OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, March 11, 2020

कोरोणव्यापनात्  प्रतिरोधाय केरलेषु विद्यालयाः पिहिताः।
     तिरुवनन्दपुरम्> केरलेषु अपि कोविद्१९ विषाणुः व्याप्यते इत्यनेन रोगव्यापन प्रतिरोधमुद्‌दिश्य विरामः ख्यापितः। विधानसभया निर्णयः स्वीकृतः। मार्च् मासस्य ३१ दिनाङ्कपर्यन्तम् अस्ति विरामः । किन्तु ८, ९, १०, ११, १२ कक्ष्यायाः छात्रेभ्यः परीक्षाः प्रचलिष्यन्ति। १ कक्ष्यातः ७ पर्यन्तं परीक्षा न भविष्यति।

Monday, March 9, 2020

अन्ताराष्ट्रिय-महिला-दिवसम् उपलक्ष्य केन्द्रीय-संस्कृति-पर्यटन-मन्त्रिणे सिन्धी-भाषायाः पुस्तकानि अर्पितानि ।


   अन्ताराष्ट्रिय-महिला-दिवसम् उपलक्ष्य सिन्धी-भाषायाः सुख्याता लेखिका कवयित्री च शालिनी-सागर-महोदया स्वीय-पुस्तकानि केन्द्रीय-संस्कृति-पर्यटन-मन्त्रिणे श्रीमते प्रह्लाद-सिंह-पटेल-महाभागाय आर्पयत्, अपि च सिन्धी-भाषायाः सुबहु प्रचार-प्रसार-हेतोः संस्कृति-पर्यटन-मन्त्रालययोः सहयोगं मार्ग-दर्शनञ्च विवर्धयितुं मन्त्रि-महोदयं निवेदितवती। आकाशवाण्याः विदेश-प्रसारण-सेवा-विभागे सिन्धी-भाषायाः अनुवादिका प्रसारिका [निवृत्ता] च शालिनी-सागर-महोदया गद्य-पद्य-विधायां षट् पुस्तकानि विरचय्य प्रकाशितवती। सा पण्डितराज-जगन्नाथस्य ‘गङ्गालहरी’-इति स्तुति-काव्यस्य सिन्धी-भाषन्तरणं व्यदधात्, तथा च, साहित्य-अकादम्याः कृते भगवतः भाष्यकारस्य भगवत्-पादस्य आदिशङ्करस्य ‘प्रश्नोत्तर-रत्नमालिकां’ च सिन्धी-भाषान्तरेण विभूषितवती । तस्याः अन्यतमेन लघुकथा-संग्रहेण दिल्ली-सिन्धी-अकादम्याः उत्कृष्ट-कथा-लेखन-पुरस्कारोऽवाप्तः।
हेमन्त-जोशी
अणुप्रैषः - hemantjoshi.media@gmail.com
इट्टली निश्चला अभवत् । १.६० कोटि जनाः स्वयम् एकान्तवासिनः अभवन्।
   रोम् > कोविद्-१९ विषाणुसंङ्क्रमणेन इट्टलीयानां जनानां जीवनं स्थगितम्। १.६ कोटि जनाः सम्पर्कनिरोधनेन इदानीं निरीक्षणे सन्तिI कोरोणया मृतानां संख्यायाम् आधिक्यं चीनाराष्ट्रे भवति। द्वितीयस्थाने इट्टली च वर्तते। केवलं रविवासरे ३६ जनाः मृताः। अहत्य  २३० जना: मृताः इति गणना सूचयति।
नारीशक्तिपुरस्काराः सम्मानिताः 
  नवदिल्ली >  अन्ताराष्ट्रवनितादिने भारतस्य १५ महिलेभ्यः नारीशक्तिपुरस्काराः राष्ट्रपतिना रामनाथकोविन्देन सम्मानिताः। 
   वायुसेनायाः प्रथमाः युद्धविमानचालकाः अवानी चतुर्वेदी, भावना कान्तः, मोहनासिंहजितर्वाल् , आदर्शभूता वनिताकर्षका पि. भूदेवी [आन्ध्रप्रदेशः], वन्द्यवयोधिता साक्षरतापठितात्री कार्त्यायनि अम्मा [केरलं], करकौशलनिर्मात्री  आरिफा जान् [जम्मू काश्मीरं], शौचालयनिर्माणेन श्रद्धाभूता कलावतीदेवी [उत्तरप्रदेशः] इत्यादिन्यः महिलाः प्रमुखाः भवन्ति।

Sunday, March 8, 2020

केरले पुनरपि 'कोविड् - १९' बाधा।  
रोगबाधिताः  इट्टलीतः प्रतिनिवर्तिताः। 
 पत्तनंतिट्टा >  इट्टलिराष्ट्रात् प्रत्यागतानां पत्तनंतिट्टाजनपदीयानां केरलीयानां कोरोणा विषाणुबाधा दृढीकृता। गतमासस्य २९तमे दिनाङ्के आसीत् पत्तनंतिट्टानिवासीनः  माता, पिता, तयोः पुत्रश्च इट्टलीतः खत्तर् द्वारा कोच्ची अन्ताराष्ट्रविमाननिलयं प्राप्तवन्तः। तान् स्वीकर्तुं द्वौ बान्धवौ च प्राप्तवन्तौ। किन्तु एतैः स्वास्थ्यविभागं प्रति सम्पर्कः न कृतः इति सूच्यते।  एते पञ्च जनाः एव कोरोणाविषाणुबाधिताः इति स्थिरीकृताः। 
   वार्तायां बहिरागतायां स्वास्थ्यविभागः जाग्रतया उत्थापितः। पूर्वोक्ताः पञ्च जनाः आतुरालयं प्रवेश्य कर्कशनिरीक्षणाय निर्दिष्टाः।

Saturday, March 7, 2020

भारतीय वेब् सैट्‌ आक्रमणे चीन-पाकिस्थानयोः  उद्यमः प्रत्यभिज्ञातः। 
    नवदिल्ली> लक्षाधिकानि भारतीय वेब् स्थानानि आक्रमितानिI आक्रमणस्य पृष्ठतः चीनापाकिस्थानयोः तन्त्रनियन्त्रकचोराः भवन्ति। विगते पञ्च वर्षाभ्यन्तरे १,२९,७४७ वेब् स्थानानि बलेन नीतानि इति सूचना मन्त्रालयः राज्यसभायाम् अवदत्I तन्त्रीय सुरक्षायै नूतनप्रवर्तनानि  आयोक्ष्यते इति केन्द्रसर्वकारेण उद्‌बोधितम्। सुरक्षाविभागस्य कार्यकर्तृत्वं मुख्य-सूचनाध्यक्षाय भवति|

Friday, March 6, 2020

कोरोण-विषाणुव्यापनं पशून् प्रति। 

प्रतीकचित्रम्
    होङ्कोङ्> आविश्वं कोरोणविषाणुना भीत्या तिष्ठद्भ्यः भीतिं वितीर्य नूतनम् आवेदनम् आगतम्। मनुष्यात् पशुं प्रति रोगाणुव्यापनम् अभवत् इत्यस्ति आवेदनम् I कोरोण ग्रस्तायाः ६० वयस्कायाः  शुनकः एव रोगग्रस्तः। शुनकोऽयं कतिपय दिनानि यावत् निरीक्षणे आसीत्I किन्तु मनुष्यापेक्षया अणुव्यापनस्य तीष्णतायां मितत्वम् अस्ति इति होङ्कोङ्ङस्य कार्षिक मत्स्य प्राकृतिक संरक्षण-विभागेन प्रोक्तम्I

Thursday, March 5, 2020

निर्भया - चतुर्थी दयायाचिकापि निरस्ता। 
 नवदिल्ली > निर्भयप्रकरणापराधिषु पवनगुप्तेन राष्ट्रपतिसमक्षं समर्पिता दयायाचिकापि निरस्ता। तदैव नूतनः मृत्युनिर्देशः करणीयः इति दिल्लीसर्वकारेण पट्याला हौस् न्यायालये याचिका समर्पिता। 
   इतरेषां दयायाचिकाः पूर्वमेव राष्ट्रपतिना निरस्ताः आसन्। दयायाचिकानिरासात् १४ दिनानन्तरमेव मृत्युदण्डः विधास्यते।
कोरोण- हस्तदानं मास्तु भारतीयानां नमस्ते उपयुज्यन्तां - बेञ्चमिन् नेतन्याहु।
(नमस्ते कथं करणीयम् इति प्रदर्शयति बेञ्चमिन् नेतन्याहु।
Photo/ @hum_bolega)
         नवदिल्ली> कोरोणा वैराणुव्यापनं प्रतिरोद्धुं हस्तदानस्य  सन्दर्भे  भारतीयानां नमस्ते उपयुज्यन्ताम् इति इस्रायेलस्य प्रधानमन्त्रिणा बञ्चमिन्‌ नेतन्याहुना उक्तम्। सर्वे अञ्जलीबद्धो भूत्वा स्वागतं करणीयम् इति तेन अभिप्रेतम्।  विषाणुव्यापन सम्बन्धतया आयोजिते आलोकनोपवेशनानन्तरं पत्रकारमेलने भाषमाणः आसीत् सः। १५ जनाः इस्रायेल् राष्ट्रे कोरोणाविषाणुग्रस्थाः सन्ति। ७००० जना: निरीक्षिताः च सन्ति।

कोरोणा व्याप्यते , भारते २९ विषाणुबाधिताः। 

एषु १६ इट्टलीयाः। 

लोकराष्ट्राणि कार्यक्रमान् परिवर्तन्ते। 
विदेशेभ्यः आगम्यमाणाः सर्वे परिशोधनीयाः।
विद्यालयेषु छात्रसभां निरस्य केन्द्रगृहमन्त्री। 
होली आघोषेभ्यः प्रतिनिवर्त्य प्रधानमन्त्री इतरे मन्त्रिणश्च। 
सोदी अरेब्यायाम् 'उम्रा' तीर्थाटनं स्थगितम्। 
यू ए ई राष्ट्रे दिल्ल्यां च विद्यालयेषु विरामः।

Wednesday, March 4, 2020

भारते समागताः इट्टलीयाः विनोदसञ्चारिणः कोरोणा  विषाणुग्रस्थाः
    नवदिल्ली> भारतदर्शनाय-समागताः १४ इट्टलीयाः विनोदसञ्चारिणः कोरोणा  विषाणुग्रस्थाः इति 'एयिंस्' आतुरालयेन आवेद्यते। एते सञ्चारिणः चव्वाल ए टि बि पि शिबिरे निरीक्षिताः वर्तन्ते। २१ अङ्गाः सन्ति इट्टलीस्थे सङ्घे। रोगग्रस्थानां सङ्‌ख्या वर्धते इत्यनेन केन्द्र-स्वास्थ्यमन्त्रिणा हर्षवर्धनेन त्वरितोपवेशनाय आमन्त्रिताः। सञ्चारिणां प्रियकरस्थानं भवति दिल्ली। अतः दिल्यां कोरोणा व्यापनम् अधिकतया स्यात् इति संसूच्यते।
चक्रवातेन टेन्नीसि प्रदेशः धूलीभूतः। २५ जनाः मृताः।
भगनानि गृहाणि Image credit:AP
      टेन्निसि> अमेरिक्कस्य टेन्निसि प्रदेशे आपन्नेन 'टोर्णाडो' चक्रवातेन १४० गृहाणि भग्नानि। २५ जनाः मृताः चI मङ्गलवासरे आसीत्‌ घटना। मृतानां संख्या अधिका भवेत् इत्यस्ति आवेदनम्। विद्युत् तन्त्र्यः भग्नाः इत्यनेन प्रदेशः तमसि एव वर्तते। विल्सण् नाष् विल्ल प्रदेशाभ्यां  भवति नाशाधिक्यस्य आवेदनम्। पूर्वसूचना यथाकालं न दत्तम् इत्यनेन घटनाकाले जनाः सुरक्षितस्थानं न प्राप्तवन्तः I
भारते सप्त कोरोणाबाधिताः। 
 नवदिल्ली >  भारते कोरोणाविषाणुबाधितानां संख्या सप्त अभवत्। राजस्थाने 'कोविड् - १९' स्थिरीकृतस्य इट्टलीयविनोदसञ्चारिणः पत्नी अपि विषाणुबाधितेति सूचिता। पूणैस्थायां राष्ट्रिय विषाणुसंस्थायां कृते स्रवशोधने एवं निर्णीतम्। अनेन भारते वर्तमानेषु विषाणुबाधिताः सप्ताभवन्। 
  किन्तु परिभ्रान्तेः आवश्यकता नास्तीति विषाणुबाधाव्यापननिरोधाय फलप्रदाः प्रक्रमाः स्वीकृताः इति च प्रधानमन्त्रिणा निगदितम्। 
 यू एस् राष्ट्रे मरणानि सप्त। > ९१ जनाः विषाणुबाधया विद्यमाने अमेरिक्काराष्ट्रे सप्त मृत्युमुपगता इति उपाध्यक्षः मैक् पेन्स् उक्तवान्। सर्वाणि मरणानि वाषिङ्टणराज्ये एव अभवन्।

Tuesday, March 3, 2020

निर्भयाप्रकरणं -  मृत्युदण्डः पुनरपि परिवर्तितः। 
  नवदिल्ली > सुदीर्घानिश्चितित्वस्यान्ते निर्भयाप्रकरणस्य अपराधिनां मृत्युपाशविधिः तृतीयवारमपि परिवर्तितः। प्रकरणे अपराधिषु अन्यतमेन  पवनगुप्तेन ह्यः समर्पिता दयायाचिका एव हेतुः। अनेन हेतुना दिल्ली 'अडीषणल् सेषन्स्' नीतिज्ञः धर्मेन्द्र राणः सर्वेषामपराधिनां मृत्युपाशं निगृहीतवान्। 
    पवनगुप्तस्य दयायाचिका राष्ट्रपतिना निरस्ता भवेत्तर्हि १४ दिनानन्तरमेव दण्डः विधास्येत इति कारागारनियमः।

Sunday, March 1, 2020

संस्कृतभाषां जनकीया करणीया- शिक्षामन्त्री रवीन्द्रनाथः।
  आलुव> संस्कृतभाषा इतोऽपि जनकीया करणीया इति केरलराज्यस्य शिक्षामन्त्री प्रो. सि. रवीन्द्रनाथः अवदत्। राष्ट्रस्य व्यक्तेः च प्रगतिम् उद्दिश्य सांस्कृतिकरीत्या भाषायाः उपयोग: करणीयः। युक्तिचिन्ता भाषाध्ययनेन साध्या भवेत् इत्यपि तेन उद्‌बोधितम्।'केरल संस्कृताध्यापक फेडरेषन'स्य शैक्षिकसङ्गोष्ठेः उद्‌घाटनं कृत्वा भाषमाणः आसीत् सः। 
 कार्यक्रमे सम्प्रतिवार्ता इति छात्राणाम् अन्तर्जालवार्तावाहिन्या: छाात्रवार्तावतारकेषु प्रथमश्रेणीम् सम्प्राप्तेभ्यः प्रमाणपत्रवितरणमपि कृतम्। राष्ट्रपतिपुरस्कारेण समादृतः  महामहोपाध्यायः डा. गङ्गाधरन् नायर् महोदयः मन्त्रिणा समादृतः।  एरणाकुलं जनपदे विद्यावारिधि- बिरुदमवाप्ताः १५ संस्कृताध्यापकाः सम्मानिताः च। नियमसभा सामाजिकः अन्वर् सादत्तः अध्यक्षः आसीत्। श्री शङ्कराचार्य संस्कृतविश्वविद्यलयस्य कुलपतिः डा धर्मराजः अटाट् मुख्यभाषणं कृतवान्I संस्कृताध्यापक सङ्घटनस्य अध्यक्षः बिजु काविल् , पि रतिः, सि. पिसनलचन्द्र:, पि पद्मनाभः, रमेशन् नम्बीशः, जि. चन्द्रशेखरप्रभुः, पि. जि अजित् प्रसादः, श्रीमूलनगरं मोहनः, डा. नित्यानन्द भट्टः, डा. एम्. वि नटेशः च भाषणं कृतवन्तः।

Wednesday, February 26, 2020

केरल संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् अधिवेशनम् आलुवा देशे
      आलुव>  केरल संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् अधिवेशनम्  फेब्रुवरी २७,२८,२९ दिनाङ्केषु प्रचलिष्यति। आलुवा तोट्टुमुखं वै.एम्.सी.ए. सभागृहे आयोज्यमानं विद्याभ्याससम्मेलनम् २९ दिनाङ्के प्रातः ११ वादने केरलस्य शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथः उद्घाटयिष्यति। तदानीं विधानसभासामाजिकः अन्वर् सादत् आध्यक्ष्यं निर्वक्ष्यति।
     २७ दिनाङ्के राज्यस्तरीय कौण्सिल् मेलनं भविष्यति। २८ दिनाङ्के राज्यस्तरीयम् अधिवेशनं जिला पञ्चायत् अध्यक्षः अब्दुल् मुत्तलिख् उद्घाटयिष्यति। प्रतिनिधिसम्मेलनं संघटनस्य भूतपूर्वाध्यक्षः एन्. राजगोपाल् वर्यः तथा आपृच्छमेलनं लोकसभासदस्यः बन्नी बहनान् च उद्घाटयिष्यति।
   
    राज्यस्तरीयमेलनमनुबन्ध्य आयोजिते सम्भाषण चित्ररचनास्पर्धासु  विजयिनां तथा सम्प्रतिवार्तायाः छात्र वार्तावतारकाणां  च  प्रमाणपत्राणि शिक्षामन्त्री वितरिष्यति। श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य कुलपतिः डो. धर्मराज् अटाट् वर्यः मुख्यप्रभाषणं विधास्यति। राष्ट्रपतिपुरस्कारजेतारं जी. गङ्गाधरन् नायर् वर्यं मन्त्री आदरिष्यति।

Tuesday, February 25, 2020

संस्कृतभारती- उत्तराञ्चलन्यासस्य पूर्व अध्यक्षः, डॉ बुद्धदेवमहोदय: दिवङ्गतः।
      संस्कृतभारती- उत्तराञ्चलन्यासस्य पूर्व अध्यक्षः, पूर्व प्रान्ताध्यक्षः, पूर्वक्षेत्रसंयोजकः च डॉ बुद्धदेवमहोदय: सायं 2:35 वादने देवलोकं गतः। पार्थिवशरीरम् अद्य रात्रि 11:00 वादने संस्कृतभारती प्रान्तीयकार्यालये श्रीनारायणसेवाश्रम- दयानन्दनगरी- आर्यनगरे हरिद्वारे प्राप्स्यति। पार्थिवशरीरं दर्शनार्थं संस्कृतभारती- प्रान्तीयकार्यालये 26-02-2020 दिनांके प्रातः 9:00 वादनं यावत् भविष्यति। 10:00 वादने हरिद्वारस्थे कनखले शमशानघट्टे अन्तिमसंस्कारः भविष्यति।
डॉ.बुद्धदेवशर्म-महोदयः भारतीयसंस्कृतपत्रकारसंघस्य उपाध्यक्षत्वेन स्वीयं बहुमूल्यं योगदानं विहितवान् ।
आतङ्कवादः पाकिस्थानेन स्थगनीयः - ट्रम्पः 
  अहम्मदाबाद्> प्रतिराष्ट्रं तेषां सीमारक्षणाय अधिकारः अस्ति। आतङ्किनं  विरुध्य भारतेन सहयोगं कृत्वा प्रतियोद्धुं सन्नद्धाः भवाम: इति अमेरिक्कस्य राष्ट्रपतिना ट्रम्पेण उक्तम्।   प्रतिरोधप्रवर्तनाय भारत अमेरिकयोः मिथः २१००० कोटि रूप्यकाणां  सन्धि‌पत्रे हस्ताक्षरं क्रियते इत्यपि तेन उक्तम्।
पौरत्वविषये प्रतिषेधः, सङ्घर्षे चत्वारः आहताः।

  नवदिल्ली> पौरत्वनियम-परिष्कार-संबन्धतया देहल्यां सम्पन्ने सङ्घर्षे चत्वारः जनाः आहताः। एतेषु एकः आरक्षकः अन्ये सामान्यजनाः च भवन्तिI गुरुतररीत्या व्रणितः कश्चित् आरक्षकः अतुरालयं प्रविष्टः अस्ति। गोकुलपुर्याम् आसीत् घटना। मृतानां सामान्यजनानां विवरणानि नोपलब्धानि। नीति-नियमस्य विभागः १४४ इत्यस्य आधारेण पूर्वेत्तरदिल्यां प्रतिबन्धः प्रख्यापितः।
  क्रान्तिकारिभिः पाषाणखण्डादयः उपयुज्य क्षेपणं, वाहनानि अग्निसात् कृतानि चI भजनपुर, मौजपुर, जाफरबाद् इत्येतेषु प्रदेशेषु भवति सङ्घर्षः। अमेरिक्कस्य राष्ट्रपतेः डोणाल्ड् ट्रम्पस्य सन्दर्शनात्  पूवं भवति सङ्घर्षः इति श्रद्धेयः भवति।

Sunday, February 23, 2020

भारतस्य उत्तरप्रदेशतः सुवर्णशिला उपलब्धा।
   लख्नौ> उत्तरप्रदेशराज्यस्थातः सोनभद्रातः सुवर्णस्य शिलानिक्षेपः उपलब्धः। ३००० टण् मितं सुवर्णनिक्षेपः अस्ति इति  अनुमन्यते। भारतस्य भूसर्वेक्षण विभागेन कृते गवेक्षणे इदम् अवगतम् इति राज्यस्थरीयोत्खननस्य कार्यकर्ता  के के राय् अवदत्। १८ मीट्टर् उन्नतिः १५ मीट्टर् पादमानः १ कि. मी दीर्घः च भवति इयं सुवर्णशिला।

Friday, February 21, 2020

न्यूसिलन्ट्  तीरेषु वातावरणव्यत्ययेन जीवनाशः। ५००० शङ्खवर्ग जीविनः हताः।
  वेल्लिङ्टण्> न्यूसिलन्ट्  समुद्रतीरेषु वातावरणव्यत्ययेन ५००० शङ्खवर्ग जीविनः हताः। अत्युष्ण जलेन  दग्धाः भवन्ति शङ्खाः। वातावरण व्यत्ययेन समुद्रजलस्य उष्णता वर्धिता इत्यस्ति आवेदनम्। ओक्ळन्ड् देशीयः बाडन् फेर्गूसण् इत्याख्यः मृतान् शङ्खान्  दृष्टवान्। समीपकालेषु समानरीत्या शङ्खवर्गजीविनां नाशः भविष्यति इति पर्यावरणवैज्ञानिकेन क्रिस् बाट्टर्षिल् महोदयेन उक्तम् इति ए एफ् पि संस्थया आवेदितम्।

Thursday, February 20, 2020

आधारपत्रं निर्वाचान-प्रत्यभिज्ञापत्रं च मिथः भन्स्यतः। 
    नवदिल्ली> आधारपत्र निर्वाचान-प्रत्यभिज्ञापत्रयोः  मिथः बन्धनेन निर्वाचने  सुतार्यताम् आनेतुं शक्यते इति चिन्तयति भारतसर्वकारः। तदर्थं जनप्रातिनित्यनियमे परिष्कारम् आनेतुं सर्वकारेण निश्चितम्। परिषकारस्य लघुरूपं केन्द्र-मन्त्रिसभया  परिगण्यते। निर्वाचनायोगस्य प्रर्थानाम् अनुसृत्य भवति नूतनप्रक्रमः।

Tuesday, February 18, 2020

संस्कृताभियानम्
     नमांसि, 'अध्यापयति' इत्यत्र णिच् प्रत्ययः। छात्रः अधीते। अध्यापकः अधीयानं छात्रं प्रेरयति। एवमेव पाठयतिप्रभृतिषु अपि। छात्रः पठति। (अधीते इत्यर्थः) पठन्तं प्रेरयति अध्यापकः। छात्रः शिक्षते। शिक्षमाणं तं प्रेरयति शिक्षकः (शिक्ष+णिच्+ण्वुल्)। छात्रः बोधति। बोधन्तं तं प्रेरयति बोधकः। एवं सर्वत्र 'कर्ता' तु छात्रः एव। अध्यापकः भवति प्रेरकः।अतः एव उक्तम्-अध्यापदनादयः शब्दाः एव ज्ञापयन्ति-अध्ययनप्रक्रिया छात्रकेन्द्रिता स्यात् इति। मित्राणि, छात्रकेन्द्रितत्वे एव अभिव्यक्तिकौशलस्य विकासः।
 जयतु संस्कृतम् जयतु भारतम् ।
 प्रा. डॉ. विजयकुमार: मेनन्, कवि कुलगुरु कालिदास विश्वविधालयः महाराष्ट्रम्।
विद्युत्‍कोशनिर्माणाय उपकारकं लिथियम् इति लोहमूलकं भारतात् उपलब्धम्।
    नवदिल्ली> विद्युत्वाहनेषु उपयुज्यमानं विद्युक्तोशनिर्माणाय उपकारकं लिथियं इति लोहमूलकम् अधिकतया उपलब्धम्। बङ्गलूरुस्थे माण्ड्या प्रदेशः एव लोहमूलकस्य निक्षेपस्थानम् इत्यस्ति आवेदनम्। भारतस्य कणिकोर्ज आयोगस्य आट्टोमिक्‌ मिनरल् डयरक्टरेट्ट् इत्यस्य विज्ञानिकाः आवेदनमिदं बहिः प्रकाशितवन्तः। विश्वे अतिदुर्लभं भवति अयं लोहःI १४१०० टण् मितः भवति लिथियस्य निक्षेपः 

Monday, February 17, 2020

शाकादीनां संवहनपेटिकातः विषवातकः, ४ मृताः १५ आतुरालये।

आशयद्योतकं चित्रम्।
  इस्लामबाद् > पाकिस्थाने शाकादीनां संवहनपेटिकायाः निर्गतेन विषवातकेन चत्वारः जनाः मृताः  पञ्चदशनाः आतुरालयं प्रविष्टाः च। कराच्चीनगर-समीपे केमारि मण्डले रविवासरे सायं काले एव घटना। महानौकातः अवतारिताः संवहनपेटिकायाः उद्‌घाटनवेलायाम् आसीन् दुर्घटना। समीपस्थाः विषवायुना मूर्छिताःI