OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, July 19, 2026

 सोनं वाङ् चुकः बलेन आतुरालयं प्रवेशितः। 

अनशनं दीक्षन् सोनं वर्यः। 

नवदिल्ली> जन्तर मन्दर विशालाङ्कणे सि जे पी आन्दोलनस्य अंशतया अनशनं क्रियमाणः विख्यातः शैक्षिक-पर्यावरणप्रवर्तकः लडाकदेशीयः सोनं वाङ् चुकवर्यः आरक्षकैः निगृहीतः सन् आतुरालयं प्रवेशितः। अनिश्चितकालानशने २० दिनानि अतीते तस्य प्राणाः संरक्षणीयाः इति दिल्ली उच्चन्यायीलयेन राज्य-केन्द्रप्रशासने निर्दिष्टे आस्ताम्। तदनुसृत्य अस्ति दिल्ली आरक्षकसेनायाः अयं प्रक्रमः। 

 शनिवासरे प्रभाते जन्तर मन्दरः नाटकीयरंगानां साक्षीभूतः अभवत्। सी जे पी प्रवर्तकानां प्रतिषेधस्य मध्ये आरक्षकाः सोनं वर्यं निगृह्य  आतुरालयं नीतवन्तः।