नरेन्द्र मोदी न्यूसिलान्टे। 
नरेन्द्रमोदी न्यूसिलान्टस्य प्रधानमन्त्रिणा सह।
ओक्लान्ट्> त्रिराष्ट्रपर्यटनस्य अंशतया इन्डोनेष्या, आस्ट्रेलिया सन्दर्शनं परिसमाप्य भारतस्य प्रधानमन्त्री नरेन्द्र मोदी शुक्रवासरे न्यूसिलान्टं प्राप्तवान्।न्यूसिलान्टस्य प्रधानमन्त्री क्रिस्टफर् लक्सणः ओक्लान्ट् विमाननिलयं समेत्य मोदिनं स्वीचकार।
राष्ट्ररक्षा,व्यापारः, कायिकं, संस्कृतिः, शिक्षा इत्येतेषु विषयेषु उभयराष्ट्रसहयोगम् प्रबलीकर्तुं लक्सणेन सह मोदिवर्यः चर्चां करिष्यति। न्यूसिलान्टसन्दर्शनं प्रकीर्त्य मोदी 'एक्स्' माध्यमेन प्रस्तावं कृतवान्।

















