वियट्नामे भारतीययात्रिकाणां नौका निपत्य १५ मरणानि।
वियट्नामे दुरापन्ना दुर्घटना।
हानोय्> वियट्नामे विनोदयात्रार्थं गताः भारतीययात्रिकाः सञ्चरन्ती उल्लासनौका समुद्रं निपत्य १५ जनाः मृताः। २१ यात्रिकाः रक्षिताः। द्वयोः अवस्था गुरुतरा वर्तते।
वियट्नामस्य दक्षिणतटात् ४५ कि मी दूरे ताय्लान्टसमुद्रे 'फुकुवेक'द्वीपसमीपे शनिवासरे प्रभाते १०. ३० वादने आसीत् दुर्घटना।
३२ भारतीयविनोदयात्रिकाः चत्वारः नौकासेवकाश्च आसन्। अतिशक्तेन वाताघातेन नौका अवाक्च्छिराः जलं पतन्ती आसीत्।
२०२५ जूलैमासे वियट्नामे नौकादुर्घटनायां ३५ जनाः मृताः आसन्।