OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, July 13, 2026

 फिफा विश्वचषकः।

पूर्वान्त्यचक्रं श्वः आरभ्यते। 

श्रेण्यां प्रथमचत्वारः स्पर्धन्ते। 

न्यूयोर्क्> २३तमविश्वचषकपादकन्दुकस्य पूर्वान्त्यचक्रस्पर्धा मङ्गलवासरस्य रात्रौ (भारतीयसमयः) आरभ्यते। फिफा संस्थायाः सजीवश्रेण्यां [live ranking] अग्रे  वर्तमानाः चत्वारः गणाः पूर्वान्त्यचक्रे प्रतिस्पर्धन्ते इति सविशेषता अस्ति। फ्रान्स् (प्रथमश्रेणी), अर्जेंटीना (श्रे २), स्पेयिनः (३), इङ्गलण्टः (४) एत्येते प्रथमस्थानीयाः एव पूर्वान्त्यचक्रं प्रविष्टवन्तः।  गणवीरतां प्राप्य एव एते निर्णायकचक्रं [knockout] प्रविष्टाः। 

  मङ्गलवासरे अर्धरात्रे - १२. ३० - फ्रान्सः स्पेयिनेन सह स्पर्धिष्यते।  अपरेद्युः अर्धरात्रे इङ्गलण्ट-अर्जेंटीना स्पर्धा सम्पत्स्यते। जूलै १९ प्रत्युषसि २. ३० वादने विनष्टान्त्यानां [Loser's final] स्पर्धा भविष्यति।  अन्त्यस्पर्धा जूलै १९ अर्धरात्रे १२. ३० वादने च सम्पत्स्यते।