छत्तीसगढे त्रयः मावोवादिनः व्यापादिताः।
सुक्मा> छत्तीसगढे सुक्माजनपदे मावोवादि-सुरक्षासेनयोर्मध्ये जाते प्रतिद्वन्द्वे त्रयः मावोवादिनः मारिताः। एषु एका महिला आसीत्। गोलपल्लिनामकस्थलस्य समीपे वनप्रदेशे आसीत् संघट्टनम्।
न्याया. सौमन सेनः केरलस्य उच्चन्यायालयाधिपः।
नवदिल्ली> केरलस्य उच्चन्यायालयस्य आगामि मुख्यन्यायाधिपरूपेण सर्वोच्चन्यायालयसमित्या न्याया. सौमन सेनः निर्दिष्टः। इदानीं मेघालयस्य मुख्यन्यायाधिपः भवति सौमन सेनः।
जनुवरिमासे नवमदिनाङ्के वर्तमानीनः मुख्यन्यायाधिपः नितिन जंदारः सेवानिवृत्तः भविष्यति। तत्स्थाने अस्ति न्यायाधीशस्य सौमनस्य नियुक्तिः। कोल्कोत्ताप्रदेशीयो भवत्ययम्। केरलोच्चन्यायालयस्य न्यायाधिपं ए मुहम्मद मुष्ताखं सिक्किमराज्यस्य मुख्यन्यायाधीशं कर्तुमपि निर्देशः कृतः।
नरेन्द्रमोदिने ओमानस्य परमोन्नतनागरिकबहुमतिः। .jpg)
मोदिने ओर्डर् ओफ् ओमान् पुरस्कारसमर्पणम्।
मस्कट्> ओमानराष्ट्रस्य परमोन्नतनागरिकबहुमतिः 'ओर्डर् ओफ् ओमान्' भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने समर्पिता। ओमानस्य शासनाधिकारी सुल्तान् हैतं बिन् तारिखः मस्कटे अल् बराका राजभवने मोदिने एनं पुरस्कारं दत्तवान्। भारत-ओमानयोः सौहार्दं प्रबलीकर्तुं मोदिना कृतं योगदानं पुरस्कृत्य आसीदियं बहुमतिः।
मोदिने कस्माच्चन विदेशराष्ट्रात् लभ्यमानः २८ तमः पुरस्कारो भवत्येषः। गतदिने 'ग्रेट् ओणर् निषान् ओफ् एत्योपिया' नामकः एत्योपियाराष्ट्रस्य पुरस्कारः अपि मोदिवर्याय लब्धः।
नवदिल्ल्यां वायूप्रदूषणम् अतिरूक्षम्।
50% कर्मकराः गृहे उपविश्य कार्यालयकर्म करणीयः। उल्लङ्घयति चेत् दण्डः दापयिष्यति।
नवदिल्ली> वायूप्रदूषणसमस्या अतिरूक्षे जायमाने सन्दर्भेऽस्मिन् सर्वाः सर्वकारीयसंस्थाः निजीयसंस्थाः च प्रतिशतं पञ्चाशत् (50%) कर्मकराः कार्यलयकर्म गृहात् एव करणीय इति दिल्लीसर्वकारेण आदेशः दत्तः। आदेशं उल्लङ्घयति चेत् दण्डः दापयिष्यति इति पूर्वसूचना अपि सर्वकारेण दत्ता। नवदिल्ल्याम् अस्मिन् ऋतौ वायुमानं दिसंबर् १५ तमे दिने प्रातःकाले ४९८ 'ए क्यू ऐ सिवियर् प्लस्' विभागे रेखाङ्कितम्। शनिवासरादारभ्य मङ्गलवासरपर्यन्तं नवदिल्ल्याम् अतिशक्तेन हिमधूल्यावरणेन बहूनि यानमार्गापघाताः दुरापन्नाः।
प्रधानमन्त्री ओमाने।
उभयव्यापारसन्धिः हस्ताक्षरीकरिष्यते। 
नरेन्द्रमोदिने मस्कट् विमाननिलये दत्तं स्वीकरणम्।
मस्कट्> त्रिराष्ट्रपर्यटनस्य अंशतया भारतप्रधानमन्त्री नरेन्द्रमोदी बुधवासरे ओमानराष्ट्रं सम्प्राप्तवान्। मोदिनः सान्निध्ये उभयोरपि राष्ट्रयोर्मध्ये स्वतन्त्रव्यापारसन्धेः अङ्गीकारः भविष्यति। सन्धेः निर्वहणाय केन्द्रवाणिज्यमन्त्री पीयूष गोयलः मस्कटे प्राप्तवानस्ति।
२०२३ तमे वर्षे आरब्धा 'सेपा' नामिका आर्थिकसहयोगसन्धिचर्चा एव इदानीं सार्थकीभवति। 'गल्फ् को-ओपरेषन् कौण्सिल्' इत्यत्र तृतीयं बृहत्तमम् आयातलक्ष्यस्थानमस्ति ओमानः। २०२४-२५ तमे १०५० कोटि डोलरमितस्य भारत-ओमानोभयपक्षव्यापारः सम्पन्नः।
ओमाने मोदिने 'गार्ड् ओफ् ओणर्' इत्यनेन सह हृद्यं स्वीकरणं प्रदत्तम्। ओमानस्य विदेशकार्यमन्त्री उपप्रधानमन्त्री च सय्यिद् षिहाब बिन् तारिख् अल् सैदः मस्कट् विमाननिलयं प्राप्य स्वीकृतवान्।
राष्ट्रिय विद्यालयीयकायिकस्पर्धायां केरलस्य वीरतापदम्
सीनियर् विभागे वीरतापदं प्राप्तः केरलसंघः।
लख्नौ> विद्यालयछात्राणां राष्ट्रियकायिकोत्सवे केरलं किरीटं प्राप। सीनियर्, जूनियर्, सब् जूनियर् इति त्रिषु विभागेष्वपि केरलीयछात्राः प्रथमस्थानं प्राप्तवन्तः। प्रथमतया एव केरलस्य विभागत्रये अपि सम्पूर्णाधिपत्यम्। हरियानं, मध्यप्रदेशः, उत्तरप्रदेशः, दिल्ली इत्यादिषु राज्यस्थेषु नगरेषु आसन् भिन्नभिन्नस्पर्धाः सम्पन्नाः।
प्रादेशिकप्रशासनद्वारा दुरन्तनिवारणं -
केन्द्रसर्वकारेण ५०७ कोटि रूप्यकाणि अनुमोदितानि।
नवदिल्ली> राज्यस्थाभिः प्रादेशिकसर्वकारसंस्थाभिः दुरन्तसाध्यतालघूकरणाभियोजनानि प्रचालयितुं ५०७. ३७ कोटि रूप्यकाणि केन्द्रप्रशासनेन अनुमोदितानि। गृहमन्त्रिणा अमित शाहेन अध्यक्षताम् वहमानया उच्चस्तरीयसमित्या २० राज्येभ्यः एव धनराशिः अनुमोदितः।
प्राकृतिकदुरन्तान् निरोद्धुम् अभिमुखीकर्तुं च समाजान् सज्जीकर्तुमुद्दिश्य २०२१ तमे वर्षे आसीत् मोदिसर्वकारेण इयमभियोजना उद्घोषिता। इदानीमियं ग्रामतलेषु व्याप्यमाना अस्ति।
मध्यप्रदेशे स्वीकृतरक्तानां षट् बालकानां 'एछ् ऐ वि' बाधा।
इन्दोर्> मध्यप्रदेशे विविधेभ्यः आतुरालयेभ्यः रक्तं स्वीकृतवन्तः 'तलासीमिया' रोगेण पीडिताः षट् बालकाः HIV [एय्ड्स्] रोगाधीनाः जाताः। १२ - १५ वयस्काः भवन्ति ते। तलासीमिया रोगपरिहाराय अनुक्रमेण रक्तपरिवर्तनस्यान्तरे एव रोगबाधा।
नूतनरक्तपरिवर्तनानन्तरं बालकानां शारिरिकास्वास्थ्ये जाते परं कृते परिशोधने आसीत् एयिड्स् रोगनिर्णयः। अस्मिन् वर्षे जनुवरिमासतः मेय्मासपर्यन्तं कालपरिधौ आसीत् रोगप्रकरणानि आवेदितानि। मध्यप्रदेशस्य स्वास्थ्यमन्त्रिणा राजेन्द्र शुक्लेन अन्वेषणाय आदेशः दत्तः।
खनितबोम्बस्फोटनं
सैनिकः वीरमृत्युं प्राप।
श्रीनगरं> जम्मु-काश्मीरस्य कुप्वार जनपदे मृद्गुप्तबोम्बस्फोटनेन एकः सैनिकः मृतः। जम्मु-काश्मीरे 'लैट् इन्फन्ट्रि' विभागे हविल्दार् पदीयः सुबैर् अहम्मदनामकः एव वीरमृत्युं प्राप। सोमवासरे आसीदियं दुर्घटना।
काश्मीरस्य बहुत्र स्थानेषु भीकरैः सह प्रतिद्वन्द्वः अनुवर्तते। सोमवासरे उधंपुरे अपि भीकरैः सह प्रतिद्वन्द्वः जातः। तत्रैकः रक्षिपुरुषः वीरमृत्युं प्राप। कश्चन भीकरः भुषुण्डिपतितः अभवत्।
नरेन्द्रमोदिनः जोर्दानस्य राज्ञा सह मेलनं सम्पन्नम्।
अम्मान्> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी जोर्दानराष्ट्रस्य राजा अब्दुल्ला द्वितीयः इब्नु अल् हुसैन् इत्यनेन सह मेलनं सम्पन्नम्। प्रादेशिकतात्पर्योपेताः विषयाः चर्चिताः। उभयोरपि राष्ट्रयोः हितानुसारसौहृदस्य दृढीकरणं भविष्यतीति सूच्यते।
पूर्वम् अम्मानस्थं विमाननिलयं प्राप्तवन्तं मोदिवर्यं जोर्दानस्य प्रधानमन्त्री जाफर हसनः साक्षादागत्य स्वीकृतवान्।
ऊन१९ - एष्या चषकक्रिकट्।
पाकिस्थानं पराजित्य भारतं पूर्वान्त्यचक्रे।
अबुदाबी> ऊननवदशवयस्कानाम् एष्या चषकक्रिकट् स्पर्धायाः चतुर्थांशे प्रतिद्वन्द्वे पाकिस्थानदलं ९० धावनाङ्कैः पराजित्य भारतं पूर्वान्त्यचक्रं प्राविशत्। प्रवासिकेरलीयः आरोण् जोर्ज् इत्यस्य वैभवपूर्णं कन्दुकताडनं, दीपेष् देवेन्द्रस्य आग्नेयकं कन्दुकक्षेपणं, कनिष्क चौहानस्य सर्वतोमुखक्रीडा च भारतम् अनायासविजयं नयन्ति स्म।
प्रथमं कन्दुकताडनं कृतवान् भारतसंघः ४६. १ क्षेपणचक्रेषु २४० धावनाङ्कैः बहिर्नीतः। प्रत्युत्तरताडने ४१. २ क्षेपणचक्रेषु १५० धावनाङ्कान् सञ्चित्य पाकिस्थानसंघस्य सर्वे बहिर्गताः। ४६ धावनाङ्कान्,त्रीणि द्वारकाणि च उपलब्धवान् कनिष्क चौहानः श्रेष्ठक्रीडकः जातः।
मुम्बय्याम् कायिकेतिहाससंगमः।
सच्चिन्- मेसि संगमः कायिकप्रेमिणां कृते उत्साहलहरी।
मेसीवर्याय सच्चिनः स्वक्रीडावस्त्रं समर्पयति।
मुम्बई> क्रिकट् इतिहासः सच्चिन् टेण्टुलकरः पादकन्दुकेतिहासः लयणल् मेसी च भारतीयपादकन्दुकेतिहासः सुनिल छेत्री, अन्ताराष्ट्रीयपादकन्दुकक्रीडकौ लूयी सुवारस्, रोड्रिगो पोली इत्येतैः सह यदा वाङ्कडे क्रीडाङ्कणं प्रविष्टवन्तौ तदा दशसहस्रशः कायिकाराधकाः आह्लादोन्मादावस्थां प्रापुः।क्रीडाङ्कणं सर्वं 'मेसी-- मेसी' आह्वानेन मुखरितमभवत्।
भारताय मुम्बई नगराय च सुवर्णनिमिषमेव मेसीवर्यस्य सन्दर्शनेन उपलब्धमिति सच्चिनः प्रस्तुतवान्। २०११ तमे वर्षे अस्मिन्नेव क्रीडाङ्कणे भारतस्य क्रिकट् विश्वचषकप्राप्त्या सह निमषममुं सच्चिनः तुलनं कृतवान्। पादकन्दुके अपि वयं अत्युन्नतिं प्राप्यास्म इति सः प्रतीक्षामपि प्रकटीचकार।
मेसि वर्यः सच्चिनाय विश्वचषककन्दुकं सम्मानितवान्। सच्चिनस्तु मेसि वर्याय आत्मनः दशमसंख्यााङ्कितं क्रीडावस्त्रं समर्पितवान्। क्रीडाङ्कणे सम्पन्नां भारतीयक्रीडकानां पादकन्दुकक्रीडामपि संवीक्षितवान्।
प्रधानमन्त्रिणः त्रिराष्ट्रसन्दर्शनम् अद्य आरभते।
नवदिल्ली> जोर्दानम्, एत्योपिया, ओमानम् इत्येतानि राष्ट्राणि सम्पश्य नयतन्त्रसौहृदं वर्धापयितुं प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे प्रस्थास्यति।
३८ वर्षेभ्यः परमेव कश्चित् प्रधानमन्त्री जोर्दानं सम्पश्यति। राजीव गान्धिः आसीत् अन्तिमतया जोर्दानं सन्दृष्टवान् भारतस्य प्रधानमन्त्री। मोदिवर्यः अब्दुल्ला द्वितीयः नामकं जोर्दानराजं सम्पश्य विविधमण्डलेषु उभयराष्ट्रहितान् निर्णयान् करिष्यति। तदनन्तरं सः एत्योपिया, ओमानं च सन्द्रक्ष्यति।
तृतीयं टि २० - भारतस्य विजयः।
धर्मशाला> अर्षदीप सिंहस्य हर्षित राणस्य च कन्दुकक्षेपणप्रभावेण दक्षिणाफ्रिकां विरुध्य तृतीये टि २० प्रतिद्वन्द्वे भारतस्य अनायासविजयः। प्रथमचरणे ताडनं कृतवान् दक्षिणाफ्रिकादलः २० क्षेपणचक्रेषु ११७ धावनाङ्कान् सम्प्राप। प्रत्युत्तरताडने भारतदलः १५. ५ क्षेपणचक्रेषु ताडकत्रयस्य विनष्टे १२० धावनाङ्कान् सम्प्राप्य विजयी अभूत्। अनेन विजयेन पञ्चस्पर्धात्मिकायां परम्परायां २-१ इति रीत्या भारतम् अग्रे तिष्ठति।
नितिन नबीनः भाजपादलस्य राष्ट्रियप्रवर्तननिरताध्यक्षः।
नवदिल्ली> बिहारराज्यस्य वीथीनिर्माणविभागस्य मन्त्री नितिन नबीनः भाजपा दलस्य राष्ट्रियप्रवर्तननिरताध्यक्षरूपेण राजनैतिलकार्यसमित्या नियुक्तः। इदं स्थानं प्राप्यमाणः ऊनतमवयस्को भवति ४५ वयस्कः नितिनः। अयं राष्ट्रियाध्यक्षस्य जे पी नड्डावर्यस्य अनन्तरगामी भविष्यतीति कल्प्यते।
कर्मयोजनायाः नाम परिष्क्रियते। पूज्य बापु रोज़गार योजना इति।
नवदिल्ली> महात्मा गान्धी राष्ट्रियकर्मयोजनायाः नामपरिष्करण-विधेयकस्य अङ्गीकारः केन्द्रमन्त्रिसभया प्रदत्तः। पूज्य बापु ग्रामीण-रोज़गारयोजना इत्यस्ति नवीननाम। १०० कर्मदिनानि १२५ इति वर्धिष्यन्ते। २००५ तमे यू पि ए सर्वकारेण एव इयं योजना समारब्धा। पूर्वं विद्यमान आङ्गलेयनाम हिन्दी भाषायां परिर्वत्य भवति नूतनं नामकरणम्। कर्मदिनानि अधिकतया आवश्यकानि इति कर्मकराणाम् अर्थनाम् अङ्गीकृत्य आसीत् कर्मदिनानां वर्धापनम् l
'एछ् १ बी विसा'पत्रशुल्कवर्धनं - १९ राज्यानि न्यायालयमुपगतानि।
न्यूयोर्क्> कुशलानां कर्मकराणाम् अधिवासाय ट्रम्पशासनेन विधत्तं एछ् १ बी विसा'पत्रशुल्कवर्धनं विरुध्य यू एस् राष्ट्रस्य १९ राज्यानाम् 'अटोर्णी जनरल्' पदीयानां सख्येन 'मासच्यूसेट्स्' इत्यत्र वर्तमानं न्यायवादन्यायालयं प्रति अभियाचिका समर्पिता। सख्ये न्यूयोर्कस्य 'अटोर्णी जनरल्' अपि अस्ति। नियमानुसारमधिकारं नियतप्रक्रियां वा विना एव शुल्कः क्रमातीतः वर्धापित इति याचिकायां निवेदयति।
एछ् १ बी विसा'पत्रस्य नूतनम् अपेक्षाशुल्कं एकलक्षं डोलर् मितेन [९० लक्षं रूप्यकाणि] सेप्टम्बरमासे ट्रम्पेन वर्धापितम्। पूर्वमेतत्तु २००० - ५००० डोलरमितमासीत्। प्रायेण भारतीयाः एवास्य विसापत्रस्य अधिकोपयोक्तारः। कुशलमतीनां विदेशकर्मकराणां अमेरिकाम् अधिवासं कृत्वा षट्वर्षाणि यावत् वृत्तिं कर्तुम् अनेन विसापत्रेण शक्यते। इदं शुल्कवर्धनं तु स्वास्थ्य-साङकेतिक-शैक्षिकमण्डलेषु सेवाकराणां दौर्लभ्याय कारणं भविष्यतीति मुख्यविमर्शः।
लयणल् मेसी भारते।
कोल्कोत्तायाम् उत्साहोज्वलं स्वीकरणम्। 
कोल्कोत्तायां मेसिवर्यः आराधकान् अभिवादयति।
कार्यक्रमः संघर्षभरितोSभवत्।
कोल्कोत्ता> पादकन्दुकेतिहासः अर्जन्टीनाक्रीडकः लयणल् मेसी भारतं सम्प्राप्तवान्। शनिवासरे प्रभाते ११. ३० वादने कोल्कोत्तायां साल्ट् लेक् क्रीडाङ्कणं सम्प्राप्तं मेसीवर्यं सहस्रशः आराधकाः सोज्वलं हस्तताडनघोषेण स्वीकृतवन्तः। तदा मोहन् बगान-डयमण्ट हारबर् दलयोः प्रदर्शनस्पर्धा प्रचलन्नासीत्। क्रीडाङकणस्य पार्श्वैकस्मिन् चलन् मेसिवर्यः आराधकान् अभिवाद्यमकरोत्। कतिपयनिमेषाः वेदिकामुपविश्यानन्तरं हैदराबादं गन्तुं वेदिकातः प्रस्थितः च।
किन्तु मेसिवर्ये यथेच्छं दर्शनसौभाग्यं नालभत इत्यारोप्य प्रेक्षकाः निराशाः भूत्वा अतिक्रममारब्धवन्तः। कूपीस्यूतादीन् यान् करगतान् सर्वान् क्रीडाङकणं विक्षिप्तवन्तः। उपकरणानि नाशितवन्तश्च। घटनायां ममता बानर्जीसर्वकारेण खेदः प्रकटितः।
केरलजनविधिः
यू डि एफ् सख्याय गभीरविजयः।
एन् डि ए सख्यस्य विजयोपलब्धिः - अनन्तपुरी महानगरम्।
एल् डि एफ् सख्यस्य अप्रतीक्षितपतनम्।
कोच्ची> केरले तद्देशस्वयंप्रशासनसंस्थासु सम्पन्नस्य निर्वाचनस्य परिणामे समागते कोण्ग्रस् दलनेतृत्वे वर्तमानस्य यू डि एफ् सख्यस्य समग्राधिपत्यम्। ९४१ ग्रमपञ्चायत्तसभासु ५०५ सभाः यू डि एफ् सख्येन उपलब्धाः। २६ सभाः भाजपा नेतृत्वोपतेन एन् डि ए सख्येन प्राप्ताः। राज्यप्रशासनपक्षः वामपक्षसख्यं - एल् डि एफ्- ३४१ सभाभिः संतृप्तिमभजत। १४ जिल्लापञ्चायत्तेषु एल् डि एफ् दलाय सप्त, यू डि एफ् सख्याय सप्त च जनपदानि लब्धानि। षड् महानगरेषु यू डि एफ् ४, एल् डि एफ् १, एन् डि ए १ इति क्रमेण लब्धानि। अनन्तपुरी महानगरं एल् डि एफ् पक्षतः भाजपासख्येन निगृहीतम्। नगरप्रशासनेषु यू डि एफ् सख्येन ५४, वामपक्षेण २८, भाजपा सख्येन २ च नगराणि संगृहीतानि।
पाक्किस्थानस्य विश्वविद्यालये संस्कृतपाठ्यक्रमेषु भगवद्गीतां, महाभारतं च पाठयिष्यति।
इसलमाबाद्> शिक्षामण्डले अस्मात् मासात् आरभ्य लाहोर् विश्वविद्यालये पाठ्यक्रमेषु संस्कृतपाठ्यक्रमान् स्वीकृत्य जनश्रद्धां आकर्षति पाकिस्थानः। भारतात् पाकिस्थानस्य विभजनानन्तरं इदंप्रथमतया एव पाकिस्थानेषु कक्ष्याप्रकोष्टेषु संस्कृताध्ययनम् औपचारिकतया समारब्धम्।
१९४७ तमसंवत्सरात् आरभ्य विभजनानन्तरं विश्वस्मिन् अतिप्राचीनासु भाषासु अन्यतमा इति प्रसिद्धायाः संस्कृतभाषायाः औपचारिकरीत्या अध्ययनं विरलमासीत् इति महाविद्यालयेन अन्तर्जालपुटे उक्तमस्ति। इदानीं बहुसंवत्सरानन्तरं भाषेयं कक्ष्याप्रकोष्ठेषु समानीता इत्येतत् दक्षिणेष्यायाः बौद्धिक - सांस्कृतिकपैतृकेण सह संकलनाय विश्वविद्यालयस्य प्रतिबद्धतां संसूचयति इति विश्वविद्यालयेन निगदितम्।
छात्राणां गवेषकाणां अभिभाषकाणाम् अक्कादमिक ' च कृते वासरान्त्यकार्यक्रमरूपेणैव प्रथमस्तरे संस्कृतपठनं समारब्धमासीत्। कार्यक्रमाय लब्धम् उत्तमं प्रतिकरणं परिगणय्य एव दीर्घकालपाठ्यक्रमः समारब्धः इति विश्वविद्यालयस्य प्रतिनिधिं पुरस्कृत्य माध्यमैः प्रतिवेदितम्। महाभारतं, भगवद्गीतां च पाठ्यक्रमेषु सन्निवेशयितुं योजनाम् आविष्करोति इति प्रतिवेदनमस्ति।
बङ्गलादेशे फेब्रुवरि १२ तमे दिनाङ्के निर्वाचनम्।
धाक्का> बङ्गलादेशे बहुजन प्रक्षोभात् भूतपूर्वप्रधानमन्त्री षैक् हसीना बहिर्गतानन्तरं सम्पद्यमानं प्रथमं निर्वाचनं फेब्रुवरि १२ तमे दिनाङ्के भविष्यति।
२०२४ आगस्ट् पञ्चमदिनाङ्के हसीनायाः १५ संवत्सरात्मकं शासनं यदा समाप्तं ततः प्रभृति बङ्गलादेशः राष्ट्रियप्रतिसन्धिम् अभिमुखीकुर्वन्नस्ति। निर्वाचनात् हसीनायाः राजनैतिकदलं अवामी लीग् संज्ञितं निरुद्धं वर्तते।
त्रिवारं प्रधानमन्त्रिपदम् आरूढवती खालिदा सिया इत्यनया नीयमानः 'बङ्गलादेश नाषणलिस्ट् पार्टी' इत्यस्य जयसाध्यता कल्प्यते। जतिया पार्टी, जमा अत्ते इस्लामी इत्यादयः दलाः अपि निर्वाचने स्पर्धिष्यन्ते। ३०० सदस्यस्थानानि सन्ति। ५० स्थानानि महिलानां कृते आरक्षितानि।
राष्ट्रपतिः मणिपूरे सन्दर्शनमकरोत्।
इम्फालः> राष्ट्रपतिः द्रौपदी मुर्मू वंशीयातिक्रमेण क्लेशमनुभूयमानं मणिप्पुरराज्यं सन्दर्शयामास। गुरुवासरे राज्यं प्राप्ता मुर्मूवर्या जनान् आश्वासयामास। तेषामाशङ्कां निवारयितुं केन्द्रसर्वकारः प्रतिज्ञाबद्ध इति तया प्रस्तुतम्।
दिनद्वयात्मके सन्दर्शने बह्व्यः अभियोजनाः तया उद्घाटिताः शिलान्यासं कृताः च। राष्ट्रपतिपदार्जनानन्तरं तस्याः प्रथमसन्दर्शनं भवति एतत्।
भूतपूर्वः गृहमन्त्री शिवराजपाटीलः दिवंगतः।
लात्तूरं> वरिष्ठः कोण्ग्रस् नेता तथा भूतपूर्वः केन्द्रगृहमन्त्री च शिवराजपाटीलः (९१) दिवंगतः। शुक्रवासरे प्रभाते लात्तूरस्थे स्वभवने आसीदन्त्यम्। अन्त्येष्टिकर्माणि अद्य सम्पत्स्यते।
इन्दिरा गान्धी, राजीव गान्धी, मन्मोहनसिंहः इत्येतेषां मन्त्रिमण्डले राष्ट्ररक्षा, व्योमयानं, गृहम् इत्येताः सुप्रधानविभागाः शिवराज पाटीलेन ऊढाः। तथा च लोकसभाध्यक्षपदं च ऊढवान्। २००८ तमे वर्षे यदा मुम्बय्यां भीकराक्रमणं जातं तदा स आसीत् गृहमन्त्री। तत्कारणेन सः पदं तत्याज।
द्वितीयं टि - २०
दक्षिणाफ्रिका विजिता। ५
क्विन्टन् डि कोक् ।
मोहाली> क्विन्टण् डि कोक् नामकस्य कन्दुकताडकस्य प्रभावे द्वितीयायां टि-२० क्रिकट्स्पर्धायां दक्षिणाफ्रिका ५१धावनाङ्कैः विजिता जाता। प्राप्ताङ्कसूचिका - दक्षिणाफ्रिका २० क्षेपणचक्रेषु २१३/४। भारतं १९.१ क्षेपणचक्रेषु १६२ धावनाङ्कैः सर्वे बहिर्नीताः। स्पर्धाद्वये समाप्ते १-१ इति समस्थितिः प्राप्ता। आगामिस्पर्धा रविवासरे धर्मशालायां सम्पत्स्यते।
अन्ताराष्ट्रचलच्चित्रोत्सवाय अद्य शुभारम्भः।
अनन्तपुरी> केरले प्रतिवर्षं प्रचाल्यमानम् अन्ताराष्ट्रियचलच्चित्रोत्सवः शुक्रवासरे प्रारभते। राजधानीनगरस्थासु १६ चलच्चित्रशालासु ८२ राष्ट्रेभ्यः आगम्यमानानि २०६ चलच्चित्राणि आस्वादकसमक्षं प्रदर्शयिष्यन्ते। अष्ट दिनानि चलच्चित्रोत्सवः भविष्यति।
अद्य सायं षट्वादने निशागन्धिसभागारे मन्त्री सजि चेरियान् चलच्चित्रोत्सवस्य उद्घाटनं करिष्यति। चिलीराष्ट्रस्य विख्यातः निदेशकः पाब्लो लोरो मुख्यातिथिः भविष्यति। कार्यक्रमे कनेडिया चलच्चित्रकारी केल्ली फैफ् मार्षल् वर्या 'Spirit of Cenima' इति पुरस्कारेण समाद्रियते।
केरले मतदानं ७३. ६९%।
कोच्ची> तद्देशस्वयंप्रशासनसभाः प्रति चरणद्वयात्मके निर्वाचने समाप्ते आहत्य ७३. ६९% मतदायकाः स्वाभिमतं प्रकटीकृतवन्तः। ९ तमे दिनाङ्के सम्पन्ने प्रथमचरणे ७१% , ह्यस्तने द्वितीयचरणे ७६% च मतदानं सम्पन्नम्। २०२० तमे वर्षे मतदानं ७६% आसीत्। मतगणना श्वः प्रभाते अष्टवादने आरप्स्यते। २४४ गणनाकेन्द्राणि सन्ति।
युक्रैने निर्वाचनाय सन्नद्धः इति सेलन्स्की।
वोलोदिमिर् सेलन्स्की।
रोमः> यू एस् राष्ट्रेण सुरक्षा प्रदास्यते चेत् युक्रैने निर्वाचनं कर्तुं सन्नद्ध इति राष्ट्रपतिः वोलोदिमिर् सेलन्स्की प्रस्तुतवान्। इट्टल्यां रोमे वार्ताहराणां प्रश्नानां समाधानरूपेण भाषमाणः आसीत् सेलन्स्की। निर्वाचनं निराकर्तुं सेलन्स्की युद्धम् आयुधीकरोतीति यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य आरोपणस्य आधारे आसीत् सेलन्स्किवर्यस्य प्रस्तुतिः।
२०२४ मार्च मासे युक्रैने निर्वाचनं भवितव्यमासीत्। किन्तु २०२२ तमे वर्षे रष्यायाः अधिनिवेशे आरब्धे युक्रेनराष्ट्रं सेनाप्रशासनीधीनमभवत्। निर्वाचनं परिवर्तितं च।
इन्डिगो विषये केन्द्रसर्वकारः दिल्ली उच्चन्यायालयेन विमृष्टः।
नवदिल्ली> इन्डिगोसंस्थायाः अव्यवस्थया आराष्ट्रं व्योमसञ्चारः प्रतिसन्धिं प्राप इत्यस्मिन् विषये केन्द्रसर्वकारस्य व्यवहाराय विलम्बः जातः इति दिल्ली उच्चन्यायालयेन विमृष्टम्। प्रकरणे अतितीव्रे जाते एव प्रशासनस्य प्रक्रमः अभवत्, तावत्पर्यन्तं किं निरीक्षितमिति मुख्यन्यायाधिपः देवेन्द्रकुमार उपाध्यायः, न्यायाधीशः तुषार रावु गेडेला इत्येतयोः नीतिपीठेन पृष्टम्। यात्राप्रतिसन्धिविषये न्यायविचारान्वेषणम् [Judicial inquiry] आवश्यकमिति सामान्ययाचिकायाः परिगणनावसरे आसीदयं विमर्शः। यात्रिकाणां सुरक्षाविषये कापि अनास्था मास्तु इति नीतिपीठेन निर्दिष्टम्।
तिरुप्पतिमन्दिराय प्रदत्तं कौशेयोत्तरीयं कृत्रिमतन्तुना निर्मितम्। दशसंवत्सराभ्यन्तरे ५४ कोटिरूप्यकाणि चोरितानि।
अमरावती (आन्ध्रापदेशः)> आन्ध्राप्रदेशे प्रसिद्धस्य तिरुमल मन्दिरस्य परिपालनसंस्थां तिरुप्पति देवस्थानं नाम न्यासं वञ्चयित्वा कोटिशानि रूप्यकाणि प्रसंवेदकेन (contractor) वञ्चनारूपेण कबलितानि। २०१५ संवत्सरतः २०१५ संवत्सरपर्यन्तं कृत्रिमतन्तुनिर्मितम् उत्तरीयमेव प्रसंवेदकेन मन्दिराय दत्तम्। दशवर्षाभ्यन्तरे एवंरीत्या ५४ कोटि रूप्यकाणि स्ववशंकृतानि। निवेदनरेखासु (tender ) कौशेयोत्पन्नानि इत्येव सूचितमस्ति।
कौमारकहोक्की विश्वचषकः
विश्ववीरः जर्मनी; भारतस्य तृतीयस्थानम्।
![]() |
| कौमारकिरीटं प्राप्तः जर्मनीदलः। |
चेन्नै> कौमारकाणां विश्वयष्टिक्रीडावीरतास्पर्धायाः अन्तिमे प्रतिद्वन्द्वे वर्तमानीनवीरः जर्मनीदलः वीरतापदम् उपास्थापयत्। स्पेयिनदलं त्वरितलक्ष्यवेधने ३-२ इति क्रमेण पराजित्य एव जर्मन्याः किरीटप्राप्तिः। निश्चितसमये दलद्वयमपि समस्थितिं प्राप्तमासीत् १ - १ इति।
विनष्टान्तिमयोः [Loser's final] प्रतिद्वन्द्वे अर्जन्टीनादलं निष्प्रभं कृत्वा भारतेन तृतीयस्थानं सम्प्राप्तम्। प्रथमार्धकाले लक्ष्यद्वयस्य पृष्ठतः स्थित्वा अनन्तरं समुज्वलेन क्रीडनेन आसीत् भारतस्य विजयप्राप्तिः। द्वितीयार्धे भारतं चत्वारि लक्ष्यकन्दुकानि अपि सम्प्राप्य विजयी अभूत्।