OUR YouTube Channel 1. SampratiVartah |
marquee
Friday, August 7, 2020
संस्कृतभारत्याः केरलराज्यस्तरीयं मेलनम् आगस्त् ९ दिनाङ्के आयोक्ष्यते।
केरले भूस्खलनेन महान् दुरन्तः ; चत्वारि मरणानि , अनेके दुर्घटीभूताः।
इटुक्की > केरलस्य इटुक्की जनपदे मून्नार् समीपस्थे राजमला स्थाने ह्यः रात्रौ महत्भूस्खलनं सञ्जातम्। चत्वारः मृतदेहाः दुर्घटनास्थानात् अभिदर्शिताः। चतुरान् जनान् आतुरालयं प्रवेशिताः।
राजमलाप्रदेशस्थे 'कण्णन् देवन्' चायकेदारभूमौ कर्मकराणां निवासस्थाने इयं दुर्घटना दुरापन्ना। उपशतं कर्मचारिणः तत्र निवसन्ति। रात्रौ दुर्घटना अभवदित्यतः कतिजनाः दुर्घटितभूताः जाता इति निर्णयः दुष्करः अस्ति।
तृशूरतः दुरन्तनिवारणसेनायाः द्वौ संघौ दुरन्तस्थानं प्रस्थितौ । प्रदेशवासिनां साहाय्येन आरक्षकाणां संघः एव रक्षाप्रवर्तनं कुर्वन्नस्ति। मार्गमध्ये वर्तमानः 'पेरियवरा'सेतुः भूस्खलने नष्टः जातः इत्यतः रक्षाप्रवर्तकानां दुरन्तस्थानप्राप्तिः दुष्करं वर्तते। ६७ जनाः तत्र लग्नाः इत्यूहते।
रजतशिलान्यासेन प्रधानमन्त्रिणा मोदिना रामदेवालयस्य निर्म्माणं प्रारब्धम् |
अयोध्या> श्रीराम जन्मभूम्यां 'राम लल्ल' देवालयस्य निर्म्माणसमारम्भः समभवत् । प्रधानमन्त्रिणा मोदिना भारतराष्ट्रस्य प्रतिनिधी भूत्वा रजतशिलान्यासेन शिलान्यासमकरोत् । राष्ट्रकल्याणाय भवति इदम् इति सङ्कल्पपूर्वकं मन्त्रोच्चारणेन सह आसीत् क्रियाकलापः। ४० किलोमिता भवति रजतशिला। राष्ट्रिय स्वयंसेवक सङ्घस्य अध्यक्षः मोहन भागवतः उत्तरप्रदेशस्य राज्यपालिका आनन्दी बन पट्टेलः मुख्यमन्त्री योगी आदित्यनाथ-प्रभृतयैः आनीतैः नवशिलाः च स्थापितेषु सन्ति। क्रिया कलापानन्तरम् देवालय चित्रमुद्रितम् निर्यासमुद्रा (Stamp) प्रधानमन्त्रिणा प्रकाशिता। देवालयभूमौ शिलान्यासात् पूर्वं पारिजातस्य बालवृक्षरोपणमपि तेन कृतम्। प्रधानमन्त्रिणं विहाय १८५ जनाः भागभाजः अभवन्। तेषु १३५ सन्यासिनः च आसन्।
Wednesday, August 5, 2020
संस्कृतदिनाशंसया - प्रधानमन्त्रिणः नरेन्द्रमोदिनः ट्विट्टर् सन्देशः
Monday, August 3, 2020
भारतस्य गृहमन्त्री अमितशाहः कोविड्बाधितः।
सम्पादकस्य सन्देशः
Friday, July 31, 2020
वन्दे भारतम् - ८ लक्षाधिकाः प्रवासिनः प्रत्यागताः।
Wednesday, July 29, 2020
संस्कृतदिनमहोत्सवस्य उद्घाटनम् - डा. बलदेवानन्द सागर
Tuesday, July 28, 2020
Monday, July 27, 2020
![]() |
| कार्गिल् दिने रक्षामन्त्री राजनाथसिंहः आदरं समर्पयति। |
Sunday, July 26, 2020
Friday, July 24, 2020
Thursday, July 23, 2020
Wednesday, July 22, 2020
संस्कृतसप्ताहः कथम् आचरणीयः?
च मू कृष्णशास्त्ररी -




