केरले १९तमपर्यन्तं वृष्टिसाध्यता।
अनन्तपुरी> उत्तर-पश्चिमवंगसमुद्रान्तराले उत्तर ओडीषा-पश्चिमवंगतटयोः उपरि न्यूनमर्दः रूुपीकृतः इत्यनेन जूलाय् १९ तमदिनाङ्कपर्यन्तं केरलमशेषं लघुरूपेण वा मितं च वृष्टिः भविष्यतीति ऋतुविज्ञानीयकेन्द्रेण निगदितम्। वंगसमुद्रे बङ्गलादेशस्य उपरि च जातः चक्रवातावर्त एव न्यूनमर्दरूपेण परिवर्तितः।