OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 17, 2026

 पुरी जगन्नाथमन्दिरस्य रथोत्सवे  महान् जनसम्मर्दः

एकः मृतः, शतं क्षताः। 

पुरी रथयात्रायाः दृश्यानि। 

पुरी> ओडीषायां पुरी जगन्नाथमन्दिरे रथोत्सवमध्ये जाते महति जनसम्मर्दे एकः मृतः। शताधिके जनाः क्षताः जाताः। गुरुवासरे आसीदियं दुर्घटना।

  मन्दिरस्य विख्यातं रथावहनं द्रष्टुं लक्षशः भक्ताः गतदिने 'ग्रान्ड् रोड्' वीथीं सम्प्राप्तवन्तः। तत्र जातेन परस्परसंघर्षणेन आसीदयं दुरन्तः। 

  जगन्नाथरथोत्सवे प्रतिवर्षं लक्षशः तीर्थाटकाः राज्यात् अन्तः बहिश्च प्राप्नुवन्ति। गतवर्षे च रथाकर्षणवेलायां दुरापन्ने  अभिसम्पाते त्रयः मृताः, पञ्चाशदधिके जनाः क्षताश्च।