OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, July 15, 2026

 फिफा विश्वचषकः।

स्पेयिनः अन्त्यस्पर्धायाम्।

डालस्> अत्यन्तम् उत्साहोज्वले प्रथमे पूर्वान्त्यप्रतिद्वन्द्वे प्रबलं फ्रान्सं २ - ० इति लक्ष्यक्रमेण पराजित्य स्पेयिनः अन्त्यस्पर्धां प्रविवेश। 

  चटुलैः सुन्दरैश्च कन्दुकचालनैः सम्पन्ने प्रथमार्धे फ्रान्सं विरुध्य विहितं दण्डप्रहारं स्पेयिनस्य ओयार् सबालः लक्ष्यं चकार। एवं २२ तमे निमिषे स्पेयिनः आधिपत्यं जग्राह, १-०। 

 द्वितीयार्धे स्पेयिनः स्वीयां लक्ष्यसम्पदं २ - ० इति संवर्धापयामास। ५८ तमे निमिषे पेड्रो पोरो इत्यनेन आसीत् द्वितीयं लक्ष्यकन्दुकम्। ततः फ्रान्सेन कृतानि द्वित्राः लक्ष्यप्रयत्नाः निष्फलत्वं प्रापुः।एकस्मै अपि लक्ष्याय जीवन्मरणसंग्रामं कृतवान् किलियन् एं बापे ८६ तमे निमिषे पीतदण्डपत्रं सम्पादयामास च।