OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, July 19, 2026

 विनष्टान्तिमयोः स्पर्धा। 

फ्रान्सं ६ - ४ लक्ष्यक्रमे निष्प्रभं कृत्वा इङ्गलाण्टस्य तृतीयस्थानम्।

एम्बापे मेसिम् अतिक्रम्य लक्ष्यसम्पादने विश्वकीर्तिमवाप।

मियामी> गतरात्रौ सम्पन्ने विनष्टान्तिमयोः प्रतिद्वन्द्वे इङ्गलाण्टदलः फ्रान्सदलं ६ - ४ इति लक्ष्यक्रमे प्रभञ्ज्य तृतीयस्थानम् अवाप। क्रीडायाः  प्रथमार्धे फ्रान्सं निष्प्रभं कृत्वा इङ्गलाण्टः प्रत्युत्तरविहीनैः चतुर्भिः लक्ष्यैः अग्रे आसीत्। किन्तु द्वितीयार्धे फ्रान्सेन शौर्यं प्रकटितमपि विजयनिग्रहणे असमर्थो जातः। इङ्गलाण्टस्य साकावर्यस्य लक्ष्यत्रयं फ्रान्सस्य एम्बापेवर्यस्य लक्ष्यद्वयं च सविशेषप्रस्तावमर्हति।

  तथा च किलियन् एम् बापे वर्यस्य लक्ष्यद्वयसम्पादनेन अस्मिन् विश्वचषके आहत्य १० लक्ष्याणि प्राप्य मेसेः अष्टलक्ष्योपलब्धिं अतिक्रान्तवान्।