यूरोप् भूखण्डस्य चरिते बृहत्तमं चोरणम्, १बिल्यण् यूरो धनस्य आभरणानि नष्टानिI
जर्मनराष्ट्र-नगरस्य ट्रेस् डिन्न् इत्यस्थ चरित्रालयतः चोरैः अमूल्याभरणानि अपहृतानि। द्वितीयं लोकमहायुद्धानन्तरम् दुरापन्नं बृहत्तमं चोरणम् इति जर्मन् देशस्य पत्रिकाः आवेदयन्ति। ट्रेस् डिन् इत्यत्र विद्यमाने ग्रीन् वोल्ड् राजप्रासादात् भवति चोरणम्। यूरोप् भूखण्डस्थ चरित्रप्राधान्ययुक्तवस्तुनः तत्र संरक्षिताः आसन्l (प्रासादं अधुना म्यूसियं इति व्यवहरन्ति)। १८ तमशतकस्य वज्राभरणानि एव अपहृतानि। सोमवासरे उषसि एव घटना आपन्ना। चोरितानाम् आभरणानां मूल्यं 78,85,24,47,600 रूप्यकाणि एव। चोराणां दृश्यं छायाग्राह्या संग्रहीतम्।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Wednesday, November 27, 2019
Tuesday, November 26, 2019
महाराष्ट्रराज्ये श्वः विश्वास मतदानम्। भा ज दलाय ताडनम्।
नवदिल्ली> महाराष्ट्रराज्ये मुख्यमन्त्रि फड्नाविसः बुधवासरे सायं ५ वादनतः पूर्वं भूरिबलम् अस्ति इति प्रत्यक्षप्रमणं करणीयम् इति सर्वोच्चन्यायालयेन आदिष्टम्I राज्यपालेन प्रदत्तं कालदैर्घ्यं न्यूनीकृत्य भवति न्यायालयस्य आदेशःI रहस्य मतदानं मास्तु सुतार्यतया एव निर्वाचनं करणीयम् इत्यपि न्यायालयेन आदिष्टम्। न्यायाधीशस्य एन् . वि रमणस्य आध्यक्ष्ये विद्यमानेन त्रयङ्गपीठेन एव अदेशः प्रदतः।
ऐ. एस्. भीकराः शरणागताः
काबूल्> पूर्व नङ्गहार-प्रवि श्यायां शरणागतेषु शतशेषु इस्लामिकस्टेट् भीकरेषु दशभारतीयाः अपि अन्तर्भवति इति अफ्गानिस्थानस्य वार्ता पत्रिका अफ्गान् टैंस् आवेद्यते। एते काबूलं प्रति नीताः इत्यस्ति इदानीन्तन विवरणम्।
विगते सप्ताहे ऐ एस् भीकराः तेषां कुटुम्बाः च आहत्य उपसहस्रं जनाः च अफ्गानस्य सैनिकानां पुरतः शरणागताः आसन्। एतेषु भूरि पाकिस्थाननागरिकाः इत्यस्ति विवरणम्।
नवम्बर् मासस्य १२ दिनाङ्के ऐ एस् केन्द्रान् प्रति कृते सैनिकप्रक्रमे ९३ सायुधभीकराः शरणागताः आसन् इति अफ्गानस्य सेनया स्पष्टीकृतम्।
Monday, November 25, 2019
संस्कृतपण्डितः महागुरुः अच्युतपिषारटिवर्यः दिवङ्गतः।
पट्टाम्बि> संस्कृत-पण्डितः के पि अच्युतपिषारटिवर्यः दिवङ्गतः। अद्य उषसि आसीत् तस्य निधनः। महोदयस १०९ वयः आसीत्। वार्धक्य सहजरोगेण सः पीडितः आसीत्। अद्य ११ वादने तस्य भौतिकं शरीरम् आतुरालयतः गृहम् आनयिष्यति।
अस्य पिता पुतुश्शेरि ब्राह्मणगृहजस्य पशुपतिवर्यः माता कोटिक्कुन्नत्त् तृक्कोविल् पिषारत्त् नारायणिक्कु्ट्टि पिषारस्यार् वर्या च भवतः। तथा एष धन्यात्मा पट्टाम्बि पुन्नश्शेरि नीलकण्ठशर्मवर्यस्य मुखतः संस्कृताध्यनमकरोत्I
१०३९ तमे , वर्षे अध्यापकपदे न्ययुङ्क्तोऽभवत्। पण्डितरत्नं, देवीप्रसादम् इत्यादिभिः बहुभिः पुरस्कारैः पण्डितोऽयं समादृतः अभवत्। जीवितान्त्यं यावत् कर्मणि निरतस्य अस्य वियोगः न केवलं तत् समाजस्य किन्तु सर्वेषामपि सज्जनकुलानां महान् नष्ट एव।
संस्कृतप्रचारणं दिनचर्यारूपेण स्वीकृतवान् पण्डितः।
षण्मासेभ्यः पूर्वं यावत् कोटिक्कुन्नत्तु पिषारद्भवने 'पिषारटि वर्यं' परितः शिष्यजनानां महान् सम्मर्दः आसीत्। लालित्यपूर्णेन मन्दस्मितेन संस्कृतभाषानुबन्धाः बहवः सन्देहाः विविधस्तराणां जनानां पुरतः छिन्नाः अभवन्। संस्कृत भाषाकुतुकिनः, छात्राः, अध्यापकाः, गवेषकाः, भागवतसप्ताहेषु आचार्यस्थानं वहन्तः ये के अपि सन्देहनिवारणार्थम् आगच्छन्तः रिक्तहस्तेन प्रतिगतवन्तः नासन्।
पुन्नश्शेरि नीलकण्ठशर्मणः शिष्योत्तमेषु अन्तिमं दलमस्ति अच्युतप्पिषारटिः।(वार्तायाः आकलनम् - नववाणी सम्प्रतिवार्ताश्च।)
क्रिस्तुवर्षात् पुरातना प्रतिमाः 'मम्मि' च लब्धाः
![]() |
| (चित्रम् - ए. फ्. पि) |
केय्रोस्थ 'गिस पिरमिड्' इत्यस्य समीपस्थे स्क्वार नाम शिलाप्रकोष्टात् एव 'मम्मि' इत्याखस्य मृतशरीरस्य संरक्षित रूपं लब्धम्। बिडालः, नक्रः, सिंहः, च भवति प्रतिलब्ध शरीरेषु विद्यन्ते। द्वयोः नकुलयोः संरक्षितशरीरौ अपि प्रतिलब्धेषु स्तः।
![]() |
| (बिडालस्य संरक्षितशरीरम्, चित्रम् - रोयिडेर्स् ) |
पुरातन ईजिप्तजनसमूहेषु बिडालपूजनमपि आसीत् इति अनुसन्धातृभिः अनुमन्यते।
ईडन् मध्ये विजयं प्राप्य भारतसंघः।
ईडन् गार्डन्स् > भारतसंघस्य प्रथमपिङ्क्बाल् स्पर्धायां बङ्गलादेशदलं ऐकन इन्निङ्सेन ४६ धावनाङ्कैः च विजयं प्राप्य भारतसंघः विश्वटेस्ट् क्रिकेट् चक्रे प्रथमस्थाने विराजते। बङ्गलादेशदलं प्रति द्वितीयस्पर्धायामपि विजयं प्राप्य टेस्ट्परम्परायामपि भारतं विजेता (२-०) अभवत्। अस्यां क्रीडायामपि कन्दुकक्षेपकानां प्रकटनमेव सहायकमभवत्। भारताय द्वितीये इन्निङ्स् मध्ये उमेष् यादवः ५ इषान्त् शर्मा ४ च क्रीडकान् निष्कासयताम्। स्पर्धायाम् आहत्य इषान्त् शर्मा ९ उमेष् यादवः ८ च क्रीडकान् निष्कासयताम्। टेस्ट्परम्परायाः क्रीडकत्वेन इषान्त् शर्मा चितः वर्तते। शतकं प्राप्तस्य नायकस्य कोह्लेः प्रकटनमपि श्रद्धेयमासीत्। टेस्ट् परम्परासु भारतसंघेन अनुस्यूततया प्राप्तः पञ्चमः विजयः भवति अयम्।
Sunday, November 24, 2019
माहाराष्ट्रे सर्वकारः आयोजितः। शिवसेना, एन् सि पि, कोण्ग्रस् दलानि सर्वोच्चन्यायालयं प्रतिI
नवदिल्ली> महाराष्ट्रस्य सर्वकार रूपीकरणं विरुद्ध्य शिवसेना, एन् सि पि, कोण्ग्रस् दलानि सर्वोच्चन्यायालयं गमिष्यन्तिI झटित्येव नियसभाम् आयोज्य विश्वासमतदानं करणीयमिति संयुक्तयाचिकया न्यायालयं प्रति प्रार्थिष्यन्ते। याचिका झटित्येव आवेक्षणीया इत्यस्ति तेषाम् अर्थना। महाराष्ट्रस्य राज्यपालस्य त्वरितप्रक्रमान् विरुद्ध्य अस्ति याचिका। भूरिपक्षालम्बः अस्ति वा इति अदृष्वा एवफट्नाविसं शपथग्रहणाय अवसरः दत्तः इति भवति विपक्षीयानां विमर्शः। न्यायवादी कपिल सिबलः मनु अभिषेक् सिङ्वि च कोण्ग्रस् दलस्य कृते न्यायपीठस्य पुरतः उपस्थितौ भविष्यतः॥
Saturday, November 23, 2019
ग्रहीतान् भारत-नागरिकान् चीनस्य साहाय्येन आतङ्कवादिनां पट्टिकायां योजयितुं पाकिस्थानेन प्रयतते।
सम्प्रति पाकिस्थानेन गृहीताः भारत-नागरिकाः बलूचिस्थाने पेषवारे च आक्रमणानि कृतानि इति उक्त्वा यू एन् मध्ये याचिका दत्ता अस्ति। अफ्गानिस्थाने विद्यमानायाः उद्योगसंस्थायाः परियोजनायां कर्मकाररूपेण समागतान् भारतनागरिकान् गृहीत्वा ईदृशरीत्या भीकरत्वम् अरोपणाय यत्नः करोति ।
सम्प्रति पाकिस्थानेन अफ्गानिस्थानतः गृहीतानां कृते दूतावासस्य साहाय्याय सन्दर्भः करणीयः इति भारतेन अभ्यर्थितम्।
Friday, November 22, 2019
श्वासकोशः स्प्रोञ्चः इव, ३० संवसराणि यावत् धूमपानं कृतवतः श्वासकोशस्य चित्रं प्रसार्य भिषग्वराः।
Thursday, November 21, 2019
केरलराज्यस्तरीय-वरिष्ठनागरिकाणां क्रीडास्पर्धा २३ दिनाङ्के।
कोच्ची> ६० वयः उपरिष्टात् वरिष्ठानां नागरिकाणां कायिकस्पर्धा नवंबर् मासस्य त्रयोविंशति दिनाङ्के प्रचालयिष्यति। महाराजास् कलाशालायाः क्रीडाङ्कणे भवति इयं स्पर्धा। स्पर्धार्थिनः अस्मिन् दिने प्रातः ७.३० वादने वयःप्रकाश्यमानेन प्रमाणेन सह आगन्तव्याः इति आयोजकाः वदन्ति।
जिल्ला नियमसेवा आयोगः, एज् फ्रण्ट्लि एरणाकुलम्, केरल स्टेट् स्पोर्स् कौण्सिल् , इन्ट्यन् मेडिक्कल् असोसिएषन्, केरल सर्वकारीय स्वस्थ्यविभागः अन्ये सेवादलानि च संयुक्ततया प्रचालयन्ति अमुं कार्यक्रमम्।
स्वस्थे शरीरे एव स्वस्थं मनः स्थास्यति। अतः जीवने उभयस्यापि प्राधान्यं विद्यते। तदर्थं क्रियमाणः प्रयत्नः भवति अयं कार्यक्रमः इति आयोजकाः वदन्ति। 9074241011, 9496712249 इति भवतः आयोजकानां दूरभाषा सङ्ख्ये।
Wednesday, November 20, 2019
शनिग्रहस्य उपग्रहस्य टैटानस्य ग्रहवैज्ञानिक रेखाचित्रम् सज्जम् अभवत्। लोहसान्निध्यम् अदृष्टम्।
वाषिङ्टण्> शनिग्रहस्य उपग्रहस्य टैटानस्य ग्रहवैज्ञानिक-प्रतल-रेखाचित्रम् सज्जम् इति अमेरिकस्य अरिसोण विश्वविद्यालयेन उच्यते। शनिग्रहस्य चन्द्रः इति आहूतवतः टैटानस्य प्रतलेषु विविधाकारेषु पर्वताः उपपर्वताः, तटाकाः, समतलाः च द्रष्टुं शक्यते। बाह्याकाशानुसन्धाने नूतनमिदं ज्ञानम् अरिसोण, पासडोणा परीक्षणशाला नासा च मिलित्वा पत्रमाध्यमकाराणां पुरतः प्रकाशितवन्तः।
विविधलोहानां सान्निध्यम् अस्ति ग्रहे भूमिं विहाय द्रावकाणां सान्निध्यं टैटाने एव भवति। अपग्रहस्य विविधभागेषु विविधोष्णाः विविधगुरुत्वबलानि च वर्तन्ते इति वैज्ञानिकानां मतम्।
उत्तरकोरियेन कृतम् अणुपरीक्षणं हिरोषिमा विस्फोटतः १७ गुणितं शक्तम् - ऐ एस् अर् ओ।
२४५ तः २७१ टण् मितं विस्फोटकवस्तूनि परीक्षणाय उपयुक्तातानि। द्वितीये लोकमहायुद्धे १९४५ तमे हिरोषिमा विस्फोटघटनायां १५ टण् विस्फोटकम् उपयुक्तम् आसीत्। विस्फोटनस्य तीव्रतामापनाय उपग्रह-चित्राणि विवरणानि च अध्ययनाय उपयुक्तानि।
Tuesday, November 19, 2019
भारत-नेपालयोः सीमनि भूकम्पः।
नवदिल्ली> भारत-नेपाल-राष्ट्रयोः सीमनि लघु भूकम्पः अभवत्। स्पन्दमापिन्यां ५.३ इति चलनम् अङ्कितम्। नव दिल्लां तथा उत्तरप्रदेशे उत्तरघण्डे च (अद्य मङ्गलवासरे) सायं भूकम्पनम् अनुभूतम्। मनुष्याणां जीवनाशः वा वस्तुनां नाशः वा न आवेदितः। भारत-नेपालयोः सीमनि विद्यमानः वनप्रदेशः भवति भूकम्पस्य प्रभव केन्द्रम्I २०१५ तमे नेपाले भूकम्पेन ९००० जनाः मृत्युमुपगताः आसन्|
Monday, November 18, 2019
यूनाम् एशियामहाद्वीपीया मुष्टामुष्टिस्पर्धा
-पुरुषोत्तमशर्मा
नवदेहली> भारतेन यूनाम् एशियामहाद्वीपीय-मुष्टामुष्टिस्पर्धामालिकायां पञ्च स्वर्णपदकानि मिलित्वा द्वादशपदकानि आहत्य प्राप्तानि।। मङ्गोलियादेशे महिलावर्गे नाओरिम-चानू, विङ्का, सनामाचा-चानू, पूनम:, सुषमा च स्वर्णपदकानि विजिवत्य:। पुरुषवर्गे सेलाय-सायेनेन अथ च अङ्कित-नरवालेन रजतपदके विजिते। अरुणधतिचौधरी, कोमलप्रीत-कौर:, जास्मिन:, सतेन्दर-सिंह: अमनश्च कांस्यपदक-विजेतारो वर्तन्ते।
संस्कृताभियानम्
नमांसि!संस्कृतप्रचाराय बहुविधाः कार्यक्रमाः क्रियन्ते। बह्व्यः संस्थाः कार्यं कुर्वन्ति च। विविधकक्ष्याः, सभाः, सङ्गोष्ठ्यः, सम्मेलनानि, पुस्तकप्रकाशनम्, पाण्डुलिपिग्रन्थसम्पादनम्, स्पर्धाः, प्रदर्शिन्यः, शोधकार्याणि इत्येतानि सर्वाणि उत्तमानि एव। अवश्यं करणीयानि एव। तैः संस्कृतस्य अधोगतिः अवरुद्धा भवेत्, वृद्धिः अपि भवति भागशः। यथास्थितिरक्षणं वा भवेत्। परन्तु यावत् विद्यालय-महाविद्यालय-विश्वविद्यालयेषु जायमानासु संस्कृतकक्ष्यासु संस्कृतभाषा न आगच्छेत् तावत् उपरितनानां सर्वेषां कार्याणां स्वल्पः परिमितः एव परिणामः भवेत्। मित्राणि, संस्कृतकक्ष्यासु संस्कृतम् आनेतुं प्रयत्नं कुर्मः।
जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्, कविकुलगुरु कालिदास-विश्वविद्यालयःI महाराष्ट्रम्।
समर्थनगरनिर्माणम् - उन्नावदेशे कृषकारक्षकयोः मिथःप्रहरः।
लख्नौ> उत्तरप्रदेशस्य उन्नावे आयोक्ष्यमाणायाः समर्थनगर-परियोजनायाः कृते स्वीकृतभूसंबन्ध तर्कः कृषकारक्षकयोः मिथःप्रहरस्य कारणम् अभवत्। कृषकाणां पार्श्वतः आरक्षकान् प्रति पाषाणक्षेपः अजायत। तदा आरक्षकाः दण्डप्रक्रमः अकुर्वन्I नगर निर्माणाय आनीतानि उपकरणानि प्रतिषिद्धाः अग्निसात् कृतानि। 'ट्रान्स् गङ्गा' इति परियोजनायाः प्रदेशे एव घटना अजायत्। भूनष्टस्य परिहारः इतःपर्यन्तं न लब्धः इति प्रतिषेधिनः वदन्ति। किन्तु परिहारधनं सर्वं दत्तमस्ति इति अधिकारिणः वदन्ति। समर्थनगरस्य निर्माणं रोद्धुं केचन प्रयत्नं कुर्वन्ति इत्यपि परियोजनायाः नेतृजनैः उक्तम्।
Sunday, November 17, 2019
गोतबाय राजपक्सः श्रीलङ्कस्य नूतनाध्यक्षत्वेन चितः।
कोलम्बो > श्रीलङ्कदेशस्य निर्वाचने नूतनाध्यक्षत्वेन श्रीलङ्क एस् एल् पि पि दलस्य स्थानार्थी गोतबाय राजपक्सः चितः भवति। युणैटड् नाषणल् दलस्य सजित्प्रेमदासः आसीत् मुख्यः प्रतियोगी। श्रीलङ्कस्य भूतपूर्वाध्यक्षस्य महीन्द्रराजपक्सस्य सोदरः भवति गोतबाय राजपक्सः। ५१.२% जनसम्मतिः राजपक्सेन प्राप्ता इति सूचना अस्ति। प्रतियोगिना सजित् प्रेमदासेन ४२% सम्मतिः प्राप्ता। महीन्द्रराजपक्सस्य शासनकाले आभ्यन्तरकार्यदर्शी आसीत् गोतबायराजपक्सः
होङ्कोङ् राज्ये चीनस्य सैनिकाः विन्यस्थाः। सैनिकप्रक्रमात् भीतिः।
![]() |
| चित्रम् AFP |
बीजिङ् > जनन्त्रम् अभिवाञ्च्य जनानां समरप्रक्रमः प्रवर्तमानः हेङ्कोङ् राज्ये चीनेन सैनिकाः विन्यस्थाः। जनानां रोषाः शक्तीकृत्य मासानि अतीतानि चेदपि प्रथमतया एव सैनिकानां विन्यासः। सैनिकाः तु होङ्कोङ् मध्ये निर्मिते तत्कालीन-शिबिरे स्थित्वा क्रान्तिकारिभिः निर्मिता मार्गप्रतिबन्धाः, शिलाखण्डादयाः वीथीमध्यात् निष्कासिताः। सैनिकवस्त्रस्य स्थाने हरित युतकं श्यामोरुकं च धृत्वा आसीत् मार्गस्य स्वच्छताकरणम्। क्रान्तिजनान् प्रतिरोद्धुं सर्वकारस्य साहायार्थं न एवं प्रवर्तितम् इति सैनिकाः वदन्ति। चीनस्य नियमानुसारं प्रादेशिकसर्वकारस्य निमन्त्रणं विना एवं प्रवर्तितुं न शक्यते। किन्तु विगते २२ संवत्सराभ्यन्तरे एवं निमन्त्रणम् एकवारमपि नासीत्। किन्तु होङ्कोङस्य सुरक्षासचिवः जोण् ली का चियु इत्याख्यः सैनिकानयनम् अधिकृत्य सूचितवान् आसीत्। सेवा प्रवर्तनाय आह्वानं विनापि आगन्तुं शक्यते सैनिकेभ्यः इत्यपि तेनोक्तम्।
Saturday, November 16, 2019
प्रथमक्रिकेट् टेस्ट् - भारतस्य विजयः एकेन इन्निङ्सेन १३० धावनाङ्कैश्च।
इन्टोर्> बङ्ग्लादेशं एकेन इन्निङ्सेन १३० धावनाङ्कैश्च पराजित्य भारतदलं परम्परायां १-० इति आधिपत्यं प्रापयत्। प्रथमटेस्ट्क्रीडायाः तृतीये दिने एव भारतदलम् उत्तमं विजयं प्रापयत्। भारतदलेन स्वप्रथमम् इन्निङ्स् गतदिनस्य ४९३/६ इत्यङ्के पर्यवसितम्। भारताय ३४३ धावनाङ्कानाम् आधिपत्यं दत्वा द्वितीयेन्निङ्स् क्रीडनमारब्धस्य बङ्ग्लादेशदलस्य आरम्भः निराशापूर्णः आसीत्। भारतस्य कन्दुकक्षेपकान् प्रतिरोद्धुं बङ्ग्लादेशदले मुश्फिकुर् रहिम् (६४) एक एवासीत्। भारताय षमिः ४ क्रीडकान् निष्कासयत्। अश्विन् ३, उमेष् यादवः २ च क्रीडकान् प्रापयताम्। अनेन विजयेन विश्वटेस्ट्क्रिकेट् परम्परायां भारतदलं प्रथमस्थानं पर्यपालयत्।
राजनैतिकदलानि जनसमुदायानां मध्ये कलहं वितीर्य वर्धन्ते -न्यायाधिपः सि एन् रामचन्द्रन् नायर्
कालटी> भारतस्य छात्राः विश्वस्य पुरतः प्रथम श्रेण्यां भवन्तु। तदर्थं नेतुं तान् युक्तान् कारयामः इति न्यायाधिपः सि एन् रामचन्द्रन् नायर् महोदयेन उक्तम्। राजनैतिक दलानि तेषां वर्धनाय विभिन्न जनसमूहयोः मध्ये जाति मत भेदं उक्त्वा आरक्षणाय जातीयजनसमूहेषु आशायाः उद्दीपनं कृत्वा मिथः द्वेषं ज्वाल्य वर्धन्ति। वयं तत् ज्ञात्वा जीवेमः इत्यपि न्यायाधिपेन उक्तम्। श्रीनारायण स्टडीसर्किल् पेरुम्बावूर् इत्यस्य पञ्च वर्षीयोद्घाटनं निरूह्य भाषमाणः आसीत् सः।कार्यक्रमे गुरु मुनि नारायणप्रसादः गुरुदर्शनस्य कालातीत मूल्यम् इति विषये भाषणं कृतवान्। कला-साहित्य प्रतिभाभिः 'गुरु नित्यचैतन्ययति प्रतिभापुरस्कारः' न्यायाधिपः पि मोहनदासवर्यः दत्तवान्I निवृत्तन्यायाधिपः वी एन् सत्यानन्दः कार्यक्रमे अध्यक्षः आसीत्।
प्रथमक्रिकेट् टेस्ट् - भारतं सुशक्तम्।
- के वि रजीष्
इन्डोर्> बङ्ग्लादेशं प्रति प्रथमक्रिकेट् टेस्ट् स्पर्धायां भारतं सुशक्तम्। द्वितीयदिने बङ्ग्लादेशस्य अङ्कानपेक्षया भारतदलं ३४३ धावनाङ्कैः अग्रे वर्तते। भारताय मयङ्क् अगर्वाल् (२४३) द्विशतकं प्रापयत्। चेतेश्वर् पूजारः (५४), उपनायकः रहाने (८६), जडेजः (६०*) च अगर्वालम् उत्तमसहयोगम् अकुर्वन्। जडेजेन सह उमेष् यादवः (२५*) क्रीडन् वर्तते। तथापि नायकस्य कोह्लेः(०) निष्कासनं निराशामजनयत्।
विश्वस्य प्रप्रथमं शिशुकेन्द्रीकृतं संस्कृतचलनचित्रं मासेऽस्मिन् प्रदर्शयिष्यति।
तिरुवनन्तपुरम्> केरळस्य संस्कृताध्यापकानां नूतनपदक्षेपः भवति इदं सम्पूर्णं चलनचित्रम्। मधुरस्मितमिति नाम्ना अस्मिन् नवम्बर् मासे अन्तिमसप्ताहे प्रकाशं वितरिष्यति।
चित्रस्य पृष्टभूमौ संस्कृताध्यापकाः छात्राः च प्रयत्नं कृतवन्तः सन्ति। चलनचित्रस्य सूत्रधारः सुरेष् गायत्री महोदयः भवतिI अस्य महोदयस्य प्रथमः प्रयत्नः भवति शिशुकेन्द्रीकृतं सम्पूर्णं चलनचित्रम् 'मधुरस्मितम्'। संस्कृताध्यापिकया बिजिला किषोर् कुमार् महाभागया विरचिता अस्ति कथा I चित्रस्य कृते एन् के रामचन्द्रन्, रमाबाई, मनोहरन् , लाली, गिरीष् कुमार् च निर्माणकार्यकर्तारः भवन्ति। संस्कृतप्रेमिणः चित्रं दृष्टुम् उत्सुकाः भूत्वा उद्घाटनदिनं प्रतिपाल्य तिष्टन्तः सन्ति।
चित्रस्य पृष्टभूमौ संस्कृताध्यापकाः छात्राः च प्रयत्नं कृतवन्तः सन्ति। चलनचित्रस्य सूत्रधारः सुरेष् गायत्री महोदयः भवतिI अस्य महोदयस्य प्रथमः प्रयत्नः भवति शिशुकेन्द्रीकृतं सम्पूर्णं चलनचित्रम् 'मधुरस्मितम्'। संस्कृताध्यापिकया बिजिला किषोर् कुमार् महाभागया विरचिता अस्ति कथा I चित्रस्य कृते एन् के रामचन्द्रन्, रमाबाई, मनोहरन् , लाली, गिरीष् कुमार् च निर्माणकार्यकर्तारः भवन्ति। संस्कृतप्रेमिणः चित्रं दृष्टुम् उत्सुकाः भूत्वा उद्घाटनदिनं प्रतिपाल्य तिष्टन्तः सन्ति।
Friday, November 15, 2019
राक्षसपादमुद्रा लब्धा, हिमयुग-जीवजालान् अधिकृत्य अधिकं ज्ञानं लब्धुम् अवसरः जायते।
(GPR उपयुज्य चित्राणि गृह्यन्ते। चित्रम् कोर्णल् विश्वविद्यालयेन स्वीकृतम्।)
मानवानाम् अन्येषां जीविवर्गाणां हिमयुगस्य (Ice Age) जीवनम् अधिकृत्य अधिक विवरणानि लब्धुम् अवसरः जायते। भौमान्तर्भागे हिमयुगस्य राक्षसमनुष्यस्य बृहदाकारा पादमुद्रा दृष्टा। भौमान्तर्गत वस्तून प्रत्यभिज्ञातुं सहायकं 'ग्रौण्ट् पेनट्रेट्टिङ् रडार् (GPR) उपयुज्य यु एस् राष्ट्रस्थ कोर्णल् विश्वविद्यालयेन कृतानुसन्धाने एव हिमफलकानामधः पादमुद्रा अदृष्टा। सूष्म-जीवावशिष्ट-निक्षिप्ता भवति इयं पादमुद्रा भवति। अधुना गृहीतस्य मृतावशिष्टस्य 12,000 संवत्सराणां पुरातनत्वम् अस्ति इति अनुमीयते। नूतनं प्रत्यभिज्ञानं भूमुखात् अप्रत्यक्षाणां जीविवर्गाणां शारीरिकं रूपं तेषां चलनं जीवकोशानां रूपसज्जता इत्यादि विषयान् अधिकृत्य नूतनं प्रत्यभिज्ञानं लभते इति विश्वविद्यालयस्य वैज्ञानिकः थोमस् अर्बन् वदति।
इन्टोर् प्रथमक्रिकेट् टेस्ट् - भारतं शक्तम्।
-के वि रजीष्
इन्टोर्> बङ्ग्लादेशं प्रति टेस्ट्क्रिकेट् परम्परायाः प्रथमक्रिकेट् टेस्ट् मध्ये भारतस्य शुभारम्भः। नाणकविक्षेपणं जित्वा प्रथमकन्दुकताडनं स्वीकृतं बङ्ग्लादेशदलं १५० धावनाङ्काभ्यन्तरे भारतसंघः निष्कासयत्। भारताय मुहम्मद् षमिः, इशान्त् शर्मा, उमेष् यादवः, अश्विनः च उज्वलप्रकटनम् अकुर्वन्। षमिः३, अन्ये यथाक्रमं २ च क्रीडकान् निष्कासयन्। प्रतिक्रीडनवेलायां भारतदलं रोहित् शर्मणः (६) नष्टेन ८६ धावनाङ्कान् समपादयत्। भारताय अधुना मयङ्क् अगर्वाल् (३७) चेतेश्वर् पूजारः (४३) च क्रीडयन्तौ वर्तेते।
Thursday, November 14, 2019
शबरिगिर्यां युवतीप्रवेशविषये सर्वोच्च-न्यायालयस्य निर्णयः सप्ताङ्गपीठस्य पुरतः प्रेषितः।
नवदिल्ली> शबरिगिरिदेवालये युवतीप्रवेशविषये सर्वोच्च-न्यायालयस्य पूर्वनिर्णयः सप्ताङ्गपीठस्य पुरतः प्रेषितः। न्यायालयस्य निर्णये पुनरालोकनम् आवश्यकं वा इति विषये एव निर्णयः सप्तड्गपीठेन करिष्यति। मुख्यन्यायाधीशस्य आध्यक्ष्ये विद्यमानेन पञ्चाङ्कपीठेन एव याचिकाः विशालपीठं प्रति प्रेषिताः।
जे.एन्.यू.प्रशासनेन छात्रावासशुल्के वृद्धे: निर्णय: प्रत्यावर्तित:
-पुरुषोत्तमशर्मा
नवदेहली>दिल्लीस्थेन जवाहरलालनेहरूविश्वविद्यालयेन छात्रावासशुल्कविषये कृता वृद्धि: आंशिकरूपेण प्रत्यावर्तनस्य निर्णयो विहित:। मानवसंसाधनविकासमन्त्रालये पदासीनेन सचिवे आर.सुब्रमण्यमेन ट्वीट सन्देशे लिखितं यत् परिषदा आर्थिकरूपेण असहायवर्गाणां विद्यार्थिभ्य: आर्थिकसाहाय्यप्रदानस्य योजनापि प्रस्तावितास्ति।
भारतीयवैज्ञानिकाय ब्रिक्स् पुरस्कारः।
रियो डे जनीरो> भारतीयस्य वैज्ञानिकगवेषकस्य रविप्रकाशस्य कृते २५००० डोलर्मूल्यपरिमितः 'ब्रिक्स् यङ् इन्नवेटर्' पुरस्कारः। प्रथमतया एव एकेन भारतीयेन पुरस्कारोऽयं प्राप्तः वर्तते। रविप्रकाशेन ग्रामीणक्षीरकर्षकेभ्यः क्षीरशीतीकरणकेन्द्रं तद्देशीयतया आविष्कृतं वर्तते। अस्मै प्रवर्तनाय एव ब्रिक्स् पुरस्कारः लब्धः। रविप्रकाशेन ऐकार् नाषणल् रिसर्च् डयरी इन्स्टिट्यूषन् बङ्गलुरुतः गवेषणबिरुदं सम्पादितं वर्तते। ब्रसील् देशे ब्रिक्स् उन्नतयोगसम्बन्धतया आयोज्यमाने युववैज्ञानिकानां मेलने रविप्रकाशः भारतस्य प्रतिनिधिः भवति। बीहार् स्वदेशी भवति रविः।
वायुप्रदूषणम् - केन्द्रसर्वकारं विमर्श्य उच्चतरन्यायालयः।
नवदहली> दहलीमध्ये प्रतिदिनं वर्धमानं वायुप्रदूषणं प्रति केन्द्रसर्वकारस्योपरि उच्चतरन्यायालयस्य रूक्षविमर्शः। राजधान्यां तथा उत्तरभारतस्य केषुचित् प्रदेशेषु च वायुप्रदूषणं नियन्त्रणातीतं जातमासीत्। विषयेऽस्मिन् केन्द्रसर्वकारेण आवश्यकी श्रद्धा नैव दत्ता इति न्यायालयेन निरीक्षितम्। अन्तरिक्षमलिनीकरणं प्रतिरोद्धुं हैड्रजनधिष्ठितां इन्धनसाङ्केतिकविद्याम् उपयोक्तुं शक्यते वा इति केन्द्रसर्वकारं न्यायालयेन अन्विष्टम्। अन्तरिक्षमलिनीकरणं परिहर्तुं जापानस्थसाङ्केतिकविद्या स्वीक्रियते इति केन्द्रसर्वकारेण प्रतिवचनं दत्तम्। विषयेऽस्मिन् डिसम्बर् तृतीयदिनाङ्काभ्यन्तरे सर्वकारः अवलोकनं समर्पयिष्यति। विषयेऽस्मिन् जापानस्थेन विश्वविद्यालयेन गवेषणं कृतं वर्तते, गवेषणेऽस्मिन् हैड्रजनधिष्ठितां साङ्केतिकविद्यां सम्बन्ध्य निर्देशः वर्तते इति च केन्द्रसर्वकाराय नियमोपदेशप्रमुखः तुषार् मेहतः न्यायालयं न्यवेदयत्।
Wednesday, November 13, 2019
मुख्यन्यायाधीशस्य कार्यालयः अपि सूचनाधिकारनियमस्य अधीने भवति- निर्णयस्य साधुत्वं परिकल्प्य सर्वोच्चन्यायालयः।
नवदिल्ली> सर्वोच्च-न्यायालयस्य मुख्यन्यायाधीशस्य कार्यालयः अपि सूचनाधिकारनियमस्य अधीने भवति इति सर्वोच्च-न्यायालयः। मुख्यन्यायाधीशस्य रञ्जनगोगोय् वर्यस्य आध्यक्ष्ये विद्यमानस्य पञ्चाङ्ग-शासन-संविधान-पीठस्य विधिनिर्णयः भवत्ययम्। जनहितं संरक्षितुं सुतार्यता आवश्यकी इति न्यायालयेन दृष्टम्।
विषयेस्मिन् दिल्ली उच्च न्यायालयस्य २०१० तम संवत्सरस्य निर्णयस्य साधुत्वं सर्वोच्चन्यायालयेन कल्पितम् आसीत्।
वनाग्निदुरन्ते ओस्ट्रेलिया; अतितापः अनिलः च अग्निशमने बाधा।
सिड्नि> अतिगुरुतरं अग्निसङ्क्रमणं प्रतिरोद्धुम् अशक्ताः भूत्वा ओस्ट्रेलिय राष्ट्रस्य अग्निशमनसेना। अन्तरिक्षतापमानस्य वर्धनं शुष्कः वातावरणं शक्तः वातः च अग्निशमन प्रवर्तनानि दुष्करं कृत्वा भाययन्ति। न्यू सौत् वेयिल्स् इत्यत्र मङ्गलवासरे तापमानं ३७ डिग्रि अभवत्। प्रतिहोरायां ६५ किलोमीट्टर् आसीत् वातस्य वेगःI न्यू सौत् वेयिल्स्, कीन्स् लान्ट् प्रदेशयोः सर्वकारेण द्रुतप्रक्रमः प्रख्यापितः आसीत्l त्रयः जनाः मृताः शतं व्रणिताः सहस्रशाः गृहं परित्यक्त्वा पलायिताः च। द्वयोः राज्ययोः सप्ताहाभ्यन्तरे १२० प्रदेशेषु अग्निः ज्वलिता। एतेषु ५० स्थानेषु इतःपर्यन्तम् अग्निः नियन्त्रणाधीतं वर्तते। सिड्णि नगरप्रान्तेषु अपि जाग्रतानिर्देशः प्रख्यापितः अस्ति। १० लक्षं हेक्टर् मितं भूप्रदेशः २०० गृहाणि च भग्नाः।
महाराष्ट्रे राष्ट्रपतिशासनम्।
नवदहली> निर्वाचनफलप्रकाशनात्परं नवदशदिनानन्तरमपि शासनविषये अनिश्चितत्वं वर्तमाने महाराष्ट्रे राज्यपालः राष्ट्रपतिशासनाय न्यवेदयत्। राज्यपालस्य भगत् सिंह् कोषियारेः निवेदनं राष्ट्रपतिना अङ्गीकृतं च। शासनसंहितामनुसृत्य महाराष्ट्रे सर्वकारशासनम् अधुना दुष्करमिति राज्यपालः राष्ट्रपतिं न्यवेदयत्। अपि च कुत्सितमार्गेण राष्ट्रियदलानि शासनाय प्रयतन्ते इत्यपि राज्यपालनिवेदने सूचितं वर्तते। भा ज पा, शिवसेना, एन् सि पि इत्यादीनि दलानि सर्वकाररूपीकरणाय राज्यपालेन आमन्त्रितान्यासन्। किन्तु कैरपि परस्परं विश्वासमार्जयितुं न शक्तम्। एतदेव राष्ट्रपतिशासनाय कारणमभवत्। अधुना षट्मासात्मककालपर्यन्तमेव राष्ट्रपतिशासनं स्वीकृतं वर्तते।
Subscribe to:
Posts (Atom)























