देशयोः मध्ये सञ्जाते कलहे भारतस्य आशङ्कां   विदेशकार्यमन्त्रालयेन निवेदितम्। इरानदेशस्य विदेशकार्यमन्त्रिणा जवाद्‌ सारिफेण सह कृते दूरवाणीसम्भाषणे भारतस्य विदेशकार्यमन्त्री एस् जयशङ्कर् महोदयः विषयेऽस्मिन् भारतस्य आशङ्कां न्यवेदयत्। गतदिने अमेरिक्कस्य व्योमाक्रमणे इरानस्य सैनिकप्रमुखः खासि सुलैमानिः अन्ये पञ्च सैनिकाश्च मृताः आसन्। ततः तयोः राष्ट्रयोः मध्ये कलहः मूर्च्छितः च। विषयमिमं युद्धभीत्या एव विश्वराष्ट्राणि निरीक्षन्ते। एवमेव कलहेनानेन तैलोत्पादनमण्डले जाता समस्या भारतमपि प्रतिकूलतया बाधते इति भारतस्य पेट्रोलियं मन्त्री धर्मेन्द्रप्रधान् महोदयः अवदत्।
विश्वस्य वृहत्तमं नूतनं पुष्पं दृष्टम्।
   सुमात्र> रफ्लेष्य इत्याख्यस्य पुष्पस्य बृहत्तमम् आकारयुक्तं पुष्पं दृष्टम्। पुष्पस्य व्यास: 111 से.मी. अस्ति। पूर्वस्मिन् कालेषु उत्पन्नेषु  आकारः 107 से. मी. आसीत् इति प्रमाणितम्। पुष्पस्य आयुः सप्ताह-पर्यन्त-मात्रमस्ति। पश्चिमसुमात्रस्य वनात् एव पुष्यं दृष्टम्। पुष्पस्य भारः सामान्येन 15 कि.लो मितं भवति। १९ शताब्दे ब्रिट्टणस्य सर् स्टां फोर् ड्रफल् साम् इत्याख्येन पुष्पं प्रत्यभिज्ञातम्। तदनन्तरमासीत् 'रफ्लेष्या' इति नामकरणम्।

Sunday, January 5, 2020

एयर् इन्ट्य - सेवासम्बन्ध विशदीकरणेन सह अध्यक्षः।
-के.वि.रजीष्
       नवदहली> एयर् इन्ट्य सेवनं पर्यवसति इति वार्ता विश्वासरहिता भवति इति संस्थायाः अध्यक्षः अश्वनि लोहानिः। एवमेव संस्थायाः आर्थिकमूल्यानां विक्रयसम्बन्धवार्ता अपि न युक्ता इति सः अवदत्। एयर् इन्ट्य विभागात् वैमानिकसेवनम् अनुस्यूततया सर्वेभ्यः जनविभागेभ्यः लभ्यते इत्यपि सः ट्विट्ट् सामाजिकमाध्यमद्वारा असूचयत्।
क्षौरिकस्य आपणे ग्रन्थालयः। पिपठिषुभ्यः क्षुरकर्मणि  प्रतिशतं ३० इति कर्तनशुल्के न्यूनता। 
चित्रम् - मातृभूमिः प्रादेशिकपत्रतः
    चेन्नै>पिपठिषुभ्यः क्षुरकर्मणि  प्रतिशतं ३० इति कर्तनशुल्के न्यूनता भविष्यति। चेन्नैराज्यस्थे तूत्तुक्कुटि नगरतः भवति इयं विशेषवार्ता। अस्मिन् नगरेविद्यमाने क्षौरिकस्य आपणतः (सुशील कुमार ब्यूटी सलूण्) भवति एतादृशं ख्यापनम्। क्षौरिकस्य नाम पोन् मारियप्पन् इति।  अस्य क्षौरिकापणे १००० पुस्तकानां ग्रन्थालयः वर्तते। ये ग्रन्थपठनं कुर्वन्ति तेषां कृते क्षुरकर्मणि  प्रतिशतं ३० इति कर्तनशुल्के न्यूनता भविष्यति। पठितान् ग्रन्थानधिकृत्य टिप्पणि लिखित्वा दीयते चेत् मूल्ये न्यूनता अधिकतया भविष्यति। चलदूरवाणीतः पुस्तकवाचनाय जनान् प्रेरयतुमुद्दिश्य भवति प्रक्रिया इति  पोन् मारियप्पन् महोदयेन उक्तम्। धनाभावेन अष्टम्यां कक्षायाम्  अध्ययनम्  स्तगितम्। किन्तु पुस्तकाध्यानस्य  प्राधान्यम् एषः  समीचीनतया अवगतवान्। 

Saturday, January 4, 2020

उत्तरखण्ड-संस्कृत-अकादम्यां संस्कृतेन एव संभाषणम्l
-डा.घनश्याम भट्टः
    हरिद्वार> उत्तरखण्ड-संस्कृत-अकादम्यां  जनवरि २६ दिनाङ्कतः  संस्कृतसंभाषणम् अनिवार्यं भविष्यति। तदर्थं कर्मचारिभ्यः छात्रेभ्यः च  विशेषसंस्कृत-संभाषण-कार्यशालायाः आयोजनं  भविष्यति संस्कृत-अकादम्याः सचिवः डा.आनन्द भारद्वाजः कथयति यत् संस्कृतस्य दैनन्दिन-व्यवहारे प्रयोगार्थं एतादृशाः उद्यमाः करणीयाः। भारद्वाजः कथयति, विदुषां समूहः एकैकस्य ग्रामस्य अधिग्रहणं कृत्वा अखिलेऽपि ग्रामं प्रशिक्षणं प्रदाय संस्कृत-ग्रामस्य निर्माणं करिष्यति इति। 

Friday, January 3, 2020

उदग्रयानदुर्घटनया  ताय्वानस्य सैनिकाध्यक्षः अन्ये सप्तजनाः मारिताः। 
  ताय्पेयि> उदग्रयानं पतित्वा ताय्वानस्य सैनिकाध्यक्षः अन्ये सप्तजनाः च मारिताः। गुरुवासरे  प्रभाते पर्वतप्रदेशे डयमाने सन्दर्भे असीत् 'ब्लाक् होक्' इत्यस्य‌ उदग्रयानस्य पतनम्। सेनाध्यक्षः षेन् यि मिङ् अन्ये सप्त सैनिक उद्योगिनः च दुर्घटनया व्यापादिताः इति मध्याह्ने व्योमसेनानिर्देशकेन उक्तम्।  जनुवरिमासस्य ११ दिनाङ्के  राष्ट्रपतिः तथा शासनसभाङ्गानां  पदेभ्यः  च निर्वाचन-प्रक्रमान् प्रचाल्यमाणे  सन्दर्भे आसीत् इयं दुर्घटना।

Thursday, January 2, 2020

चान्द्रयानम् ३ - केन्द्रसर्वकारस्य अनुमतिः।
के.वि.रजीष्.
       नवदहली > ६०० कोटि रुप्यकाणां व्ययं प्रतीक्षमाणस्य चान्द्रयानम् तृतीयस्य कृते केन्द्रसर्वकारस्य अनुमतिः।चान्द्रयानम् २ मध्ये जातानां समस्यानां परिहारपूर्वकं भविष्यति चान्द्रयानम् ३ तमस्य विक्षेपणम् इति इस्रो (ISRO) अध्यक्षः के.शिवन् महोदयः अवदत्। ६०० कोटि रुप्यकाणां नूतनपद्धत्यै १४-१६ मासात्मककालः अपेक्षितः इति सः असूचयत्। केन्द्रसर्वकारस्य अनुमतिपूर्वकं पद्धत्याः प्रारम्भप्रवर्तनानि आरब्धानि, २०२१ तमे वर्षे चान्द्रयानम् ३ विक्षेपयोग्यं भविष्यति इत्यपि के.शिवन् वार्तामेलने न्यवेदयत्।

Wednesday, January 1, 2020

बाग्दाद् दूतावासे आक्रमणम्- इरानाय अन्तिमसूचनां प्रदत्तवान् ट्रम्पः।
       वाषिङ्टण्> इराखस्थं बाग्दाद्  दूतावासाक्रमणम्  अनुबन्ध्य अमेरिक्कस्य राष्ट्रपतिः इरानाय अन्तिमसूचनां प्रदत्तवान्। अमेरिक्कस्य एकस्यापि उद्योगिने लघुक्षतः वा भविष्यति तर्हि  इरानेन एतस्य कृते अति  मूल्यं व्ययं करणीयम् भविष्यति इति भवति ट्रम्पेण कृता अन्तिमसूचना। इराखे जायमाने विमतानां समराय इरानेन साहाय्यं क्रियते इति अमेरिक्केन पूर्वमेव अरोपितम् आसीत्I 
आधारपत्र-सम्मदिदायक-प्रत्यभिज्ञापत्रयोः परस्परबन्धनं नियममन्त्रालयस्य परिगणनायाम्।
-के.वि.रजीष्
        नवदहली> द्वित्वसम्मतिदानं दूरीकृत्य सम्मतिदायकपट्टिकायाः परिष्करणं केन्द्रनियममन्त्रालयेन उद्दिश्यते। तदर्थम् आधारपत्रस-म्मतिदायक-प्रत्यभिज्ञापत्रयोः परस्परबन्धनम् इति निर्देशः केन्द्रनिर्वाचकसमित्या केन्द्रनियममन्त्रालयं प्रति दत्तः वर्तते। बहोः कालादेव केन्द्रनिर्वाचकायोगेन एतस्मिन् विषये निवेदनं क्रियमाणं वर्तते, किन्तु निर्बन्धबुद्ध्या आधारपत्रस्य संस्थापनं न करणीयम् इति उच्चतरन्यायालयस्य शासनात् विषयेऽस्मिन् केन्द्रसर्वकारेण कोऽपि निर्णयः न स्वीकृतः। तथापि जनप्रातिनिध्यनियमं परिष्कृत्य नूतननियमनिर्माणद्वारा आधारपत्र-सम्मतिदायक-प्रत्यभिज्ञापत्रयोः परस्परबन्धनं करणीयम् इत्येव केन्द्रनिर्वाचकायोगन गते आगस्त्मासे निवेदितमासीत्। विषयेऽस्मिन् अधुना चर्चाः अग्रेसरन्त्यः वर्तन्ते इति नियममन्त्रालयात् सूचना आगता भवति। एतावता राष्ट्रे १२३ कोटि जनेभ्यः आधारपत्रवितरणं कृतं वर्तते। तेषु ३५ कोटि जनाः १८ वयसः अधः वर्तन्ते। २०१९ तमस्य वर्षस्य लोकसभानिर्वाचनवेलायां सम्मतिदायकपट्टिकायां ९० कोटि सम्मतिदायकाः आसन्। किन्तु अधुना राष्ट्रस्य जनसंख्या १३३ कोटिः भवति। एषु प्रायः १०कोटि जनेभ्यः अधुनापि आधारपत्रं न वर्तते इत्येतत् मुख्या समस्या एव।
 संस्कृताभियानम् 
-प्रा. डॉ. विजयकुमार: मेनन्, 
    नमांसि, अस्माभिः संस्कृतकार्यकर्तृभिः कायेन वाचा मनसा च कार्यं करणीयम्। यस्य मनः कार्ये संलग्नं न स्यात् सः अचिरात् एव कार्यात् निवृत्तः भवेत्। अतः कार्ये मनोयोगः सर्वप्राथम्यं भजति। कायेन प्रवृत्तः अपि जनः कदाचित् वाचा अन्यविधव्यवहारमेव दर्शयेत्। सुहृदां पुरतः, अभिमानिनां पुरतः, नूतनानां पुरतः वा अपभाषणं यत् क्रियते तत् एतमेव अंशं निदर्शयति। 'एतत् कार्यमेव मम जीवितलक्ष्यम्' इति वदन्तः अपि जनः कदाचित् कायेन प्रवृत्तिं दर्शयन्ति विरलतया एव। कायेन वाचा च कार्ये प्रवृत्तानां केषाञ्चित् मनः तु अन्यदेव चिन्तयत् भवेत्। एकैकस्यापि उदाहरणानि अस्मान् परितः एव द्रष्टुं शक्यानि। मित्राणि, अतः कार्ये कायस्य वाचः मनसः च योगः सर्वदा यथा स्यात् तथा जागरूकता वोढव्या। ' सर्वेभ्यः आङ्गलनववर्षस्य नैकाः शुभकामनाः' 
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्।

Tuesday, December 31, 2019

आधारपत्र-आयकरपत्रयोः बन्धनम् - अन्तिमदिनाङ्कः परिवर्तितः।
 - के.वि.रजीष् 
           नवदहली > आधारपत्र-आयकरपत्रयोः बन्धनाय अन्तिमदिनाङ्कः डिसम्बर् ३१ तः २०२० मार्च ३१ इति परिवर्तितः।आयकरविभागेन एतत्सम्बन्ध्य विज्ञापनं प्रकाशितम्।आधारपत्र-आयकरपत्रयोः बन्धनं सम्बन्ध्य अष्टमं परिवर्तनं भवदितम्। मार्च ३१ दिनाङ्काभ्यन्तरे बन्धनं न कृतं चेत् आयकरपत्रं असाधुः भविष्यति इति आयकरविभागः सूचयति।
बिपिन् रावत् प्रथमः भारतस्य मुख्यप्रतिरोधकार्यकर्ता (CDS)
     -के.वि.रजीष्।
    नवदहली>भारतस्य  भूतलनाविकव्योमसेनानां मुख्यकार्यकर्तृत्वेन बिपिन् रावत् चितःवर्तते।  भूतलसेनाध्यक्षस्थानात् सः अद्य विरमति। ततः सः नूतनं दायित्वं स्वीकरिष्‍यति। इतःपरं त्रयाणां सेनाविभागानाम् एकीकरणं बिपिन् रावत् महोदयस्य कर्तव्यं भवति। प्रतिरोधमन्त्रिणः मुख्यः सैनिकोपदेष्टा अपि बिपिन् रावत् भवति।

Monday, December 30, 2019

अमिताभ् बच्चन् महोदयः दादा साहेब् फाल्के पुरस्कारेण सम्मानितः।
-के.वि.रजीष् 
       नवदहली> हिन्दीसिनेमामण्डलस्य वरिष्ठः अभिनेता अमिताभ् बच्चन् महोदयः दादा साहेब् फाल्के पुरस्कारेण सम्मानितः। राष्ट्रपतिभवने सम्पन्ने आदरणसमारोहे राष्ट्रपतिना रामनाथकोविन्द् महोदयेन पुरस्कारः दत्तः। सिनेमामण्डले पञ्चाशत् वर्षाणां पूर्तीकरणवेलायाम् अनेन सर्वोत्तमपुरस्कारेण आदृतः इत्येतत् मधुरतरमेवेति प्रतिवचनवेलायां बच्चन् महोदयः अवदत्। अभिनयजीवने बच्चन् महोदयः चतुर्वारं देशीयपुरस्कारेण आदृतःवर्तते। एवमेव राष्ट्रं प्रति तेन कृतानि योगदानानि पुरस्कृत्य पद्मश्री, पद्मविभूषण्,पद्मभूषण् इत्यादिभिः प्रमुखैः पुरस्कारैरपि अयं महाशयः राष्ट्रेण आदृतः वर्तते।
उत्तरभारतम् अतिशैत्येन कम्पते।
अतिजाग्रतायाः सूचना प्रख्यापिता।
    नवदिल्ली>  शतवर्षाभ्यन्तरे समागतात् अधिकशैत्यं भवति अस्मिन् वर्षे। पञ्चदशदिनानि यावत् क्रमानुगतरीत्या अन्तरिक्षोष्‌णः न्यूनः भवति। अतीवशैत्यः इति हेतोः पर्यावरणविभागेन दिल्यां शोणजाग्रता प्रख्यापिता अस्ति। उत्तरभारतस्य अन्ये राज्याः अपि शैत्यपीडायां वर्तन्ते। 
      दिल्यां २.८° सेल्स्यस् भवति भानुवासरस्य न्यूनतमं तापमानम्। १९१९  तमे असीत् पूर्वम् एता वत् शैत्यं वर्धितम्। तदा न्यूनतमं तापमानम् १७.३° इत्यासीत्‌I विमान,रेल्यान, 'रोड्' यानसेवा अपि शैत्येन बाधते। अन्तरिक्षवायुमानकमपि न्यूनतमावस्थायाम् अस्ति। हरियाणस्य तापमानः गतदिने ०.३° इति अतिन्यूनतायाम् असीत्। राजस्थानं- न्यूनं ३°, श्रीनगरं - न्यूनं ५.६°, पहलग्राम् - न्यूनं १२° इति च आसन्I

Sunday, December 29, 2019

मनोगतम्’ [०२.०७]   ‘मन की बात’ 
प्रसारण-तिथि : २९-दिसम्बरः,२०१९
- [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-गवीश-द्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
मम प्रियाः देशवासिनः, नमस्कारः | ऊनविंशोत्तर-द्विसहस्र-तमस्य वर्षस्य प्रस्थान-पलम् अस्माकं समक्षं विराजते | दिन-त्रये एव वर्षमिदं प्रस्थास्यते तथा च वयं, न केवलं विंशोत्तर-द्विसहस्र-तम-वर्षे प्रवेक्ष्यामः, नवीने सम्वत्सरे प्रवेक्ष्यामः, नूतने दशके प्रवेक्ष्यामः, एकविंश-शताब्दस्य तृतीये दशके प्रवेक्ष्यामः | अहं, सर्वेषां देशवासिनां कृते विंशति-विंशतीति विंशोत्तर-द्विसहस्र-तम-वर्ष-हेतोः हार्दिकीः शुभकामनाः व्याहरामि | अस्य दशकस्य विषये वृत्तमिदं सुनिश्चितम्, अस्मिन्, देशस्य विकासं गतिमत्तरं विधातुं ते जनाः सक्रियां भूमिकां निर्वक्ष्यन्ति ये एकविंश-शताब्दे जनिम् अलभन्त – ये नाम अस्य शताब्दस्य महत्वपूर्णान् विषयान् अवगच्छन्तः एधन्ते | एतादृशः युवानः, साम्प्रतम्, बहुभिः
मेरि कोम् महाभागया योग्यताचक्रं जितम्।
-के.वि.रजीष्
      नवदहली> अग्रिम ओलिम्पिक्स् स्पर्धायै २०२० फिब्रवरिमासे चीनराष्ट्रे सम्पद्यमाने एष्य-ओष्यानियविभागस्य योग्यताचक्रे मुष्टिप्रहरस्पर्धायां ५१ कि.जि भारयुतानां विभागे भारतं प्रतिनिधीकृत्य मेरि कोम् भागभाक्त्वं करिष्यति। ह्यः नवदहलीमध्ये सम्पन्ने योग्यतास्पर्धायां निखात् सरिनां पराजित्य एव मेरि कोम महाभागया योग्यता प्राप्ता वर्तते। भारतस्य मेरि कोम् विश्वमुष्टिप्रहरस्पर्धायां षड्वारं विजिता अभवच्च।
२०२० मध्ये सुप्रधानदाैत्यैः सह ऐ एस् आर् ओ।
-के.वि.रजीष्
   बङ्गलूरु> २०२० तमे वर्षे भारतीय शून्याकाशगवेषणसमितिः सुप्रधानशास्त्रप्रवर्तनानि आयोजयन्ति। एषु प्रवर्तनेषु मुख्ये भवतः चन्द्रयान् ३,सूर्यसम्बन्धपद्धतिः आदित्‍या च। तथैव पुनरुपयोगयुक्तम् आकाशबाणमपि अपरं मुख्यं प्रवर्ननं भवति। चान्द्रयान् २ दौत्ये चन्द्रोपरि यत् विफलं जातं तस्य ललितावरोहणप्रवर्तनस्य कृते चान्द्रयान् ३ दौत्ये प्रामुख्यं दीयते इति विश्वासवृतैः सूच्यते च।

Our Newsreaders are School students.
Sanskrit News|SampratiVarth | Episode 110 | 29-12-2019
It is an academic project. You can also support this.
https://youtu.be/7QJQLz8YnWM

Saturday, December 28, 2019

तटाकाः संरक्षणीयाः, विद्यालयेषु प्रकृतिसंरक्षणाय अभ्यासः भवितव्यः -सर्वोच्चन्यायालयः। 

चित्रं -मातृभूमिः पत्रिका
  नवदिल्ली> सौविध्यविकासाय तटाकानां नाशः न भवतु, विद्यालयैः प्रकृतिसंरक्षणाय अधिकं प्राधान्यं दातव्यम् इति सर्वोच्चन्यायालयः निरदिशत्। प्रतिवारं एकहोरा  एतदर्थम् उपयोक्तव्या। आभारतम् एतस्य आयोजनाय प्रतिराज्यं आदेशः प्रेषणीयः इति   सर्वोच्चन्यायालयः निरदिशत्।
   दिल्यां गौतमबुद्धनगरे व्यवसायाभिवृद्धिम् उद्दिश्य तटाकाः मृत्पाषाणादिभिः पूरणाय अधिकारीभिः निश्चयः कृतः दृश्यते। तान् प्रक्रमान् विरुद्ध्य लब्धायां  याचिकायाम् अदेशप्रदानसन्दर्भे आसीत् सर्वोच्चन्यायालयस्य अयं निर्देशः। 
कसाखिस्थाने विमानापघातः १४ यात्रिकाः मारिताः।

 अल्माट्टि> शतं यात्रिकैः डयितं विमानं कसाखिस्थानस्य अल्माट्टि विमाननिलयस्य समीपम् अपतत्। शुक्रवासरे उषसि ७.२२ वादने बेक् एयर् विमानस्य आसीत् अपघातः। १४ यात्रिकाः मृताः इति प्रमाणीकृतम् आवेदनम् अस्ति। ९५ यात्रिकाः ५ कर्मकराः च विमाने आसीत्। क्षताः अतुरालयं प्रविष्टाः इति वार्तासंस्थया आवेद्यते।

Friday, December 27, 2019

राष्ट्रियनागरिक पञ्चिकां विरुद्ध्य कथाकारिण्या अरुन्धतीरोयिना कृतायां प्रस्तावनायां न्यायालये याचिका समर्पिता।

    नवदिल्ली> राष्ट्रियनागरिक पञ्चिकायां व्याज-विवरणानि दातव्यानि इति कथाकारिण्या अरुन्धतीरोयिना कृतायां प्रस्तावनायां न्यायालये याचिका समर्पिता अस्ति। एकेन नियमवादिसङ्घेन एव याचिका प्रदत्ता। राष्ट्रे भिन्नतावर्धनम् उद्दिश्य भवति तस्याः उक्तिः इति याचिकायां दोषारोपं लिखितम्। नागरिकता पञ्जीकरणाय उद्योगी आगमिष्यतिचेत् तेषां पुरतः व्याजनामानि देयानि इति तस्याः उपदेशं विरुद्ध्य  बहवः जनाः  प्रतिषेधं प्रकाशितवन्तः।
चिलिदेशे २०० गृहाणि अग्निना दग्धानि।
   वाल् परैसो> क्रिस्तुमस् दिने चिलिदेशस्थे वाल परैसो प्रदेशे आपन्नायां अग्निबाधायाम् उप-द्विशातं गृहाणि दग्धानि। अत्युष्णः वातः च अग्नि सन्तरणस्य कारणम् अभवत्I  चिलिदेशस्य विनोद सञचारकेन्द्रः भवति 'वाल् परैसो'। वनाग्निः स्यात् इति इति कारणेन सहस्राधिका: जनाः ततः निष्कासिताःI पञ्चचत्वारिंशदधिकचतुशतं (४४५)  एकर्  विस्तृता तृणभूमिः अग्निना दग्धा अस्ति। अग्नि नियन्त्रणसेना इदानीमपि अग्निशमनाय प्रयत्नं कुर्वन्तः सन्ति।
रोहिङ्ग्यवंशजानां जनानां देशान्तरगमनं सर्वेषां राष्ट्राणां दोषाय -षेय्क् हसीना।
-के.वि.रजीष्
     धाक्क > रोहिङ्ग्यवंशजानां देशान्तरगमनम् एष्य-पसफिक् मण्डलस्थानां सर्वेषामपि राष्ट्राणां दोषाय भवति इति बङ्‌ग्लादेशस्य प्रधानमन्त्रिणी षेय्क् हसीना। समस्यायाः अस्याः शाश्वतपरिहाराय अन्ताराष्ट्रसमूहस्य सहयोगः अनिवार्यः भवति इति तया अभिप्रेतम्। धाक्कमध्ये 'ग्लोबल् डयलोग् २०१९' कार्यक्रमस्य उद्घाटनं कृत्वा भाषामाणासीत् सा। एष्य-पसफिक् मण्डलस्थानां राष्ट्राणां मुख्या समस्या दारिद्र्यं तथा क्षुत्पीडा च भवतः इति सा अवदत्। अतः मण्डलस्यास्य सामाजिक-आर्थिकपुरोगत्यै सुरक्षायै च राष्ट्राणां परस्परसहयोगः अनिवार्यः- सा अवदत्। अधुना बङ्‌ग्लादेशं एकादश (११) लक्षाधिकाः रोहिङ्ग्यवंशजाः अधिवसन्ति। तेषु ७ लक्षाधिकाः जनाः म्यान्मारदेशस्य सैनिकध्वंसनात्परं बङ्‌ग्लादेशम् आगताः भवन्ति। २०१७ तमस्य सूचनानुसारं ४०००० रोहिङ्ग्यवंशजाः भारतम् अधिवसन्तः सन्ति।