पश्चिमेष्या रक्तरूषिता।
द्वे यू ए ई पण्यनौके इरानेन आक्रान्ते।
भारतीयनाविकः मृतः।
दुबाय्> होर्मुस् समुद्रसङ्कोचस्य नियन्त्रणमधिकृत्य विवादेन पश्चिमेष्या पुनरपि रक्तरूषिता अभवत्। मङ्गलवासरे ओमानस्य समुद्रसीमायां यू ए ई राष्ट्रस्य ध्वजं वहन्त्यौ द्वे पण्यमहानौके इरानेन आक्रान्ते। एकः भारतीयनाविकः हतः। १० नाविकाः आहताः।
महानौकाद्वये अपि ३० भारतीयनाविकान् अभिव्याप्य ४३ नाविकाः आसन्। पश्चिमेष्यायुद्धे अद्यावधि आहत्य १४ भारतीयानां जीवहानिरभवत्।