स्वान्ते पेबो इत्याख्याय वैद्यशास्त्रस्य नोबेल् पुरस्कारः।
स्टोक्होम्> मनुष्यपरिणामस्य जनितकरहस्यानां याथातथ्यं प्रकाशयितुं प्रयत्नं कुर्वते स्वीडनीयः जनितकशास्त्रज्ञः स्वान्ते पेबो इत्याख्याय अस्य संवत्सरस्य वैद्यशास्त्रनोबलपुरस्कारः लभते।
कुलनाशं गतानां जीविवर्गाणां जनितकरेखां पुनर्निर्मीय विशकलनं क्रियमाणायाः 'पालियोजिनोमिक्स्' इत्याख्यायाः शास्त्रशाखायाः उपज्ञातृषु प्रमुखः भवति पेबोवर्यः।





.webp)

.webp)
