OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 17, 2026

 ओडीषा। 

अध्ययनपुस्तकेषु स्खालित्यानि।

एस् सि ई आर् टि पूर्वनिदेशकः निगृहीतः।

भुवनेश्वरम्> प्रथमकक्ष्यातः अष्टमकक्ष्यापर्यन्तं पाठपुस्तकेषु अक्षन्तव्यानि स्खालित्यानि विधत्तानि इत्यारोप्य ओडीषायां राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषदः [SCERT] भूतपूर्वः निदेशकः मनोज् पाटी आरक्षकैः निगृहीतः। 

  पाठ्यपुस्तकरचनायां यथातथपरिशोधनाः न कृताः, विवरणानां शास्त्रीयता वस्तुताद्यः नावलोकिताः, स्खालित्यसहितानि पाठपुस्तकानि मुद्रणं कर्तुम् अनुज्ञा दत्ता इत्यादयः अपराधाः तस्योपरि आरोपिताः। SCERT संस्थायाः वर्तमानीननिदेशिका मधुस्मिता साहु इत्यनया समर्पितायां याचिकायामेव प्रकरणम्। 

  विख्यातः भौतिकगणितशास्त्रज्ञः ऐसक् न्यूटणः 'विमानचालकः' इत्यभिव्याप्य १५०० स्खालित्यानि पाठपुस्तकेषु आसन्। मुख्यमन्त्री मोहन चरण माजेः निर्देशानुसारं अपराधान्वेषणविभागेन [Crime branch] अन्वेषणमारब्धम्। अस्यांशतया मनोज पाडी, इतरे त्रयः सहनिदेशकाश्च सेवायाः निष्कासिताः अभवन्।