OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 16, 2026

 फिफा विश्वचषकः।

अर्जेन्टीना अन्त्यस्पर्धां  प्रविवेश।

अट्लान्टा> पूर्वान्त्यचक्रस्य द्वितीये प्रतिद्वन्द्वे इङ्गलण्टदलम् एकं विरुध्य लक्ष्यद्वयेन   विजित्य मेसीसंघः अन्त्यस्पर्धां प्राविशत्।

 कुचेष्टितैः सम्पन्नः आसीत् प्रथमार्धः। बहुवारं पीतदण्डपत्रं प्रदर्शितं क्रीडानियन्त्रकेण, उभाभ्यामपि दलाभ्याम्। लक्ष्यरहितेन प्रथमार्धः समाप्तः। 

 ५५ तमे निमिषे गोर्डण् इत्यनेन अर्जेंटीनायाः जालं प्रकम्पितम्। ततः  नैकवारम् अर्जेंटीनायाः लक्ष्यप्रहाराः इङ्गलण्टस्य लक्ष्यरक्षकेण प्रतिरुद्धाः।लक्ष्यं प्रत्यर्पयितुं कृतः प्रयत्नः अचिरेण सफलः जातः। ८६ तमे निमिषे अन्सो फेर्णाण्टसेन अर्जेंटीना समस्थितिं प्राप - १-१। अनन्तरं ९०+२ तमे निमिषे ले मार्टिनस् नामकः अर्जेंटीना क्रीडकः तेषां विजयक्ष्यं सम्पाद्य अजय्याम् अर्जेंटीनां अन्त्यस्पर्धां प्रावेशयत्।