OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 19, 2026

 'भ्रमणपथे प्रथमदिनम्'।

बहिराकाशनिलयात् अनिल मेनोनस्य दृश्यलेखः। 

ISS निलयान्तर्गतः अनिल मेनोनः निलयः च।

> अन्ताराष्ट्रबहिराकाशनिलयं  [ISS] प्राप्तेषु यात्रिकेषु अन्यतमस्य अर्धकेरलीयस्य अनिल मेनोनस्य दृश्यलेखः 'एक्स्' माध्यमेन प्रकाशितः। सुरक्षितः सन् निलयं प्राप्य अनन्तरं तस्य प्रथमः सन्देशो भवत्येषः। 

  "भ्रमणपथे प्रथमदिनमस्ति। भूमिं प्रति कृतज्ञता, प्रेमः, तस्याः रूपम् इत्यादीनि  मां विकारतरलितं कुर्वन्ति। ISS तः सर्वेभ्यः 'हरि ओम्'।

  निमिषैकदैर्घ्यात्मके दृश्यलेखे भूमौ आदरः, मनुष्याणां भाविनि बहिराकाशदौत्यं प्रति प्रतीक्षा च सः प्रकाशयति।