चीनस्य कृत्रिमसूर्यः सप्तनिमेषं यावत् प्रज्वलितः। यथार्थसूर्यापेक्षया अस्य दशगुणिततापः च।
- रमा टी के
चीनस्य वैज्ञानिकाः अध्ययनार्थं कृत्रिमसूर्यमेकं असृजन्। यथार्थसूर्यापेक्षया दशगुणिततापयुक्तं कृत्रिमसूर्यमुपयुज्य ते अध्ययनानि प्रचलन्तः सन्ति। एप्रिल् मासस्य द्वादशतमे दिने सप्तनिमेषाः यावत् अतितापयुक्तां प्लाविकां (plasma) सृष्ट्वा चीनस्य सूर्येण सर्वाभिलेखाः भेदिताः इति प्रतिवेदनमस्ति। अणुसंयोजनमाधारीकृत्यैव (Nuclear fusion) कृत्रिमसूर्याभियोजना। मालिन्यानि तथा अपरिमेयम् ऊर्जं प्रदातुं सक्षमा भवति एषा परियोजना।



.jpg)




%20(1).jpg)



.jpg)

.webp)










