विधवाः प्रति पृथक्करणस्य उच्छेदनं कृत्वा महाराष्ट्रग्रामाः।
मुम्बई> वैधव्यं प्राप्तवत्यः महिलाः क्लेशपूर्णं जीवितमानीयमानान् अनाचारान् समाप्य महाराष्ट्रस्थाः सप्तसहस्राधिकाः ग्रामाः। राज्यस्थेषु २७,००० अधिकासु ग्रामपञ्चायत् सभासु ७६८३ ग्रामसभाः सामाह्वाय एतदधिकृत्य प्रख्यापनं कृतम्।
विधवाभिः अनुभूतान् अनाचारान् विरुघ्य प्रवर्तमानेन प्रमोद सिन्जाडे इत्यनेनेदं संख्यात्मकं वृत्तान्तं प्रस्तुतम्। यदि काचन महिला विधवा जाता तर्हि सा गणेशपूजा, विवाहानुबन्धाः 'हल्दी-कुङ्कुमादिकाः कार्यक्रमाः, इतराणि मङ्गलकर्माणि इत्यादिभ्यः अपसृता आसीत्।
२०२२ तमे वर्षे कोलापुरजनपदे हेर्वाडग्रामः विधवाः विरुध्य अनाचारान् अन्धविश्वासान् च उन्मूलनं कृत्वा तासां प्रौढ्या जीवितुमधिकारं संरक्षितुं प्रथमतया पदं चलति स्म।
.webp)

.webp)




.jpeg)



.jpeg)

.webp)
%20(1).webp)