OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 12, 2026

 विश्वासस्य नाम्नि चेदपि  नद्यः न मलिनायितव्याः। 

मद्रास् उच्चन्यायालयस्य सुप्रधानविधिः। 

ताम्रपर्णी नद्यां पितृतर्पणं कुर्वन्तः। 

चेन्नै> धार्मिकविश्वासस्य आधारेण चिन्तिते सत्यपि  जलाशयान् मलिनीकर्तुं न कोSपि अर्हतीति मद्रास् उच्चन्यायालयस्य मधुरा नीतिपीठेन स्पष्टीकृतम्। मरणानन्तरक्रियायै तमिलनाटे ताम्रपर्णीनदीमाश्रयमाणाः जनाः टण् मितानि वस्त्राणि इतरवस्तूनि च नद्यां विसृजन्तीति विषयं सूचयित्वा अस्ति न्यायाधीशौ जि आर् स्वामिनाथः, पुकष़ेन्ती इत्येतयोः निरीक्षणम्। 

  नीतिपीठेन प्रोक्तं यत्  आचारानुष्ठानाय सर्वेषां स्वातन्त्र्यमस्ति। किन्तु ईदृशवृत्तयः समाजे इतरेषां तथा पर्यावरणस्य च दोषाय न भवेदिति सर्वैः दृढीकर्तव्यम्। नीतिपीठेन स्मारितं यत् धार्मिकाचाराणाम् अधिकारः सार्वजनिकस्वास्थ्यस्यानुसृतं भवेदिति भारतीयसंविधानस्य २५ तमे अनुच्छेदे स्पष्टीकृतम्। 

  सप्ताहत्रयाभ्यन्तरे ९० टण् मितानि वस्त्राणि २. २ टण् भस्म च नदीशुचीकरणप्रवर्तकैः निर्मार्जितानि। 

बावली,पम्पा च मलिनीक्रियते। 

  केरलस्य बावली, पम्पा इत्याद्यः नद्यश्च वस्त्रादीनां विसर्जनेन मलिनीक्रियन्ते। पम्पायां वस्त्रत्यागः आचारविरुद्धमिति बहुवारं अभिज्ञैः प्रबोधितं तथा उच्चन्यायालयेन निरोधः विहितः अपि वस्त्रत्यागः निर्बाधमनुवर्तते। तमिलनाट्, कर्णाटकम्, आन्ध्रप्रदेशः इत्यादिभ्यः इतरराज्येभ्यः लक्षशः भक्ताः एव प्रतिवर्षं शबरिगिरिं प्राप्नोति। तेषु केषुचित् अयं दुश्शीलः इदानीमपि वर्तते इति देवस्वं बोर्डे् संस्थाधिकारिभिः उक्तम्। 

  कोट्टियूर् मन्दिरदर्शनं क्रियमाणैः कैश्चित् भक्तैः बावली नदी च मलिनायते इति सूच्यते।